पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० कारिकावली मजूषा. विशेषगुणत्वावच्छिन्नविळम्बे तद्याप्यधर्मावच्छिन्नजनकतत्तदभावकूटस्य प्रयोजकत्वे वाच्ये इच्छात्वा- वच्छिन्नजन केष्टसाधनताज्ञानविळम्वस्यापि प्रयोजकता दुर्वारा नैष दोषः जन्यात्मविशेषगुणसामान्याभावस्य कदाचिजाग्रहशायामनुभवसिद्धत्वे तदानीं विजातीयात्ममनस्संयोगस्यैव कल्पकाभावेन कल्पनात् । एवं च स्वावच्छेदकावच्छिन्नभिन्नपदार्थनिष्टसमवायस्वाश्रयसमवेतत्वान्यतरसंवन्धावच्छिन्न प्रतियोगिताकाभावप्र. युक्तः यः स्वावच्छेदकावच्छिन समानकालीनोऽभावः तत्प्रतियोगितावच्छेदकभिन्न धर्मावच्छिन्नसमवायाव- च्छिन्नकार्यतानिरूपितसमवायस्वाश्रयसमवेतत्वान्यतरसंबन्धावच्छिन्न कारणतात्वमसमवायिकारणतात्वमिति-- पर्यवसन्नम् । वेगकार्यताव छेदकं ह्यभिघातत्वं स्वव्यापकधर्मावच्छिन्नजनकक्रियाविरहा रह प्रयुक्ताभावप्रतियो- गितावच्छेदकं वेगेन कियोत्पादकाले अभिघाताभावस्य पूर्वक्षण क्रियाविरहप्रयुक्तत्वादिति न वेग- निष्ठाभिघात कारणतायामतिव्याप्तिः । एवं तुरीतन्तुसंयोगादावपि द्रष्टव्यम् । यदि चैवं स्वत्वनिवे. शेनाननुगम इत्युच्यते तदा स्वावच्छेदकावच्छिन्नसमानकालीनस्वावच्छेद कावच्छिन्नभिन्नपदार्थनिष्टदर्शि तान्यतरसंबन्धावच्छिन्नप्रतियोगिताकाभावप्रयुकाभावप्रतियोगितावच्छेदकीभूतधर्मावच्छिन्नकार्यतानिरूपिता- या या कारणता तत्तद्भेदकूटविशिष्टा या समवाय संबन्धावच्छिन्नकार्यतानिरूपितदर्शितान्यतरसंबन्धा. वच्छिन्ना कारणता सेवासमवायिकारणतेति वक्तव्यम् । एतच्च विजातीयात्ममनसंयोगजन्यतावच्छेदक- जन्यात्मविशेषगुणत्वस्वीकारेण यदितु जीबन योनि यत्नव्यावर्तनाय योग्यत्वस्यापि तत्र निवेशनीयतया कायर रावच्छेदककोटिप्रविष्टानां विशेषणावशेष्यभावे विनिगमनाविरहेण तदपेक्षया लाघवेन जन्यज्ञान- स्वजन्येच्छात्वादिकमेव तजन्यतावच्छेदकामति विभाव्यते तदा सति विजातीयमनस्संयोगे घटा- दिज्ञानोत्पत्तिकाले जन्येच्छात्वावच्छिन्नाभावः जन्येच्छात्वव्याप्योपायेच्छात्वफलेच्छात्वाद्यवच्छिन्नजनकेटसाध. नताज्ञानसुखत्वादिप्रकारकज्ञानाभाव प्रयुक्त इति जन्येच्छात्वावच्छिन्नं प्रति तस्यासमवायिकारणत्वं न सं- भवतीत्याक्षेपः प्रसज्यते । स चेत्थं वारणीयः तथाहि स्वावच्छेदकावच्छिन्नभिन्नपदार्थवृत्तिदर्शितान्यत रसंबन्धावच्छिन्नप्रतियोगिताकाभावनिरूपितसाक्षात्प्रयोज्यताश्रयीभूतो यः स्वावच्छेदकावच्छिन्नसमानका. लीनोऽभावः तत्प्रतियोगिताबच्छेदकधर्मव्याप्यधमांवच्छिन्न कार्यतानिरूपित कारणताभिन्ना या निरुतका- रणता सैवासमवायिकारणता । तथाहि इष्टसाधनताज्ञानस्येच्छा प्रति यद्यात्मनिष्टप्रत्यासत्या कारणत्वं तदा एकविषयकेष्टसाधनताज्ञानादन्यविषयकेच्छावारणाय तत्तद्विषयकत्वं कार्यतावच्छेदके कारणतावच्छे. दके च निवेश्यम् । तथाच कारणतावच्छेदकावच्छिन्नाभावस्य कार्यतावच्छेदकावच्छिन्नाभाव एव साक्षात्प्रयोजकतया तत्तद्विषयकेटसाधनताज्ञानत्वावच्छिन्नाभावानां तत्तविषय केच्छात्वावच्छिन्नाभावा एव साक्षात्प्रयोज्याः तदवाराच इच्छात्वावच्छिन्न प्रतियोगिताकामावस्तत्प्रयोज्य: विशेषाभावकूटस्य सामा- न्याभावप्रयोजकत्वात् । तथाचात्ममनस्संयोगजन्यतावच्छेदकं जन्येच्छात्वं न दर्शिताभावनिरूपितसा- क्षात्प्रयोज्याश्रयीभूतं भावप्रतियोगितावच्छेदक नवा तादृशधर्मव्याप्यं यदीसाधनताज्ञानस्य विष- यनिष्टतया हेतुत्वं तदा विषयतासंबन्धावच्छिन्न प्रतियोगिताक एवं तदभावः विषयतासंबन्धावच्छि नप्रतियोगिताकेच्छाभावप्रयोजको न तु समवायेन तदभावस्समवायेनेच्छाभावे प्रयोजक: एवं सुखत्व- ज्ञानाभावस्थलेऽपि द्रष्टव्यम् । ननु विषयनिष्ठप्रत्यासत्त्या कारणताखीकारपक्षे एकपुरुषोयेष्टसाधनता. ज्ञानविषये पुरुषान्तरीयेच्छाया लिषयतयाऽऽपत्तिवारणाय तत्तत्पुरुषीयत्वं, कार्यत्वकारणत्वयोरवच्छेदक- कोटौ निवेशनीयम् । तथाच एकधार्मिसंबन्धित्वस्य कार्यकारणविशेषणतया कार्यत्वकारणत्वयोरवच्छे. दककोटिप्रवेशे तद्धर्मिनिष्ट कार्यतावच्छेदकावच्छिन्नाभावे तद्धर्मिनिष्ठकारणतावच्छेदकावच्छिन्नाभाव- स्य प्रयोजकतया तत्पुरुषनिष्टेच्छात्वावच्छिन्नाभावे तत्पुरुषनिष्टस्येष्टसाधनताज्ञानत्वावच्छिन्नाभावस्थ प्रयो- जकत्वं दुर्वारम् । नच उपायेच्छात्वस्य इष्टसाधनताज्ञानकार्यतावच्छेदकतया तदवच्छिन्नाभावस्यैव इ. साधनताज्ञानाभावनिरूपितसाक्षात्प्रयोज्यत्वं इष्टसाधनताज्ञानाभावेऽपि सुखत्वप्रकारकज्ञानदशायामिच्छा-