पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्कावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्वता । २२५ न मञ्जूषा. वच्छेदकतयेष्यते किंतु यत्र लाघवं तदेव कारणतावच्छेदकतयेष्यते यथा चक्रकुलालादिसमवधानद- शायां घटाभावो दण्डाभावाद्दण्डत्वदण्डरूपदण्डावयवाद्यभावाद्वा स्यात्तत्र दण्डवत्वं दण्डरूपत्वं दण्डा- वयवत्वं च शरीरगौरवात्संबन्धगौरवाच्च न कारणतावच्छेदकं । एवं गन्धोत्पत्त्यनन्तरं पुनस्तदधिकरणे सद्वन्धोत्पत्त्यभावस्तद्गन्धप्रागभावध्यक्त यभावात्तद्रूपप्रागभावव्यक्त्यभावाद्वा स्यात्तत्र तद्रूपप्रागभावनिष्ठत . द्यक्तित्वं न तद्गन्धकारणतावच्छेदकमुपस्थिति गौरवात् । एवं दण्डस्य दण्डावयवसमवेतद्रव्यत्वादिक- मपि न कारणतावच्छेदकं गौरवात् यद्यपि कपालसंयोगत्वचभ्रमणत्वादिकं दण्डत्वाधपेक्षया गुरु तथापि यद्यत्कारणसत्वे कपालसंयोगत्वावच्छिन्नाभावात् कार्याभावः कपालदण्डादेरपि तत्तत्कारण- मायनिविष्टतया तत्सत्त्वेन कपालत्वाचवच्छिन्नाभावः अतस्तुल्यवदितरकारणसत्त्व इत्यादिपूर्वोक्तपरि- चायकरूपाक्रान्तत्वं न कपालमंयोगवादेः तादृशधर्मावच्छिन्नानां च यत्र कस्यचित्संबन्धगौरवं कस्य- चिद्धर्मगौरवं स्यात्तत्र यद्धावच्छिन्नस्य धर्मगौरवं स धर्मः कारणतावच्छेदकतया नेष्यते अतो नी- लत्वमेव नीलकारणतावच्छेदकं नतु नीलविशिष्टावं । एवं संभावितेतरकारणसत्त्वे यपविशिष्टसत्त्वेऽपि यद्रूप विशिष्टसत्त्वं विना न कास्पित्तिः तयोः प्रथम न कारणतावच्छेदक किंतु द्वितीयमेव यभा चक्रकपालादिमावसत्त्वे पृथिवीवद्रव्यत्वविशिष्टसत्त्वेऽपि दण्डत्वविशिष्टसत्त्वं विना न कार्यो- त्पत्तिरतः पृथिवीत्वादिकं न कारणतावच्छेदकं किंतु दण्डत्वमेव । एवं आवश्यकानियतपूर्ववृत्तिता. वच्छेदकम्बावच्छिन्नसमव्यापकतावच्छेदकधर्मावच्छिन्नानां सत्त्वे यद्धविच्छिन्नाभावान्न क्वचिदपि कार्य- तद्वयापारान्यतराभावः स धर्मो न कारणतावच्छेदकः यथा दण्डस्वावच्छिन्नसत्त्वे द्रव्यत्वत्वरूप. स्वायवच्छिन्नाभावान्न घटाभावश्चक्रभ्रमणाद्यभावो वा अतो द्रव्यत्वत्वं रूपत्वं वा न कारणतावच्छे. दकमिति द्रव्यत्वरूपयोः कारणता अत्र पृथिवीत्वादेः दण्डनिष्टकारणतानवच्छेदकत्वे द्रव्यत्वा- देरकारणत्वे च औत्सर्गिका रस्थितिगौरवं तन्त्रम् । एवं चैतेषां सर्वेषामेव धर्माणामनुगमकमन. तिप्रसक्तमात्माश्रयादिदोषरहितं किञ्चिद्रूपममरगुरोरप्यशक्यनिर्वचनं किंतु तत्तद्रुपैस्तत्तद्धर्मान्परिचित्य तत्तद्वयक्तिभेद एष कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्याधि करणवृत्त्यभावप्रतियोगितानवच्छेदकधर्मवत्त्व. रूपनियतपूर्ववृत्तित्वघटकधर्मे निवेशनीयः । तत्र नियतपूर्ववत्तितानवच्छेदकीभूतानां रासभत्वगोत्वाश्वत्वा. अनन्तधर्माणां केनचिन्द्र पेण परिचयसंभवेऽपि न तेषां तत्तद्वयक्तित्वेन भेदाः कारणताशरीरे प्रवेश्यन्ते गौरवात् नियतपूर्ववृत्तितावच्छेदकत्वदळेनैव तेषां वारणसंभवात् । किंतु नियतपूर्ववृत्तितावच्छेदकीभू. ता ये धर्मास्त एव येनकेनचिद्रूपेण परिचिताः कारणताशरीरे भेदप्रतियोगितावच्छेदकतया प्रवेशनीयाः । अत एवावश्यकृप्तनियतपूर्ववृत्तिन एव कार्यसंभवे तत्सहभूतमन्यथासिद्धमित्येव केचित्पठान्त । तत्सह- भूतत्वं हि नियतपूर्ववृत्तिन एव संभवति नान्यस्यात्रान्यथासिद्धत्वमननुगतमि सयमर्थो विश्वनाथेनैव प्रपञ्चितः । अन्यथातिरिक्तमथापीति मूलस्यावश्यकृप्तनियतपूर्ववृत्तिभिन्नं अन्यथासिद्धमित्येवार्थे वक्त- ध्ये अवश्यकृप्तनियतपूर्ववृत्तिन एव कार्यसंभवे तद्भिन्नमित्यायुक्तिय॑र्था स्यात् अनया ह्यन्यथासिद्धा.. नां परिवेयता स्वरसतो ध्वन्यते तस्मायुक्तमनियतपूर्ववृत्तीनां नान्यथासिद्धत्वमिति । इदमत्र बोध्यम् । अन्यथासिद्धत्वेनाभिमतानां केषांचिद्धर्माणां भेदो धर्मिणि विशेषणमन्यथासिद्धयवच्छेदकत्वेनाभिमतानां केषांचिद्भदो नियतपूर्ववृत्तितावच्छेदकधर्मे तद्यथा तद्धटत्वावच्छिन्न कारणताशरीरे रासभभेद एव ध र्मिविशेषणतया निवेशनीयः । नतु रासभवृत्तिधर्माणां वहूनां भेदो नियतपूर्ववृत्तितावच्छेदकविशेषण. तया गौरवात् । दण्डस्य दण्डत्वेन कारणतया तद्भेदो घटकारणतायां न धर्मिविशेषणं किंतु द- ण्डत्वातिरिक्तदण्डवृत्तिधर्माणां भेदा एव नियतपूर्ववृत्तितावच्छेदकविशेषणानि दण्डत्वभेदो धर्मिणि दण्डरूपदव्यत्वादीनां मेदाश्च नियतपूर्ववृत्तितावच्छेदकधर्म इव धर्मिण्यपि तेषां कारणताया दण्डादि- निष्टकारणतावच्छेदकतायाश्चाभावात् एवमन्यत्राप्यूह्यम् । इदं पुनरिहावधेयं उक्तानां धर्मिणां धर्मा- 29