पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्ताबळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्विता । %3D मञ्जूषा. कारणत्वकल्पने पीताभावत्वादीनां पण्णा कारणतावच्छेदकत्वकल्पने च गौरवेण पीताभावादीनामन्यथासि. द्वतया न कारणत्वामति तन्त्र पृ-छामः किमन्यथासिद्धरनुगतत्वमभिप्रेयते अननुगतत्वं वा । आद्ये पाताभा. बादीनां किमन्यथासिद्धी तन्त्रं गौरवमिति चेत्तदेव हि नेति वयमवोचाम । स्पष्टार्थ पुनरप्युच्यते । घण्णां कारणत्वे किं गौरवं षट्मु कारणतासंबन्धकल्पनमेवेति चेत्तरिक भवता व्युदसितुं प्रभूयते नियतपूर्ववृत्तितारू- पायास्तस्यास्तव दुर्निवारस्वात् अनन्यथासिद्धनियतपूर्ववृत्तिता तेषां नेति चेत् किमनन्यथासिद्धत्वं गुरुभिः नत्वमिति सेस्कि गुरुत्वामेति सोऽयं घटीयन्त्रन्यायः । अथ षट्वं गुरुत्वमिति चेत्तहि दण्डचक्रचीवरकूटकुला- लकपालानां षट्वादन्यथासिद्धत्वं स्वादिति खयमेव चिरं मनसा विभाव्यताम् । अथ वेन्यथासिद्धेरननु - गतत्वमिति सिद्धान्त आस्थीयते तदा सुतरां पीताभावादीनां कारणतानिराकरणानुपपत्तिः । तथाहि अत्र पक्षे पीताभावादीनां कारणता नास्तीत्युक्ते कोऽर्थः पीताभावादिभिन्नत्वे सति नीलनियतपूर्ववृत्तित्वं नास्ती- ति हि तदर्थः । तत्रच विशिष्टं निराकुर्वन् कि विशेषणाभावमभिप्रेषि उत विशेष्याभावमाहोस्विदुभयम् । आधे स्वप्रसतप्रतिषेधः । को हि त्वामाचक्षीत पीताभावः पीताभावात् भिद्यत इति अन्यथा नी- लातिरिक्तरूसामान्थाभावेऽपि नीलातिरिक्तरूपसासान्याभावभिन्नत्वविशिष्टनीलनियतपूर्ववृत्तित्वं कुतो न निराचकृपे । द्वितीये तु न तव केवलं भवतां प्रसवितुरपि दुश्शकमत एव न तृतीयः कारणताति- रिक्तत्वपक्षे विदमुपपद्यते अतिरिक्तरूपायाः कारणतायाः षट्सु संबन्धकल्पनापेक्षथा तवच्छेदक- तायाः षट्सु कल्पनापेक्षया च लाघवेन एका कारणतायास्तदवच्छेदकतायाश्चैकत्र कल्पयितुमुचि- तत्वात् । नहि नियतपूर्ववृत्तित्वमिवातिरिक्तरूपं कारणत्वमपि पीताभावादीनामुभयवादिसिद्धं थेच तदशक्यवारण स्यादिति । किञ्चावच्छेदकभेदेन कारणतानां भिन्नतया पीताभावादिपु कारणताः पट् कल्पनीयाः तदवच्छेदकताश्च पीताभावत्वादिषु षट् नीलातिरिक्तरूपसामान्याभावे त्वकैव कारण- ता तदवच्छेदकता चैवेति लाघवं नचेदं वन्मते संभवति पीताभावादिषु षण्णां नियतपूर्ववृत्तितानां तदवच्छेदकतानां च पीताभावत्वादिषु सर्वसिद्धत्वात् । एवमन्यत्रापि तत्र तत्र कारणताभेदप्रसको द्रष्टव्यम् । तदिदमुच्यते गुरुता कुत एव स्याद्धि कारणतयोरुभयोर्वेति । उभयोरिति प्रदर्शनार्थम् । बढीषु कारणतासु प्रसक्तास्वपि गौरवापादनं कथं संगच्छत इत्यर्थः । नियतपूर्ववृत्तितारूपाणां तासां भेदत्य सर्वसिद्धत्वादिति भावः । एवं कारणतावच्छेदककोटिप्रविष्ट पदार्थानां विशेषणविशेष्यभावे वि- निगमनाविरहेण कारणताभेदस्तदवच्छेदकताभेदश्च तत्र तत्रापाद्यते । यथा प्रत्यक्ष प्रत्यालोकसंयोग- स्य कारणत्वे आलोकवृत्तित्वसंयोगत्वयोर्विशेषणविशेष्यभावे विनिगमनाविरहात् कारणताभेदापत्त्या संयोगसंबन्धेनालोकस्यैव कारणत्वमित्यादि तदपि भवतां विरुध्यते । तथाहि कारणत्वं नियतपूर्व- वृत्तित्वं तच यदि कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्याधिकरणवृत्तिःवरूपं तदा आधेयत्वस्याधेयमे- दात् भेदो नत्वाधेयतावच्छेदकभेदादित्यजीकारे नियतपूर्ववृत्तितावच्छेदकस्यालोकवत्तित्वविशिष्टसंयोगत्वस्य संयोगत्वविशिष्टालोकवृत्तित्वस्य च भेदेऽपि न तत्प्रयुक्तभेदो नियतपूर्ववृत्तित्वस्याऽऽलोकसंयोगध्यक्ति. भेदप्रयुक्तस्तु न त्वयापि निवारयितुं शक्यः आधेय तावच्छेदकभेदात् । तद्भदेतु तादृशधर्मद्वयाव- च्छिन्नयोः आलोकसंयोगनिष्ठयोराधेयतयो दस्तवाप्यावश्यकः । अथ तादृशनियतपूर्ववृत्तितावच्छेदकध- मवत्त्वं कारणत्वं तथापि दर्शितधर्मद्वयस्य नियतपूर्ववृत्तितावच्छेदकता आलोकसंयोगकारणसानझींका- रवादिनोऽप्यविशिष्टा । नगालोकसयोगस्य नियतपूर्ववृत्तित्वं तदवच्छेदकत्वं वा दर्शितधर्मद्वयस्य व्युद- सितुं कश्चित्प्रभवति। आलोकीयस्संयोगो नियतपूर्ववृत्तिः संयोग आलोकीयो नियतपूर्ववृत्तिरिति च प्रत्ययात् । एवं कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्याधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकत्वरूपं नियतपूर्ववृत्तिताच- च्छेदकत्वमपि दर्शितधर्मद्वये दुष्परिहारम् । किंच प्रत्यक्षे आलोकसंयोगो न कारणामत्युक्ते आलोकसंयोगभिन्न. प्रत्यक्षानियतपूर्ववृत्ति नेत्येतावानर्थः प्रतीयेत तन्त्र चोक्तदोषः । मम त्वतिरिक्तायाः कारणतायाः कारणता-