पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्वता । २२९ मञ्जूषा. तत्र बाधाभावात् । एवं कायतरुसंयोग प्रति हस्ततरुसंयोगस्य समवायसंबन्धेन कारणत्वं नतु स्वाश्रयसमवेतत्वसंबन्धेनेत्यायुक्तिरपि तेषां न युज्यते कार्याव्यवहितप्राक्क्षणाबच्छेदेन कार्याधिकरणतरु- निरूपितायां हस्ततरुसंयोगनिष्ठाधेयतायां समवायस्येव तादृशकायनिरूपितायां तस्यां स्वाश्रयसमवेत- त्वसंवन्धस्याप्यवच्छेदकत्वानपायात् ननु गुरुधर्म गुरुसंबन्धे च कारणतावच्छेदकत्वव्यवहाराभावाद्वं. शदळसमवेतद्रव्यत्वाभिन्ननियतपूर्ववृत्तितावच्छेदकधर्मवत्वमेव घटकारणतपदार्थ; एवं संयोगनिष्टस्वाश्रय- समवेतत्वसंबन्धावच्छिन्नपूर्ववृत्तिताभिन्ननियतपूर्ववृत्तितावच्छेदकधर्मवत्त्वमेव संयोग जसंयोगकारणतापदार्थ इत्युच्यते अतो न कोऽपि दोष इति चेदनोत्तरमुच्यते भजति न व्यपदेशमिति । क्रिमितीत्य. नुवर्तते वादस्थले ह्येषा रीतिः कथञ्चिदुपपद्येत न जल्पस्थले घटकारणताशरीरकोटी दण्डवभिन्नत्वमेव लाघवानिवेशथितुमुचितं नतु वंशदळसमवेतद्रव्यत्वभिन्नत्वं गौरवादिति तेन रूपेणैव कारणताव्यवहा. रोऽस्तु । अथवा उभयमपि न निवेशनीयमुभयरूपेणैव कारणताव्यवहारसंभवादिति जल्पकोऽभि- दध्यात्तदा कि कर्तव्यं स्यात्तथाच गुरुधर्मो गुरुसंबन्धो यदि कारणतावच्छेदकत्वव्यवहारं भजेत तदा किनः प्रच्छिद्येत । कारणतातिरिक्तत्वपक्षे तु नायं दोषः प्रसज्येत अतिरिक्ता या कारणता तदवच्छेदकतायाः बहुपदार्थघटितयोधर्मसंवन्धयोः कल्पनापेक्षया लघुभूतयोरेव तयोः कल्पयितु- मुचितत्वादिति । अनुपपत्त्यन्तरमुच्यते केन पीलुपरिमाणनिवृत्तेति । कारणत्वमन्यत्र पारिमाण्डल्या. दिभ्य इति ह्युच्यते तत्र कि कारणत्वं नाम यसारिमाण्डल्यादिभ्यो व्यावृत्तं लक्षणं स्यात्पारिमाण्ड. ल्यादिभिन्नत्वे सति कार्य नियतपूर्ववृत्तित्वमिति चेल्किमपराद्धं ते परमाणुरूपेण किंच पारिमाण्डल्या. दिभिन्नानां पारिमाण्डल्यादिभिनत्ये सति नियतपूर्ववृत्तित्वं लणमिति तावन्न युक्तं नियतपूर्ववृत्तित्वां- शवयात् । नापि पारिमाण्डल्यादिभिन्नत्वमात्र तथा सति पारिमाण्डल्यादिभिन्नलक्षणत्वेन काथ- तस्य कारणत्वस्य समवाथिकारणतात्वादिना विभागानुपपत्तेः । नहि पारिमाण्डल्यादिदस्य वि- ध्यमस्ति । अथ केवलं कार्यनियतपूर्ववृत्तित्वमात्रं लक्षणमिति चेत्तत् कथं पारिमाण्डल्यादिभ्यो व्यावर्तेत अतिरिक्तातु कारणता पारिमाण्डल्यादै न कल्प्यते प्रयोजनाभावादिति सुवचम् । एव- मन्यान्यविजातीयकानि बहूनि दूषणान्यूह्यानि प्रन्थगोस्वभयान लिख्यन्ते । महादेवस्तु कारणत्व स्यानन्यथासिद्धनियतपूर्ववृत्तितावच्छेदकधर्मत्वे प्रतिबन्धकाभावस्य तत्तयरित्वेन हेतुत्वापत्तिः यथा प्रवृति प्रति कृतिसाध्यताज्ञानस्य हेतुत्वं कृत्यसाध्यताज्ञानाभावस्य वेति विचारे कारणतावच्छेदकलाध- चात् कृतिसाध्यताज्ञानस्यैव हेतुत्वामिति तान्त्रिकैस्सिदान्तितं तच्च विध्यते कृतिसाव्यताज्ञानत्वापेक्ष- या कृत्यसाध्यताज्ञानाभावत्वस्य गुरुत्वेऽपि तदभावनिष्ठतव्यक्तित्वस्थ लघुत्वेन कारणतावच्छेदकत्वसंभवात् गुरुभिन्नो नियतपूर्ववृत्तितावच्छेदको धर्म एवं हि कारणतावच्छेदको नाम कृतिसाध्यताज्ञाननिष्ठ तद्वयक्तित्वं च न किमपि नियतपूर्ववृत्तितावच्छेदक कृतिसाध्यताज्ञानत्वं कृत्यसाध्यताज्ञानाभावत्वं च गुरु ततश्च परिशेषात् कृत्यसाध्यताज्ञानामावस्य तद्वयक्तित्वेन हेतुत्वापत्तिः नचैतदिप्यते तान्न- कैः कारणतातिरिक्तत्वपक्षे ताशी कारणता स्वरसतो यधर्मविशिष्ट प्रतीयते स धर्मः कारणतावच्छेदक- तया स्वीकार्यः लोका हि स्वरसत एवं प्रतियन्ति मणौ सति दाहो न जायते अतो मण्य- भावो दाह्कारणं सति बाधज्ञानेऽनुमितिर्न जायते अतो वाघज्ञानाभावोऽनुमितिकारणमिति नतु तद्वशक्तिर्दाहकारणं तद्याक्तिरनामितिकारणमिति स्वारसिकी प्रतीतिरतो न वचिदपि प्रतिबन्धकामा वस्य तद्वयक्तित्वेन कारणत्वं तेनेहापि कृत्यसाध्यताज्ञाने प्रवृत्तिन जायते अतः कृत्यसाध्यताज्ञानाभावः प्रवृत्तिहेतुरित्येव स्वरसतो लोकाः प्रतीयुः नतु तव्यक्ति प्रवृत्तिकारणमिति अत्तो न तद्वयक्तित्वस्य स्वप्रसक्तिः । ननु स्यादेवं यदि वयं गुरुभिन्ननियतपूर्ववृत्तितावच्छेदकधर्मवत्त्वं कारणत्वमित्याचक्षीमहि नत्वेवमाचक्ष्महे सामान्यतो गुरुत्वस्य दुर्वचत्वात् किन्तु यत्र यत्र प्रामाणिकानां न कारणतावच्छे. तथा-