पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० कारिकावली कारण- मजूपा. दकत्वव्यवहार; तत्तद्भेदकूटविशिष्टनियतपूर्ववृत्तितावच्छेदकधर्मवत्वमेव कारणत्वमिति चेत्तर्हि ताया असर्वज्ञदुर्विज्ञेयत्वापत्तिः । नच तत्तद्भेदकूटवत्त्वसंबन्धेन कार्यविशिष्टो यो नियतपूर्ववृत्तिता. वच्छेदकधर्मः तद्वत्त्वं कारणत्वं तत्र भेदकूटस्य संबन्धकोटिप्रवेशान्न दुर्विज्ञेयत्ता संबन्धज्ञानस्य वि. शिष्टयुद्धावनपेक्षितत्वादिति वाच्यं तत्तद्भद कूटवत्त्वस्य कार्यप्रतियोगिकत्वाभावेन तत्संबन्धत्वासंभवात् । स्वनिरूपितकारणतावच्छेदकत्वब्यवहारशून्यनिष्ठतबद्वयक्तित्वापच्छिन्न प्रतियोगिताकभेदकूटवत्त्वमेव संवन्धोऽस्तु तस्य कार्यप्रतियोगिकत्वादिति चेत् किं स्वनिरूपित कारणतावच्छेदकत्वव्यवहारशून्यत्वम् । न तावत्स्वनिरूपितनियतपूवृत्तितावच्छेदकत्वव्यवहारशून्यत्वं तस्यान्यथासिद्धयवच्छेदकधर्मे बाधात् स्ववाचकपदसमाभिव्याहृतकारणपदसमभिव्याहृतपदप्रतिपाद्यतानवच्छेदकत्वं तदित्यपि न सति कण्ठता- ल्वाभिघातं तद्व्यक्तिघटकारणमित्यादिशब्दप्रयोगस्य दुनिरोधत्वात् । नच प्रामाणिकतादृशपदप्रतिपाद्य. तानवच्छेदकत्वं विवक्षितमिति वाच्यं तत्र कारणपदस्य पूर्ववृत्तिमानपरत्वे प्रामाणिकत्वानपायादे- वमन्यदप्यम् । नच तत्तयक्तित्वावच्छिन्न स्वत्त्वमेव संबन्धस्तस्य कार्यप्रतियोगिकत्यलाभाय स्वविषयकज्ञानविषयत्वादिकं किचिद्विशेषणं तद्वयक्तित्वे भेदे वा निवेदयतामिति वाच्यं तथापि तस्य विशिष्टप्रातिनियामकवाभावेन संवन्धत्वासंभवादिति कारणत्वामिति कारणत्वमतिरिक्त वाच्यामिति नव्य- मते युकिमाचट । नन्वियता प्रबन्धनातिरिक्त कारणतानहीकारे प्रन्थकदुक्तयो विरुध्यन्त इत्युकं विरु- ध्यन्ता नैतावतार्थसिद्धिरिति चेन्न दण्डो घटकारणमित्यादिपामरप्रत्यक्षेणैव तत्सिद्धेः । नहि तत्रान. न्यथासिनियतपूर्ववृत्तित्वस्य विषयता संभवति तस्य पूर्वोकरीत्या दुग्रहत्वात् । अत्र महादेवः का. रणत्वस्थ अतिरिक्तत्वे दण्डादौ सर्वदा तत्प्रत्यक्षापत्तिः । नचानन्यथासिद्धत्वे सतीत्यादिधर्मस्तद्वन्य- जक इति वाच्यम् । तादृशधर्मज्ञानस्यावश्यकत्वे तस्यैव कारणतामहरूपत्वौचित्यादिति नव्यमत प्रत्याचख्यो तन्न तथा सति गोत्वादिजातेरप्युच्छेदप्रसङ्गात् । नहि सास्नालाल ककुत्खुराविषाणाद्य. ज्ञानदशायामयं गोरिति गोत्वं प्रतीयते अतोऽवयवसंस्थानविशेषणज्ञानस्यावश्यकत्वे तस्यैव मोत्वज्ञा. नरूपतौचित्यात् गोत्वं न सिद्धयेत् यदि व सास्नालाङ्गलाद्यक कावयवसन्निवेशविशेषोपलब्धावष्ययं गोरित्या- यनुगतप्रतीत्या न तस्यां प्रतीतो कदाचित् सास्नायाः कदाचिल्लाङ्गलस्येति अननुगतानां विषयत्व. संभव इत्यनुगताया गोत्वजातेरेव तद्विषयत्वमवश्यं वाच्यम् । सास्नादेस्तु तृणारणिन्यायेन गोत्व- जातिव्यजकत्वमेवेप्यत इत्युच्यते तदा दण्डत्वादिभिन्नत्वविशिष्टघटनियतपूर्व वृत्तित्वतन्तुत्वादिभिन्न विशिष्टघटनियतपूर्वत्तित्वादिनानाधर्मवे कैकपरिज्ञानेऽपि घट कारणं पटकारणमित्येवंरूपाया: दादिनिरूपितत्वप्रकारेण कारणाकारानुगतप्रतीतरप्यानुभाविकत या न तत्र दण्डत्वभिन्नत्वायननुगतधर्मा- णां कारणत्वांशेनोल्लिखो युक्तः किन्तु कारणतात्वरूपधर्मान्तरानुगतातिरिक्तरूपकारणतायाः घटादिनिरू. पितत्वप्रकारेण ज्ञान प्रति दण्डत्वादिभिन्नत्वविशिष्टघटनियतपूर्ववृत्तित्वादिज्ञानस्य हेतुतैव युक्ता । तथा सति घटकारणमित्यादिज्ञानानां कारणत्वांशेऽनुगतत्वनि हात् । वस्तुतस्तु इदं दण्डत्यादिभिन्न घटनि यतपूर्ववृत्तीति ज्ञानमात्रेण इदं घटकारणमिति न प्रतीयते व्यवट्टियते वा नियतपूर्ववृत्तित्वेऽपि दण्डत्वादिक यथा न कारणं तथेदमपि स्यादिति संभावनायाः अनुभवसिद्धत्वात अतो दण्डत्वादिभिन्नत्वे सति नियतपूर्व- वृत्तित्वस्य न घटकारणताप्रहाविषयत्वं व्यजकत्वं वा किन्त्वन्वयव्यतिरेकयोरेव कारणताच्य अकत्वं स्वीक्रियते अन्वयन्यतिरोकिता च स्वस्वव्यापारतरयावत्कारणसमवधानकालीनस्वसत्ताव्यापककार्यसत्ताकरवे सति तादृश- स्वाभावव्यापककार्याभावकत्वं दण्डस्थ पृथिवीत्वेन स्थूलत्वेन वा कारणताग्रहवारणाय सत्यन्तं तत्र चक्राद्य- भावकाले दण्डत्वविशिष्टसत्त्वेऽपि घटानुत्पादात् दण्डत्वविशिष्टे घटकारणतामहोपपत्तये कालानान्तं स्वसत्ता- विशेषणम् । पृथिवीत्वस्थूलत्वादिविशिष्टेतरचक्रन्नमणादिसमवधानदशायां तद्विशिष्टसत्वे कार्योत्पादात् स्व. व्यापारेतरेति । अन्वयदळे प्रथमस्वत्वनिवेशनं स्पष्टार्थमिति मन्तब्यम् । घटत्वावच्छिन्नं प्रति रासभस्य कारण.