पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ कारिकावली - मञ्जूषा. ज्ञानजनकत्वादेव कारणताग्राहकत्वव्यवहारः । एवं पूर्वोक्तगौरवज्ञानस्यापि तादृशप्रयोजकताज्ञान एवं प्रति- बन्धकत्वम् । एवमत्र पक्षेऽपि न पूर्वोक्तग्रन्थकूदुक्त्यनुपपत्तिगन्धः । तद्यथा समवायेन नीलत्वावच्छिन्नानुत्पादे पाताभावादीनां पीतादिरूपाणां पाणां तादृशाभावत्वादिरूपेण पीतत्वादिरूपेण वा प्रयोजकताफ्ट कखाकासपे. क्षया नालातिरिक्तरूपाभावाभावस्य नीलातिरिक्तरूपात्मकस्य तादृशाभावत्वेन नीलातिरिक्तरूपत्वेन वा एकमेव प्रयोजकत्व स्वीकतुमुचितं लाघवादिल्ये कमव कारणत्वमित्युक्तियुज्यत एव । एवमन्यत्राप्यूह्यम् । कारगातावच्छे- दकाभावादीनां तु नंदृशं प्रयोजकत्वमभ्युप्रयतेऽतरे न तत्रातिव्याप्तिरिति वदन्ति तन्मन्दं कारणता. वच्छेदकाभावादीनामपि कार्यानुत्पादप्रयोजकतायास्तान्त्रिकसिद्धत्वायुक्तिसिद्धत्वाच्च । प्रतियन्ति हि लो काः तन्तो कपालत्वाभावान्न तत्र पट इति । एवं यत्र चके वस्त्वन्तरं संयोज्य घटमुत्पादयि- तुं प्रवृत्तो न शक्नोति पश्चात्तवेत्थं मन्यते एतस्य दण्डत्वाभावानात्र महिपण्डे घटोत्पत्तिरिति किंच प्रागभावात्तप्रतियोगिता भिन्न प्रतियोगितासंबन्धेन ध्वंसत्वावच्छिन्नं प्रति तादात्म्येन मतः कार - पत्वं प्रागभाववृत्तपातयोगितासंबन्धन ध्वंसवावच्छिन्नं प्रति प्रागभावस्येति कारणताद्वयं परिकल्प्य सामान्यादी प्रतियोगितासंबन्धावच्छिन्नध्वंसत्वावच्छिन्नाभावे सद्भेदप्रागभावभेदयोः प्रयोजकता स्वा. क्रियते । तत्र भवन्मते सामान्यतः प्रतियोगितासंबन्धेन बंसत्वावच्छिन्नं प्रति सतः प्रागभावस्य च कारणताव्यवहार स्यात् । एवं गन्धवावच्छिन्नाभाव गन्धत्वव्याप्यधर्मावच्छिन्न जनकपाकावयवमुरभ्यादि. गन्धयोरभावद्वयम्यव प्रयोज कन्चामिति नीलकण्टो दर्शयिध्यति पृथिवाग्रन्थं तद्रीत्या गन्धत्वावच्छिन्नं प्रति पाकस्यावयवमुग्भ्यादश्च कारणताव्यवहारप्रसङ्गः । नच सद्भेदप्रागभावभेदयोः प्रतियोगितामामान्येन ध्वसत्वावच्छिन्नाभाव पाकावयवमुरभ्याद्यभावागन्धत्वावांच्छन्नाभाव घ प्रयोजकत्वेऽपि सत्तादात्म्य - प्रागभानतादात्म्ययोः न प्रतियोगितासामान्येन ध्वंमत्वावच्छिन्नसत्ताप्रयोजकत्वं नवा पाकावयवमुग्भ्यादि- सत्तयोः गन्धवावच्छिन्नसत्ताप्रयोजकत्वमिति वाच्यं सत्यागभावतादात्म्ययो; प्रतियोगितासामान्यन वं. सत्वावच्छिन्नमत्ताप्रयोजकता पाकावयवगन्धसत्तयो: गन्धत्वावच्छिन्नमत्ताप्रयोजकता चान्तरेण तत्तदभावानां कार्याभावप्रयोजकत्वासंभवात् । किंच गन्धत्वावच्छिन्नं प्रति पृथिवीवेन कारणत्वानजीकारे गन्धवावाच्छन्न- स्याकस्मिकत्वापत्तिरिति मुक्तावळीप्रन्थं दृषयता नीलकण्टेन गन्धत्वावच्छिन्नसत्तायां पाकावयवगन्धसत्तयोः प्रयोजकत्वमेवाविष्कृतम् । तदभावस्य तदभावद्वययोजकलं तु तात्पर्यसिद्धमित्येतच्च प्रदर्शनार्थम- स्माभियत्किचित्स्थलमदाहृतं बनि स्वविधानि स्थलान्यूह्यानि । यदि त्वभावनिष्टप्रयोजकतायां व्यास. ज्यवृत्तिधर्मानवाच्छन्नत्यनिशानायं दोषः सद्भेदमागभावभेदोभयादरुभयत्वादिनव प्रयोजकत्वादेवं स्वोत्तरक्षणोलनपदार्थातिरिक्तपदार्थाभावनिष्टकायाभावप्रयोजकत्वानधीनत्वमपि तद्विशेषणमतः कारणता- वच्छेदकाभावस्य कार्याभावप्रयोजकत्वेऽपि न क्षतिः । दण्डत्वाभावस्य घटाभावप्रयोजकत्वं हि दण्डाभावस्य घटाभावप्रयोजकत्वाधीनमतो न तत्रातिव्यातिः । अधीनत्वं च स्वरूपसंबन्धविशेषः दण्डाभावनिष्टघटामा- यप्रयोजकतायाः चकभ्रमणाभाव नष्टघटाभावप्रयोजकत्वाधीनत्वात् दण्डादावव्याप्तिवारणाय किञ्चिदभावनिन- त्यनुक्त्वा स्वोत्तरक्षणोत्पन्नपदातिरिक्तपदाथीभावनिष्टेन्युक्तम् । स्वोत्तरत्वं च स्वसंबन्धाधिकरणक्षणध्वंसाधि. करणत्वमत आत्मादेरपि स्वोत्तरत्व निर्वाहः । एवंच स्वोत्तरक्षणात्पन्नपदार्थांतिरिक्तपदार्थाभावनिष्टकार्याभा- बप्रयोजकत्वानीनं व्यासज्यत्तिधर्मानवच्छिन्नं यत्कार्याभावप्रयोजकत्वं तदाश्रयीभूताभवप्रतियोगित्वामात | पर्यवसन्नम् अन्वयदलं तु नात्र निवेशनायं प्रयोजनाभावादित्यादिकुसृष्टिरविष्यते तदाऽस्तु तदेव कारणत्वम् वयंहि अतिरिक्तामेव कारणतामाचक्ष्महे यूयं त्वतिरिक्तप्रयोजकताघटितामित्येतावानेव विशेषः नियत्त- पूर्ववृत्तिन्वं न कारणस्वमित्यत्रै वास्माकमभिनिवेशः परन्तु नियतपूर्ववृत्तित्व विशेषितं उक्त कारणत्वं फ- लोपधायकत्वमिति शब्द्यते । तस्मादतिरिक्ताया अतिरिक्तप्रयोजकताघटिताया बा कारणतायाः परिचया- यैव मूलेऽन्यथासिद्धिशून्यस्येत्यायुक्तिप्रपञ्च इत्यलं पल्लवकल्पानल्प जल्पनेन ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥