पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्कावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता ! २३५ वृत्तेः ॥ इदानीं द्रव्यस्यैवं विशिष्य साधयं वक्तुमारभते ॥ क्षित्यादीनामिति ।। स्पष्टम् ॥ २४ ॥ क्षितिजलं तथा तेजः पवनो मन एव च । परापरत्वमूर्तत्वक्रियावेगाश्रया अमी ॥ २५ ॥ क्षितिरिति ॥ प्रथिव्यप्तेजोवायुमनसां परत्वापरत्ववत्त्वं मूर्तत्वं वेगवत्त्वं क- प्रभा. २३ २४ तित्व एतदन्यतरयत्त्वरूपं । समवायस्यापि समवायात्मकस्वरूपसंबन्धेनैव वर्तमानतया न तत्राव्याप्तिः । केचित्तु सर्वाधारताप्रयोजकसंबन्धभिन्न संबन्धेन वर्तमानस्वरूपाश्रितत्वमेव लक्षणं कालिकसंबन्धभिन्न- संबन्धेन वृत्तित्वस्य लक्षणत्वे नित्यानामपि दिग्विशेषणतया महादिशि वर्तमानतयाऽतिव्याप्त्यापत्तेः । अतः दिग्विशेषण ताकालिकाविशेषणतयोः सर्वाधारताप्रयोजकसंबन्धत्वेनानुगम इत्याहुः तदसत् संव- न्धद्वयसाधारणताप्रयोजकसंबन्धत्वस्य दुर्लभत्वात् सौलमये वा संयोगादीनां संयोगत्वादिनैव संसर्ग- स्वस्य प्रामाणिकतया सर्वाधारताप्रयोजकसंबन्धभिन्न संवन्धत्वेन संसर्गतायां प्रमाणाभावेन तत्संबन्धावच्छिन्न- वृत्तित्वरूपाश्रितत्वस्य सुतरां अप्रसिद्धत्वात् । अत्र सर्वाधारताप्रयोजकेत्यादिकथनं द्वयोः परिचयाय नतु तेन रूपेणापि भेदनिवेशः उक्तदोषापत्तेः किन्तु कालिकाविशेषणतासंबन्धावच्छिन्नत्वाभावदिग्विशेषण- तासंबन्धावच्छिन्नत्वाभाव एतदुभयविशिष्टयत्तित्वं कालिकविशेषणतासंवन्धावच्छिन्नत्वदिग्विशेषणतासंबन्धा- पच्छिन्नत्व-एतदन्यतरत्वावच्छिन्न प्रतियोगिताकाभावविशिष्टवृत्तित्वं वा सर्वांधारताप्रयोजकसंबन्धभिन्नसंबन्धेन वृत्तित्वभित्यस्य फलितार्थ इत्यस्मद्गुरुचरणाः । क्षिखादीनां नवानां स्विति मूलस्थावधारणार्थकतुशब्दे- नोपस्थितार्थ प्रकाशचति ॥ द्रव्यस्वैवेति ॥ प्रथमतः द्रव्यसामान्यलक्षणस्यैवाभ्यहिततया विशि-- ध्य साधम्र्थ माहेत्यनुक्त्वा वक्तमुपकमत इत्युक्तमिति ध्येयम् ॥ २४ ॥ मञ्जूषा वारणाय समवायनिवेशस्यावश्यकतया तेनैव व्यगुणान्यतरत्वादिवारणात् किन्तु समवायनिवेशलाभाय जातिपदमुकम् ॥ दिनकरीयम् अत्र निलद्रव्यातिरिकार लक्ष्यतावच्छेदकम् । न च संयोन परमाणोरपि वृत्तेः परमाणावति- व्याप्तिः तत्तयोगस्य वृत्त्यनियामकत्वादिति । क्षिसादीनां नवानां विति मूलस्थतुशब्देन सूचित- मर्थ प्रकटयति ॥ इदानीमिति ॥ २४ ॥ रामरुद्रीयम्- श्रितत्वमिहोच्यत इत्यत्र इहेत्यस्य पूर्वपरामृष्टद्रव्यार्थकत्वे नित्यद्रव्यव्यतिरिक्तद्रव्यत्वं लक्ष्यतावच्छेदक- मिति लभ्यते तथा च गुणादावप्याश्रितत्व सत्त्वात् भवत्यतिव्याप्तिरित्याशङ्का निराकुरुते ॥ अति ॥ तथा च इत्यस्य न्यायसिद्धान्त इसेवार्थः । वेदान्तिनां मते तु नित्यज्ञानस्याप्यनाश्रितत्वाशी कारा- तत्रातिव्याप्तिशङ्कानिरासाय तदुपात्तमिति ध्येयम् ॥ परमाणोरपीति ॥ पतनप्रतिबन्धकसंयोगस्यैव वृत्तिनियामकत्वेन गगनादौ गुरुत्वाभावेनैव पतनानुपपत्त्या तत्संयोगस्य पतनप्रतिबन्धकत्वाकल्पने- ऽपि पार्थिवजलपरमाण्वोर्गुरुत्ववत्तया तस्य भूतलादिदेशसंयोगे पतनप्रतिबन्धकत्वमावश्यकमिति क्षि- त्यादिपरमाणोरपि संयोगो वृत्तिनियामक एवेति भावः ॥ वृत्त्यनियामकत्वादितीति ॥ जन्य- गुरुत्वस्य प्रकृष्टगुरुत्वस्य वा पतनकारण तया तदभावादेव परमाणोः पतनासम्भवेन तत्संयोगस्य पतनप्रतिबन्धकत्वे मानाभावात् अन्यथा वाग्वादिप्रतिबन्धकाभावदशायां सर्वेषामेव परमाणूनामधःप- तनापत्तेरिति भावः ॥ इदानीमिलीति ॥ तथा च द्रव्यातिरिक्त साधारणसाथर्म्यप्रकरणन्यवच्छे. दसूचनाय तुशब्द इति भावः ॥ २४ ॥