पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली मञ्जूषा. रत एव परमाणुरूपस्य कारणतावच्छेदकधर्माकान्तत्वे कुतो न तत्प्रत्यक्षमिति शङ्काया अवतारेण महत्त्वल. क्षणकारणान्तरासानिधानादित्यादिप्रन्थोऽपि खरसतस्साधु सङ्गच्छते । स्वरूप योग्यत्वस्य कारणतागर्भत्वचिरहे दर्शितशङ्काया अनव तारात् कारणतान्तरेत्यन्तरपदघटितवाक्येन समाधानानुपपत्तेथ । नच संयोगादिकमा- दाय कालादातिव्याप्तिवारकतया विशेषपदमार्थवयोपपादकमहादेवग्रन्थविरोध इति वाच्यं चाक्ष- षप्रत्यक्षकारणतावच्छेदकीभूतचक्षुस्संयोगत्वालोकसं योगत्वावच्छिन्नवत्त्वस्य कालादावक्षतत्वात् । नचैवं पर्याप्तिनिवेशे प्रयोजनाभावेन तादृशकारणतावच्छेदकघटकरूपत्वादिजातिमादाय चक्षुरादावपि लक्षण- सङ्गमनात तत्राव्याप्तिशवाया असङ्गतिरिति वाच्यं एतदस्वरसेनैव लाघवारे ति दूषणान्तरप्रणयना- दिति चेन्न । वहिरिन्द्रिमजन्य लौकिक प्रत्यक्षात्मकं यद्विशिष्टय शिष्टयावगाप्रित्यक्षं तत्कारणतावदकी- भूतविशेषणतावच्छेदकप्रकारकनिर्णयत्वचान्यो विशेषगुणः तद्वत्यात्मन्यतिव्याप्तेः । कार्यतायां विषयसासंबन्धापच्छिन्नत्वनिवेशानायं दोषस्समवायस्यैव विशिष्टवैशिष्टयावाहिप्रत्यक्षनिष्टकार्यतावच्छेद. कसंबन्धत्वादिति वाच्यं उपनीतभाननिष्टज्ञानलक्षणादिजन्यतायां विषयतासंवन्धस्यावच्छेदकता - स्कारणीभूतज्ञानादिमत्यात्मन्यतिव्याप्ते?रित्वात् दहिरिन्द्रियजन्योपनीतभानस्य किश्चिदशे लौकिकत्वनि यमेन लौकिकत्वाविशेषणेन तद्वारणासंभवात् । नच लौकिकपदमलौकिकान्यपरमिति वाच्य एवम- प्ययं घट इत्यादिविशिष्टज्ञाननिष्टप्रकारतासंबन्धावच्छिन्नकार्यतानिहापितकारणतामादायातिव्याप्तितादवस्थ्या- त् । नच विषयतायाः कार्यतावच्छेदकत्वं विषय तात्वेन विवक्ष्यतामथवा कार्यतायां लौकिकविष- यतासंबन्धावच्छिन्न त्वनिवेशानोपनीतभानविशिष्टज्ञानादिजनकतामादाय दोपः एतसूचनायैव प्रत्यक्षे लोकिकत्वमुपात्तमिति वाच्यं तथा सति प्रसिद्धौरमायुपनीतभानजनकोपनायकज्ञानवत्तामादायाति- व्याप्तेवरिकतयैव लौकिकत्वनिवेशनसार्थक्यो पपादनसंभवेन ज्ञातो घट इत्याकारकज्ञानविषयकोपनीत- भानपर्यन्तानुधावनयात् तत्रापि ज्ञानविषयकोपनीतभानजनकोपनायकज्ञानवत्तामादायातिव्याप्तेस्वदु- करीया वक्तव्यतया तादृशोपनीतभानरिषयीभूनज्ञानवत्तामादायातिव्याप्तिप्रदर्शर मुक्तावळं.ग्रन्धविरोधस्य दुरित्वाच्च । नच बहिरिन्द्रियग्राह्येयस्य यधाश्रुतार्थाभिप्रायेण तथोक्तिरिति वाच्यं वहिरिन्द्रिय- प्राह्यत्वं च बहिरिन्द्रियजन्यलौकिकप्रत्यक्षस्वरूपयोग्यत्वमित्यस्यैतदव्यवहितपूर्वमेव लिखितत्वात् । कि चैवमपि द्रव्यत्वमादायातिव्याप्तिवारकसया गुणत्वनिवेश सार्थक्योपपादकमहादेव ग्रन्थविरोधः । स्वस्य बहिरिन्द्रियजन्यलौकिकप्रत्यक्षकरणत्वागावात् । नच बहिरिन्द्रिय जन्यलौकिकप्रत्यक्षे विषयवि- धया कारणतावच्छेदकीभूतं यत्तद्यक्तित्वादि तद्वत्त्वं तलाक्षतमिति वाच्य कारणतावर छेदकधर्म- स्वस्य समवायेन विवक्षयैच तद्वारणसंभवात् । अथास्तु तत्सूचनायव गुणपदं कारणतावर छेदकता. वच्छेदकसंबन्धेन वा तद्वत्वं विवक्ष्यतामिति चेदेवमपि बहिरिन्द्रिय ग्राह्य जातीयसंयोगादिमति काला- दावितिमहादेव ग्रन्थस्वरसविरोधः तेन हि प्रत्यक्षविषयत्वमेव लक्षणे निविष्टमिति प्रतीयते नतु तज्जनकत्वं निविटमिति । उच्यते । बहिरिन्द्रियजन्यप्रत्यक्षनिरूपितलौकिकविषयताश्रयावृत्तिजातिशून्यत्व- मेव तादृशप्रयक्षस्वरूपयोग्यत्वमिह महादेवाभिप्रेतं नहि परमाणुरूपादी तादृशजातिरस्ति अतस्तस्य स्वरूप योग्यत्वमक्षतं बहिरिन्द्रियग्राह्यजातीय संयोगादिमतीत्यनेन कालघटसंयोगादा वहिरिन्द्रियमाह्यावृत्ति- जातिशून्यत्वमेव प्राप्त अनः कालादावतिमाप्तिसूपपादा चक्षुरादिरूपादौ तु तादृशविषयताश्रयावृत्तेग्नु- द्भुतत्व जातेः सत्त्वात्तताव्याप्तिशङ्का सूपपादा भावनात्वजातेस्तादृशतया न भावनामा दायात्मन्यतिव्याप्तिः लौकिकपदानुपादाने ज्ञानत्व जातेः बहिरिन्द्रिय जन्योपनीतभानविषयत्तितया तदवृत्तिजातिशून्यत्वं ज्ञान- स्याक्षतमिति न मुक्तावळीग्रन्थविरोधः । नच लौकिकपदानुपादाने यहिरिन्द्रियजन्य प्रत्यक्ष विषया- वृत्तिजातिरेव न प्रसिद्धयति सर्वस्या अपि जातेबहिरिन्द्रियजन्यसामान्यलक्षणाजन्योपनीतभानादिवि- ययवृत्तित्वादिति वाच्यं लौकिकत्वानिवेशेऽसंभवापत्तिवारणाय स्वाधिकरणावृत्तिजातिमत्त्वसंबन्धेन ब-