पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरूद्रीयसमन्विता । २४७ एवं ज्ञानादीनामपि । ज्ञानादिकं हि यदात्मनि विभौ शरीरावच्छेदेनोत्पद्यते तदा घटाद्यवच्छे. देन तदभावोऽस्त्येव । एवं ज्ञानादिकमपि क्षणद्वयावस्थायि । इत्थं चाव्याप्यवृत्तिविशेषगुण- वत्त्वं क्षाणिकविशेषगुणवत्त्वं चार्थः । पृथिव्यादी रूपादिविशेषगुणोऽस्तीस्यतोऽव्याप्य- वृत्तीत्युक्तम् । पृथिव्यादावच्याप्यवृत्तिः संयोगादिरस्तीति विशेषगुणेत्युक्तम । न च रू. पादीनामपि कदाचित् तृतीयक्षणे नाशसम्भवात् क्षाणकाविशेषगुणवत्त्वं क्षिल्यादावतिव्याप्त. मिति वाच्यम् । चतुःक्षणवृत्तिजन्यावृत्तिजातिमद्विशेषगुणवत्त्वस्य तदर्थत्वात अपेक्षाबु- प्रभा. च कार्यकारणभावबाहुल्यरूपगौरवग्रस्तमित्युपेक्षितम् ॥ ज्ञानादीनामपीति ॥ आपना शब्दस्समु. चीयते । अव्याप्यवृत्तित्वं क्षणिकत्वं चास्तीति शेषः । तदुपपादयति ॥ ज्ञानादिकं होति ॥ शरिघटयोरवच्छेद्याधिक रणसंवन्धसत्त्वप्रतिपादनायात्मनि विभाचित्युक्तम् ॥ उत्पद्यत इति ॥ श- रीरस्य ज्ञानकारणत्वादिति भाव: ॥ अस्त्येवेति ॥ घटस्य ज्ञानाकारणत्वादिति भावः नन्वाव्याप्य- बृत्तिक्षणिकविशेषगुणवत्त्वलक्षणे अव्याप्य वृत्तित्वविशेषणं क्षणिकत्वविशेषणं वा व्यर्थमव्यावतंकवादित्यत आह ॥ इत्थं चेति ॥ शब्दादीनामव्याप्यत्तित्वक्षणिकरवसिद्धी चेत्यर्थः ॥ अर्थ इति ॥ तथा च तादृशवाक्यस्य लक्षणदयपरत्वस्वीकारात् नैकाविशेषणवैयमिति भावः । अवकाशात्मान्यतरच लक्ष्यतावच्छेदकं बोध्यम् ॥ अव्याप्यवृत्तीत्युक्तमिति ॥ अवाव्याप्यत्तिपदस्य दैशिकाव्याप्य- वृत्तित्वमर्थः । तेन रूपादेः कालिकाव्याप्यवृत्तित्वेऽपि नातिव्याप्तिः । ननु चित्ररूपानीकर्तनवानः नानारूपवदवयवारब्धपटस्य प्रत्यक्षानुरोधेन ततद्रूपाधिकरणतत्तत्तत्ववच्छेदेन तत्तद्रूपस्य स्वीकृतत्त्वेन रू। पस्यापि देशिकाव्याप्यवृत्ति-वं तथाच तद्वत्वमादाय नवीनमते घटादावतिव्याप्त प्राचीनमते ईश्वरस्या- पि लक्ष्यतया तदीयज्ञानादेव्याप्यत्तित्वाभावन लक्षणमव्याप्तमिात वाच्यामिति चेन्न नवीनमते व्या. प्यवृत्त्यत्तिगुणत्वन्यूनवृत्तिजातिम द्विशेषगुणवत्त्वस्यैव तदर्थत्वेन रूपत्वस्य तादृशत्वामावात् नातिव्या- प्तिः । ज्ञानत्वादे: तादृशत्वाभावेऽपि तन्मते जीवस्यैव लक्ष्यतया तादृशद्वेषत्वजातिमादाय तत्र ल. क्षणसमन्वयः प्राचीनमते अव्याप्यत्तिवृत्तिगुणत्वन्यूनवृत्तिजातिमांद्वशेषगुणवत्त्वस्य तदर्थत्वेन ज्ञान-- स्वादिरूपतादृशजातिमादाय अत्ममाने लक्षणसमन्वयः । चित्ररूपाङ्गीकर्तप्राचीनमते रूपमात्रस्य बृत्तित्वेन पटादावतिव्याप्तेरनवकाश इति ध्येयम् ॥ कदाचिदिति ॥ घटोत्पत्तितृतीयक्षणे घटनाश- मजूषा. तथापि सुयुप्तिप्राकालोत्पन्नज्ञानेच्छादिवदपेक्षावुद्धिः स्वयमेव द्वितीयक्षणविशिष्टा सती स्वात्मानं कुतो न विनाशयेत् स्वोत्पत्त्यधिकरणक्षणप्रागभाचाधिकरणक्षणप्रागभावानधिकरणस्वोत्पत्त्यधिकरणक्षणप्रागभावा- धिकरणक्षणवृत्तित्वरूपस्वाव्यवहितपूर्ववृत्तित्वनिवेशे च सुषुप्तिप्राकालोत्पन्नज्ञानेच्छादिविनाशकदुर्भिक्षापत्तेः । दिनकरीयम्. मित्यप्याहुः । शब्दस्याच्याप्यवृत्तित्वक्षणिकत्वे उपाय ज्ञानादीनामपि ते उपपादयति ॥ एवमिति ।। क्षणिकपदस्य वैयल्लिक्षणद्वयाभिप्रायेणार्थमाह ॥ इत्थं चति ॥ अव्यायवृत्तीत्युक्तमिति ॥ न च रूपादीनामपि कालिकाव्याप्यवृत्तित्वात्कथं तद्वारणमिति वाच्यं अव्याप्यत्तिवदेन दैशिकाव्याप्यवृत्तित्वस्यो. तत्वात् ॥ विशेषगुणेत्युक्तमिति ॥ विशेषगुणाश्च बुद्धयादिषटकं स्पर्शान्ताः स्नेहः सांसिद्धि- को द्रवः । अदृष्टभावनाशब्दा अमी पैशेषिका गुणा इति वक्ष्यमाणात लक्षणं तु गुणनिरूपणे वश्यते । यत्तु अव्याप्यवृत्तिविशेषगुणवत्त्वमीश्वरेऽव्याप्तं तद्गुणानां व्याप्यवृत्तित्वादिति तन्न रामरूद्रीयम्. रित्यनेन सूचितम् ॥ व्याप्यवृत्तित्वादिति ॥ ईश्वरस्य शरीरविरहेण तदवच्छिन्नत्वासम्भवादिति भावः । व्याप्य- अध्या-