पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । २४९ णत्वाच्चतुर्थक्षणे द्वित्वादीनां नाशाभ्युपगमात द्वित्वादीनामपि तथात्वात्तद्वारणाय वि. शेषेति । त्रिक्षणवृत्तित्वं वा वक्तव्यम् । इच्छात्वादिकमादायात्मनि लक्षणसम- प्रभा. स्वाभावेऽपि ज्ञानत्वसमानाधिकरणानां अनुमितित्वादीनां चाक्षुषत्वादीनां च तादृशजातिरूपत्वेन त- द्वद्विशेषगुणवत्त्वमादाय · ज वे लक्षणसमन्वयसंभवेऽनुपस्थितद्वेषत्वादिकमादाय लक्षणोपपादने वीजाभाव: तथापि तृतीयक्षणवृत्तिध्वंसप्रतियोगीनि यावन्ति रूपाणि तेषां तादात्म्य संवन्धेन तत्तव्यक्तित्वेन प्रति- योगितासंबन्धेन तमाशं प्रति हेतुत्वकल्पने गौर यापत्त्या तृतीरक्षणवृत्तिनम तियोगिषु रूपेषु याव- त्सु ताशरूपनाशसामग्रीघटकतावच्छेद कतया तादशसामग्रीघटकतया वा एकं वैजात्यं स्वीकृत्य तादृशवैजा- त्यपुरस्कारेण कारणवाडीकर्तृप्राचीनकदेशिमते तादृश जातेरपि निरुक्तरूपतया तद्वद्विशेषगुणवत्त्वमादाय घटादाचतिव्याप्तिवारणाय जातिपदस्य गुणविभाजकजातिपरत्वावश्यकतयाऽनुमितित्वादीनां अतादृशत्वेन द्वेषत्वादिकभित्युक्तम् । नील वादिना सांकर्यवारणाय सप्तवैजायस्वीकारेऽपि अनन्तकारणत्वापेक्षया स. प्तकारणत्वस्य लघुत्वानपायात् गुणविभागवाक्यादनुमितित्वादीनां अनुपस्थितत्वाद्वा द्वेषत्वादिकमित्युक्त- मिति ध्येयम् । अत्र शरीरिशब्दस्य मुहप्रार्थपरत्वे द्रव्यविभागवाक्यघटकदेहिशब्दस्यापि तुल्ययु- त्या मुख्यार्थपरत्वेन नवद्रव्यविभागानन्तर्गततया ईश्वरस्य दशमद्रव्यत्वापत्तिः लक्षणे जन्यत्वचतुर्थ- क्षणिकत्वयोः अनुपादाने योग्य विभुविशेषगुणत्वावच्छि स्य त्रिक्षणवृत्त्यत्तिजातिमत्त्वरूपक्षणिकत्वविशिष्टवि- शेषगुणात्यरूपं यल्लक्षणं तस्य ज्ञानादावव्याप्तिश्चेति अस्वरसं विचिन्त्य यदीत्युक्तमिति ध्येयम् । तादशगुणत्वादिति ॥ चतुःक्षणवृत्तिजन्यावृत्तिजातिमद्गुणत्वादित्यर्थः । परममहत्त्वत्वस्य अहं म- हानिति प्रतीतिसि द्वजातिरूपत्वादिति भावः । ननु जन्यत्वाविशेषितलक्षणपक्षे परममहत्त्वत्वस्य चतु:- क्षणवृत्पबृत्तिजातिरूपत्वाभावात् तस्य जातित्वे प्रमागाभावाच परममहत्त्वस्यातादृशत्वेन न तदादाय कालादावतिव्याप्तः अत आह ॥ चतुर्थक्षण इति ॥ नन्वाकाशात्मनोस्साधर्म्यप्रतिपादकवाक्यादेव योग्यविभुबिशेषगुणानामपि लक्षणं वोध्यमिति नियमाम.वात् आकाशात्मनोर्लक्षणवाक्यादेव लक्षणाप्रति- पादनेऽपि क्षत्यभावाल्लाघवाच त्रिक्षणवृत्ति वघटितमेव लक्षणं युक्तमित्यभिप्रायेणाह ॥ त्रिक्षणवृत्ति त्वं वेति ॥ २७ ॥ मजूधा. कि योग्यत्वस्य कारण तावच्छेदककोटिप्रवेशनेन । एतेन विशेषत्वनिवेशनमपि प्रत्याख्यातम् । यदातु दिनकरीयम्. दिकमिति ॥ आदिना शब्दवपरिग्रहः । विशेषपदस्य कृत्यमाह ॥ परममहत्त्वस्येति ॥ ताह- शगुणत्वादिति ॥ चतु:क्षणवृत्तिजन्यावृत्तिजातिमद्गुणत्वादित्यर्थः । ननु परममहत्त्वत्वं न जातिः किंत्वपकर्षानाश्रयपरिमाणत्वमित्युक्तं तथा च कधं तदादायातिप्रसङ्ग इत्यत आह ॥ चतुर्थक्षणे द्वित्वादीनामिति ॥ यद्वा ननु जन्यपदानुपादाने परममहत्त्वत्वस्य चतुरक्षणवृत्तिवृत्तित्वान्न परममह- स्वमादाय कालादावतिव्याप्तिरत आह ॥ चतुर्थक्षणेति ॥ द्वित्वादीनामिति ॥ तथात्वादिति ॥ तादृशजातिमद्गुणत्वादित्यर्थः । प्रथमोपस्थितत्वरूपलाघवमभिसन्धायाह ॥ त्रिक्षणेति ॥ २७ ॥ रामरुद्रीयम्. स्य सङ्ग्रहों न स्यादित्यनेन ज्ञानस्वमादायात्मनि लक्षणसमन्वयायैव त्रिक्षणवृत्तित्वमुपेक्षितम् । इच्छात्व- मादायैव लक्षणसमन्वयसम्भवेन विणक्षवृत्तीत्यपि शक्यते वक्तुमिति सूचितम् ॥ यथाश्रुतार्थः कत्त्वाभिमायणेति ॥ स्वावच्छिन्नज्ञानादिमत्त्वसम्बन्धेन शरीरविशिष्टार्थकत्वाभिप्रायेणेत्यर्थः ।। २७ ।। 32 .