पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । २५१ 3 मजूया. गुणनाशत्वावच्छिन्नमुम्पादयति दर्शित कारणविशेषणेषु अन्यतमं ह्यपेक्षेत तथाच घटात्मविभागरूपविशे- पकारणबलाददृष्टे प्रतियोगितासंबन्धेन गुणनाशत्वावच्छिन्नापत्तिरेवं प्रायश्चित्तरूपविशेषकारणबलात्संयो- भादौ तदापत्तिः । अथ प्रायश्चित्तस्यादृष्टनाश एव विशेषसामग्रीत्वं विभागस्य संयोगनाश एवेति चेत् को ने. स्थाह नैतावता कृतकृत्यता द्वे हि सामग्रीव्याप्ती एका सामान्य सामग्रीनिष्ठा सामान्यधर्मावच्छिन्ननिरूपिता अन्या च विशेषसामग्रीनिष्टा विशेषधर्मावच्छिन्ननिरूपिता तत्राद्यायां विशेषसामग्र्योऽन्यतमत्वेन निवेश्यन्त द्वि. तीया तु ततद्विशेषभेदाद्भिद्यते तद्यथा जन्यज्ञानत्वावच्छिन्नसामान्यसामग्री आत्ममनस्संयोगादिः विशेषसामग्री चक्षुस्संयोगादिः व्याप्तिज्ञानादिश्च । तत्र चक्षुस्संयोगालोकसंयोगोद्भूतरूपादिघटिता एका विशेषसामग्री त्व- क्सन्निकर्षो वृत्तस्पादिघटिता चैका एवमन्या अपि वाच्याः । एवञ्च तावत्सामग्र्यन्यतमाविाशेष्टात्ममनस्संयो- गादिः यतात्मनि तनावश्यं जन्यज्ञानत्वावच्छिन्नमिति सामान्य सामग्रीव्याप्तिः आत्ममनस्संयोगविशिष्टच. भुस्सन्निकर्पोद्धृतरूपादिघटितसामग्रः यत्र तत्र चाक्षुपं आत्ममनस्संयोगविशिष्टत्यक्सन्निकर्पोद्भूतस्पर्शादिघ- टितसामग्री यत्र तत्र स्पार्शनमिति विशेषसामग्रोव्याप्तिः प्रकृते च गुणजन्यतावच्छेदकं यदि गुणनाशत्वं तदा गुणत्य सामान्य सामग्रीत्वं प्राप्त प्रतियोगितया योग्यविभुविशेषगुणनाशं प्रति तादात्म्येन योग्यवि. मुविशेषगुणतया पापनाशं प्रति स्वान यावच्छेयतासंबन्धेन गङ्गास्नानमिलेवं विशेपसामग्री तेनेत्थं व्याप्तिः योग्यविभुविशेषगुणगङ्गास्नानाद्यन्यतमविशिष्टो गुणः स्वाव्यवहितपूर्वक्षणयुत्तित्वसंवन्धेन यत्र तत्र प्रतियोगि- तया गुणनाश इति सामान्य सामग्र्या स्वाव्यवहितपूर्वक्षणवृत्ति वसंवन्धेन गुणसत्तापिशिष्टयोग्य विभुविशेषगु. णो यत्र तत्र तादात्म्येन तन प्रतियोगितया योग्यविभुविशेषगुणनाशः यत्र तु तत्रात्ताविशिष्टं गङ्गास्नानं तत्र पापविशेषनाशो विशेषणतयेति रीत्या विशेषसामग्रीणां तत्रच गङ्गास्नानदशायां सामान्य सामग्र वला- प्रतियोगितया गुणनाश: यथा पालविशेष जन्यते तथा तद्वृत्तिसंयोगेऽपि कुतो न जन्यते अतः प्रतियोगि- तया पापविशेपनाशं प्रति तादात्म्येन पापविशेषस्यापि कारणतान्तरं स्वीकृत्य प्रायश्चित्तविशिष्टपापविशे- वस्येव विशेष सामग्रीत्वं वाच्यमेवं संयोगादिस्यलेऽपि । एवञ्च ध्वंसप्रतियोगिनो बहवो मध्यविधाः कार्य- कारणभावाः कल्पनीया इति गौरवम् । अथ तत्तद्वंसव्यक्फि प्रति तत्तत्पापविशेषव्यक्तानां तत्तव्यक्तित्वेन कारणतायास्तवाप्यावश्यकतथा गङ्गास्नानविशिष्टं तावत्पापविशेषान्यतमत्वावच्छिन्नं तादात्म्येनैका विशेष- सामग्री एवं विभागविशिष्टं तावत्संयोगव्यक्यन्यतमत्वावच्छिन्नं तादात्म्येनका विशेष सामग्रीति न गङ्गास्ना- नदशायां सामान्यसामग्रं बला-संयोगादी गुणनाशवावच्छिन्नापत्तिरिति चेत्संभवत्येवं किन्तु पापविशेष रूप. संयोगादिनाशे गुणस्य दर्शितसंवन्धेन सामान्यसामग्रीत्यं न संभवति गङ्गास्नानपाकादिघठितसामग्रीनिष्टासु पापविशेपध्वंसत्वरूपध्वंसवाद्यन्नच्छिन्ननिरूपितव्याप्तिषु स्वाव्यवहितपूर्वत्वसंबन्धन गुणस्य प्रयोजनाभावेना- बच्छेदककोटौ अनिवेशनीयवादतस्तयावृत्तमेव कार्यतावच्छेदकमभ्युपेतव्यमुत्पन्नानां च येषां विनाश: स्वा- व्यवहितपूर्वक्षणवृत्तित्व संबन्धेन गुणादतिरिक्तं कारणं नापेक्षत ताबविनाशसाधारणं च तद्वाच्य तंच परिशेषाद्योग्यविभुविशेषगुणनाशत्वमेव यदि चैवमपेक्षाबुद्धेः तृतीयक्षणे नाशापत्तिरुक्तकारणबलात् । नचापेक्षाबुद्धिनाशे द्वित्व प्रत्यक्षस्य विशेषसामग्रीत्वान्न दोष इति वाच्यं द्वित्वप्रत्यक्षं विनापि ज्ञाना- न्तरे गुणरूपसामान्यसामग्रीबलेन फलोत्पादेन तस्य विशेषराामग्रीत्वासंभवादिति विभाव्यते तदास्त्व. पेक्षाबुद्ध यतिरिक्तयोग्यविभुनिशपगुणनाशत्वमेव गुणकार्यतावच्छेदकमपेक्षाबुद्धिनाशत्वं च द्वित्वप्रत्यक्षस्य । न चैवं गुणरूपकारणवलादपेक्षावुद्धी तृतीयक्षणेऽपेक्षाबुद्धधन्ययोग्यविभुविशेषगुणत्वावच्छिन्नापतिरिति वाच्यम् प्रतियोगितासंबन्धेनापेक्षावुद्धधन्ययोग्यविमुविश पगुगनाशतावच्छिन्नं प्रति तादात्म्य संबन्धनापेक्षावुद्धयन्य- योग्यविभुविशेषगुणत्वेन कारणतान्तरं स्वीकृत्य स्वाव्यवहितपूर्वक्षणवृत्तित्वसंवन्धेन गुणस्य तादात्म्परांबन्धे- नापेक्षाबुद्धयन्ययोग्यविभुविशेषगुणस्य च परस्परसहकारित्वस्वीकारात् गुणरूपसामान्यसामग्या फले जननी- ये अपेक्षावुद्धयन्ययोग्याविभुविशेषगुणनाशत्वव्याप्यतत्तद्धंसव्यक्तित्वावच्छिन्नं प्रति तत्तद्याक्तित्वेन कारणीभू-