पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० कारिकावली प्रभा. तथाच गन्धसमानाधिकरणजलावृत्तिजातिमत्त्वमित्यर्थः । तेन सुरभ्यसुरम्यवयवारब्धावयविसमवेतघटादौ नाव्याप्तिः । यद्यपि सुरभ्यसुरभ्यवयवारब्धावयविन्यव्याप्तिस्संभवति तथापि सयवायसंबन्धेन गन्धसंबन्धि. मञ्जूषा. नकधर्मो विवक्षितः एतच्च पृथिव्यादिकमित्यस्य विशेषणं युज्यते चैतत् युगपदुभयादीनां निरूपणे हि पृथिवीविषयकनिरूपणे जलस्यापि विषयत्वात् पृधिवीत्वं तादृशद्रव्यनिष्ठभेदप्रतियोगितावच्छेदकमेव स्यादेवं जलस्वामिति । अथवा प्रत्येकामिति निरूपणक्रियाविशेषणं निरूपणे प्रत्येकत्वं च स्वविषय- द्रव्यनिष्ठभेदप्रतियोगितानवच्छेदकद्रव्यविभाजकधर्मावच्छिन्नविषयकत्वं यद्वा प्रत्ये कमित्यव्ययतया लुप्त- तृतीयाकं प्रत्येक रूपेणेत्यर्थः ॥ गन्धसमचायिकारणमित्यर्थ इति ॥ अलापाततो बहवो विरोधा प्रस्फुर्रान्त तथाहि गन्धहेतुरित्यस्य गन्धसमवायिकारणमित्यर्थमुक्त्वा यद्यपि गन्धवत्वमानं लक्षणमुचितं तथापि पृथिवीत्वजाती प्रमाणोपन्यासाय हेतुत्यमुपन्यस्तमित्यभिधाय तथाहीस्खादिना पृथिवीत्वं प्रसाध्य पश्चान चेत्यादिना गन्धवत्वस्य पाषाणे अव्याप्तिमाशय तत्रापि गन्धसत्त्वादिति परिहृतं । अनेन हि अन्यसन्दर्भणेवं प्रतीयते पृथिव्यां गन्धसमवायि कारणत्योक्त्या तत्र समवायेन गन्धवस्वमप्य. थतो लभ्यते तत्र शाब्दोऽर्थः पृथिवीत्वजातिपिद्धयर्थः आर्थिकोऽर्थस्तु लक्षणमिति । नचैतत्संभवति ग- न्धयत्त्वरूपलक्षणस्य गन्धस्तु द्विविधो मत इत्युत्तरत्र मूले शब्दत एव लाभादत्रार्थतस्तल्लाभस्या- किंचित्करत्वात् वक्ष्यति हि तन्मूलव्याख्यानावसरे विश्वनाथः द्विविध इति वस्तुस्थितिमात्रम् । नतु द्विविधगन्धवत्त्वं लक्षणं लक्षणे द्वैविध्यस्य व्यर्थत्वादिति अनेन हि सन्दर्भेण तन्मूलाचगतस्य ग- न्धवत्त्वांशस्य लक्षणत्वं स्वरसतः प्रतीयत इति सोऽयमेको दोषः । पाषाणे गन्धवत्त्वस्याध्याप्ति- माशय तनापीत्यादि न गन्धवत्त्वसाधनप्रयासोऽप्यकिंचित्करः पाषाणे गन्धवत्त्वसाधनेऽपि सु. रभ्य सुरभ्यवयवारब्धघटादाचव्याप्तिवारणाय जातिघटनाया लक्षणे आवश्यकतया तेनैव पाषाणेऽप्यव्याप्ति- बारणसंभवेन तत्र गन्धवत्त्व साधनस्यानावश्यकत्वादिति सोऽयं द्वितीयो दोषः तातो दोषों नीलकण्ठेन न निवारितौ प्रत्युत दृढीकृतौ स हि गन्धवत्वमात्रं लक्षणमुचितमित्यत्रैव गन्धवद्वृत्तिदव्यत्वव्याप्यजातिम- स्वमर्थः तेन सुरभ्य सुरभिकपालारब्धनिर्गन्धघटे नाध्याप्तिरित्युक्तवान् तेन हि गन्धसमवायिकारणत्वपर्यवस नार्थस्यैव लक्षणत्वं प्रतीयतेऽन्यथा गन्धस्तु द्विविधो मत इत्यत्रैवैमा विवक्षामाद्रीयेत पश्चाच्च न च पाषाणे गन्धाभावादित्यस्य ननु गन्धवत्त्वस्य पृथिवीलक्षणत्वे पाषाणादी गन्धशुन्येऽव्याप्तिरित्याशझा निराकुरुत इ. त्यवतरणिका दत्ता तेन पूर्वोक्तरीत्या पाषाणे गन्धवत्त्वसाधनप्रयासवैफल्यं न परिहतं प्रत्युत प्रागेव गन्धव- स्वमित्यस्य गन्धवद्वृत्तिद्रव्यस्वब्याप्यजातिमत्त्वमर्थ इति स्वयमुक्तवा पश्चादिमामाशंकामुद्भावयितुं कुतो न ल. जितं नीलकण्टेनेति न प्रतीमः । एवं तत्रापि गन्धसत्त्वादित्युत्तरेण कथमन्यथा तद्भस्मनि गन्ध उपलभ्यत इत्यादिमुकावटीग्रन्थसन्दर्भण पापाणे गन्धाभावे तत्परमाणोरपि निर्गन्धत्वात्तदारब्धपाषाणभस्मनोऽपि निर्गन्धत्वापत्तिरिति स्वरसतोऽर्थः प्रतीयते सच न संभवति पाषाण व तद्भस्मन्यप्यनुद्भूतगन्धापत्तिवार- णाय पाषाणावयवेषु पाकाझीकारस्यावश्यकतया पूर्व निर्गन्धेरेव परमाणुभिः पाषाणारम्भः पाकोत्पादितग- ग्धवद्भिश्च तभस्मारम्भ इति स्वीकारें बाधकाभावात् इत्येको विरोधः प्रतीयते सच नीलकण्टेन कयापि प्रणा- ब्या परिहृतः तद्यथा तत्रापि गन्धसत्त्वादित्यत्र पृथिवीत्वेनेति शेषपूरणं कृत्वा गन्धसत्त्वादि. स्यस्य गन्धानुमानादित्यर्थः उक्तः पश्चाच ननु पाषाणस्य पृथिवीत्व एव मानाभावे नितर्ग तदधी. नगन्यवत्व इत्यतस्तत्र पृथिवीत्वसाधाय भूमिकामारचयति ॥ कथमन्यषेत्यादिना ॥ अन्यथा पा. षाणादी पृथिवीत्वानीकारे । तस्मनि पाषाणभस्मनि । यद्यपि पाषाणे पृथिवीत्वाभावे अल. क्ष्यत्वादेव तत्र गन्धवत्वलक्षणं नाव्याप्तमिति व्यर्थः तत्र गन्धसाधनाय परिश्रमः तथापि वस्तुस्थितिम. सुरुध्य तोक्तामिति बोध्यम् पाषाणभस्मनि गन्ध, प्रत्यक्षसिद्धः तेन तन पृथिवीत्वमनीकरणीयं