पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामहद्रीयसमन्विता । २६१ गन्धसत्त्वा- अत- प्रमा. स्व-स्वसामानाधिकरण्यखाश्रयवृत्तिद्रव्यत्ववत्त्वोभयसंबन्धेन गन्धसंबन्धित्वान्यतरवत्वस्य तदर्थत्वस्वीकारेऽपि तलाव्याप्तिवारणसंभवात् जातिघटितलक्षणपरिष्कारस्यानावश्यकत्वापत्तेः एतादृशस्थलानुसरणमिति ध्येयम् । मञ्जूषा. ततश्च भस्भारम्भकावयवेष्वपि पृथिवीत्वमजीकार्यम् । भस्मारम्भकावयवपाषाणावयवयोरैक्यात् पाषाणस्या- पि पृथिवीत्वसिद्धिरित्यभिप्राय इति उक्तं । ततश्च कथमन्यथेत्यादिग्रन्थो न पाषाणे गन्धवत्त्वसाधना प्रवृत्तः किन्तु गन्धवत्त्वसाधकपृथिवीत्वरूपहेतुसाधनायात एवेत्थञ्च पाषाणपरमाण्वोः पृथिवीत्वात्तजन्य- पाषाणस्यापि पृथिवीत्वम् तथाच तस्यापि गन्धवत्त्वे बाधकाभाव इति उपसंहारे पृथिवीत्व- सिद्धिनिष्पत्त्यधीनैव गन्धसिद्धिदर्शितेति नीलकण्ठाभिप्रायः । अत्र पृथिवीत्वेन गन्धानुमानमयुक्तं सु. रभ्यसुराभिकपालारब्धनिर्गन्धघटे व्यभिचारात् नच नानाजातीयगन्धवदवयवानारब्धत्वे सति पृथि- वीत्वं हेतुरिति वाच्यं नानाजातीयगन्धवदवयवारब्धाभ्यामवयवाभ्यामारब्धेऽवयविनि व्यभिचारात् । नच साक्षात्परम्परया वा नानाजातीयगन्धवदवयवारब्धत्वमेव विशेषणमिति वाच्यम् । पाषाणारम्भक परमाणुषु नानाजातीयगन्धविरहस्य निर्णेतुमशक्यत्वेन हेतोस्सन्दिग्धत्वात् । नहि पाषाणारम्भ कपरमा- गुषु सुराभिरसुरभिकजातीय एव गन्ध इति निर्णाययितुं किञ्चित्प्रमाणमस्ति सोऽयमेको नीलकण्ठव्याख्यायां दोषः । नच पाषाण इत्यादिना पाषाणे गन्धाभावप्रयुक्तामव्याप्तिमाशङ्कय तत्रापि गन्धसत्त्वाइित्यभिधा- य तदुपरि कथमन्यथेति प्रतिपादितेनान्यधाशब्देन गन्धानङ्गीकार इलेवार्थः प्रतीयते तु पृथिवीत्वानङ्गीकार इति तस्य विश्वनाथप्रन्थसन्दर्भेऽनुपस्थितत्वात् । नहि विश्वनाथो योगी प- रमेश्वरो वा येन कालान्तरे नीलकण्ठो नाम कश्चिदुत्पद्य मदुक्तिं व्याख्यास्यति सच दिति मदुक्तेर्गन्धानुमानादित्यर्थं वक्ष्यति तत्र चानुमाने पृथिवीत्वं हेतुतया दर्शविष्यति तद्भावमहमिदानी परामशेयमिति प्रतिसन्धायान्यथाशब्दं प्रयुज्यात् सोऽयं द्वितीयो दोपः । ग- न्धवत्वरूपपृथिवीलक्षणाव्याप्तिशङ्काप्रस्तावे पाषाणे पृथिवीत्वं नास्तीति शव नोत्तिष्ठते सन्दर्भविरोधात सोऽयं तृतीयो दोषः कित्वयमक्षिणी निमील्य नीलकण्ठेन स्वीकृतप्रायः । निर्गन्धैः परमाणुभिः पाषा- भारम्भः तैरेव पाकोत्पादितगन्धवद्भिर्भस्मारम्भ इति निर्गन्ध एव पाषाण इत्यस्य परिहाराभावश्चतुर्थः अयं च दोषः परिहत इति नीलकण्ठो बनाम । नहि मूलस्यान्यथाव्याख्यानमात्रेण दोषः परिहृतो भवति किन्तु युक्तिकथनेन इयानेव तु नीलकण्ठस्यान्यथाव्याख्यानती लाभः यदयं दोषोऽर्थान्तरपरिभावना. प्रमृष्टवासनतया न शिष्यस्य झटिति बुद्धिमारोहेत् न च युक्तिरपि । तथा सत्यप्युक्तप्रणाल्या पाषाणे पृथिवीत्व- सिद्धशा तेन गन्धानुमानसंभवादित्यनेन ग्रन्थेन दर्शितैव नीलकण्ठेनेति वाच्यं तस्य युक्त्याभास- खात् । नहि पृथिवीत्वं गन्धसाधकं भवितुमर्हत्युक्तव्यभिचारात् । ननु पार्थिवपरमाणुषु कथं कदाचित निर्गन्धत्वामिति चेन्न गन्धोत्पादकविजातीयाग्निसंयोगविलम्बन तत्सम्भवात् नन्वचेतनाः परमाणवः कथं निर्गन्धवावस्थापना एव मिलिताः पाषाणमारमन्त इति नियम इति चेन्न तवानुभूतगन्धवत्त्वावस्था- यामेव तदारम्भ इति नियमवत् किश्चित्प्रतिबन्धकवशेन ममाप्युपपत्तेः । अथैवं घ्राणेन्द्रिये पृथिवी- स्वेन रसानुमानं पूर्वोक्त न स्यात्तत्रापि नानाजातीय रसववयवारब्धेऽवयविनि व्यभिचारेण पृथिवीत्व- स्य रससाधकत्वासम्भवात् इति चेदस्तु तत्राप्ययमाक्षेपः । न तावता त्वदिष्टसिद्धिरिति । अन्न वदन्ति यद्यपि गन्धवत्वमात्र लक्षणमुचितमिति धन्यस्य गन्धसमवायिकारणवस्य गुरुतया न लक्षणत्वमुचित- म् किन्तु गन्धवत्वस्य लक्षणत्वलाभायैव तदुक्तमित्यङ्गीकार्यम् । तच्च गन्धस्तु द्विविधो मत इत्यने. जैव लभ्यत इति गन्धहेतुत्वोक्तियंथेत्याशयः न वयं गन्धवत्त्वस्य लक्षणत्वपर्यवसानाय गन्धहेतुत्वो- किरिति त्रूमः येन वैययं स्यात् किन्तु लक्ष्यतावच्छेदकाभूतपृथिवत्विादिजातिप्रमाणसूचनाय तदुक्तिरि- स्याशयेन तथापि पृथिवीत्वजातावित्यादिग्रन्थः तत्रच मूलेने वक्ष्यमाणस्यापि गन्धवत्त्वलक्षण-