पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ कारिकावली गन्ध- प्रभा. तेजस्वादिजातिवारणाय गन्धसमानाधिकरणेति । सत्तादिवारणाय जलावृत्तीति । सामानाधि. करण्यघटकवृत्तिताद्वयं अत्तित्व प्रतियोगिवृत्तित्वं जातिमत्त्वं च समवायेन बोध्यम् । तेन न कालि. मञ्जूषा. स्येह मुकावळ्यां प्रस्तुतत्त्वात्तदिहैव विवक्षितं गन्धवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वमिति नीलकण्ठेन प्र. सक्तत्वादेवं च गन्धवत्त्वलक्षणस्य पाषाणादावव्याप्तिर्विश्वनाथेन नचेत्यादिना शंकिता । साच यथाश्रुत एव ननु स्वो कविवक्षायामिति सूचायतुमेव नीलकण्टेन ननु गन्धवत्वस्य पृथिवीलक्षणत्वे पाषाणादौ गन्धशून्येऽव्याप्तिरिति शङ्कान्निर कुरुत इत्यवतरणिका दत्ता । तत्तश्च नानाजातीयगन्धवदवयवारब्धावयविन्य व्याप्तिवारणायावश्यक जातिघटनथैव तत्राव्याप्तिवारणसंभवेऽपि वस्तुस्थितिमनुरुध्य पाषाणे गन्यवत्वं साध. यितुं यथाश्रुतस्वोक्तलक्षणे तलाव्यासिरा मुखेन प्रसक्तिस्संपादिता विश्वनाथेनेति नीलकण्ठाभिनायः । पृथिवीत्वेन गन्धानुमानं च न साक्षात् किंतु पृथिवीत्वेन हेतुना पाषाणत्वजात्यवच्छेदेन वदत्त जातिशून्यत्वं साक्ष्यते पाषाणत्वावच्छेदन गन्धवदवृत्तिजातिशून्यत्वं च यत्र कचन पापाणजा- तीये गन्धस्वीकारमन्तरा नोपपद्यते तत्रच विनिगमनाविरहात् सर्वास्वपि पाषाणव्यक्ति गन्धस्सि- ध्यति । एवं नागेन्द्रिये पृधिविन प्राग्रतसाधनमप्यनयैव रीत्या बोध्य नच तथापि वाय्वानी- तपार्थिवभागे पृथिवीवेन रसानुमानं प्रागुक्तं विरुध्यत इति वाच्यम् । उद्धृतगन्धवत्स्वनुद्भूतरूपा- दिमत्सु च पार्थिवभागवेक नानाविध वा वैजायमस्तीत्यभिप्रायेण तथोकत्वात् कथमन्यवेत्यादि. प्रन्यश्च गन्धयत्त्वलक्षणस्य पाषाणादावव्याप्तेः तत्र पृथिवीत्वानजीकारेणैव वारयितुं शक्यतया किं तत्र गन्धानुमानप्रयासेनेति तटस्थशङ्कयावतरणीयः । नीलकण्ठोऽपि वस्तुस्थितिमनुरुध्य तथोक्तमि- ति वदन् तटस्थ शङ्कयैच कथमन्यथेत्यादिग्रन्थस्यावतरणीयतां जनयति । एवं चान्यथेत्यादिग्रन्थस्य पृथिवीत्वानजीकार इत्यर्थयोधकतायाः क्लिष्टत्वेऽप्यगत्या स्वीकार इति बोध्यम् । एवंचोक्तप्रणाळ्या पाषाणे पृथिवीत्वसिद्ध्या तेन गन्धानुमानसम्भवान्न चतुर्थदोषप्रसक्तिः पृथिवीत्वस्य पाषाणे परम्परया गन्धसाधकत्वेन व्यभिचाराप्रसक्तेः । अपयोजकत्वं तु नेदानी शनीयं तदभिप्रायेणैव दीधि- तिद्भिरतुद्रूतगन्धादिप्रत्याख्यानात् तदिदं नीलकण्ठोत्यनुरोधेन मुक्तावळीप्रन्धसङ्गमनं अन्यथापि तद्न्यः सामयितुं शक्यते । तद्यथा नानाजातीयगन्धवदयवारब्धेऽत्रयविन्यव्याप्तिवारणाय गन्धवदवृत्तिजाति- शून्यमूर्तत्वमेव विवक्ष्यते नतु मन्धवद्वतिद्रव्यत्वव्याप्यजातिमत्त्वं द्रव्यत्वव्याप्यत्वनिवेशे गौरवादि- खभिप्रेयिवान्विश्वनाथः पापाणेऽव्याप्तिमाशङ्कय परिहरति अत: पाषाणे गन्धवत्त्वसाधन प्रयासो में विफलः शेषं पूर्ववत् । अथवा नानाजातीयगन्धवदवयवारब्धस्यावयविनो निर्गन्धत्वमिति पक्षे विश्वनाथस्य न निर्मरः तद्वाजस्याने प्रकटयिष्यमाणत्वात् किंत्वव्याप्यवृत्तिनानागन्धोत्पत्तिरेव तत्रा- भ्युपेयते नचैवं नानाजातीयरूपवदवयवारब्धेऽवयविनि चित्ररूपस्वीकारो नियुक्तिकः तत्राप्यव्याप्यव- त्तिनानारूपस्वीकारसंभवादिति वाच्यं इष्टापत्तेः अव्याप्यवृत्तिनानारूपस्वीकार एव अन्धकृतो निर्मरा. त् । अत एव गुणमुक्तावळ्या चित्ररूपप्रकरणे बहुयु पुस्तकेषु नव्यास्त्वित्यादिना अव्याप्यत्तित्वपक्ष ए. व स्थिरीकृतो दृश्यते एवंचात्र गन्धवत्त्वलक्षणे जातिघटनाया अनावश्यकत्वाभिप्रायेणैव पाषाणेऽव्या- प्तिशङ्का युज्यते । एवं तत्रापीत्यादिना पापाणे पृथिवीत्वेन गन्धसाधनमपि न विरुध्यते उक्तरी- त्या व्यभिचाराप्रसक्तेः एवंच घ्राणेन्द्रिये वाय्वानीतपार्थिवभागे च पृथिवीत्वेन रससाधनमपि प्रा. कनं यथाश्रुतमेव साधु सङ्गच्छते नानाजातीयरसवदवयवारब्धेऽयवयविन्यव्याप्यवृत्तिनानारसस्वीकारे- ण पृथिवीत्वस्य तक्ष व्यभिचाराप्रसक्तेः कथमन्यथेत्यादिप्रन्थावतरणादिकं तु पूर्ववदेव । वस्तुतस्तु मच पाषाणे गन्धाभावादित्युत्तरं गन्धवत्त्वमव्याप्तमिति पाठो न वास्तविकः किंतु प्रामादिकः । कथं तत्र पृथिवीत्वमिति पाठस्तु प्रामाणिकः तत्पाटे उक्तदोषाभावात् यथाच दोषाभावस्तभाने व्या.