पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्र -प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. तिसाधनमाहुः तदसत् तेजस्संयोगस्य न तेजस्संयोगत्वेन हेतुत्वं किञ्चित्कालमग्नौ निक्षिप्य पुनर्मू- होते घटे पूर्वरूप नाशादर्शनात् वह्नयवयवक्रियया घटस्य सर्वावयवावच्छेदेन जायमाना यावन्तो व- ह्रयवयवसंयोगा: रूपनाशकाः तेषु नाशकतावच्छेदकतया वैजायं स्वीकृत्य ताहरावैजात्यपुरस्कारेण ते. जस्संयोगस्य हेतुत्वं वाच्यं तथाच तादृशतेजस्संयोगस्य वह्निक्रियाजन्यत्वेन वहिप्रतियोगिकत्वाचा दाभावः सर्वत्रैक एवेति क लाघनमिति वाच्यम् । अभावस्यैकत्वेऽपि तत्तदधिकरणनिष्ठानामभावसंबर न्धानां भिन्नभिन्नत्वात् तत्तदधिकरणेषु कार्योत्पादाभावसंबन्धस्यैव च प्रयोजकसापेक्षत्वात् नानाजाय. गन्धवदवयवारब्धे तादृशावयवारब्धे चावयविनि गन्धोत्पादोऽस्तीत्यत्रैव प्रन्थकृतो निर्भरस्य वक्ष्य- माणतयोकशङ्काया एवानवताराच्च । किंच विजातीयतेजःसंयोगरूपस्य पाकस्य समवायसंबन्धेन घट. इव तेजस्यपि सत्त्वात् तत्र गन्धत्वावच्छिन्नोत्पत्तिवारणं पृथिवीकारणतयव निर्वाह्यम् । नच सम- वायेन विजातीयसंयोगस्य विजातीयसंयोगसंबन्धेन तेजसो वा कारणस्वमित्यत्र विनिगमनाविरहात विजातीयसंयोगसंबन्धेन तेजसोऽपि कारणत्वं सिद्धम् । तथाच न तेजसि गन्धापत्तिः स्वस्थ संया. गसंबन्धेन स्वस्मिन्ननङ्गीकारात्तेजोवृत्तितेजोऽन्तरसंयोगस्य च विजातीयत्वाभावादिति वाच्यम् । तत्प्रति योगिकसंयोगस्यैव तत्संवन्धतया घटक्रियाजन्यघटप्रतियोगिकतेजोऽनुयोगिकसंयोगात् गन्धानुत्पादापच्या संयोगसंबन्धेन तेजसः कारणत्वासंभवात् । नच वयवयवक्रियाजन्यादेव संयोगात् गन्धोत्पादः न पा. किंवद्रव्याक्रियाजन्यात् प्रज्वलति बहो सकृनिक्षिप्य पुनर्ग्रहीते घटे पूर्वगन्धनाशगन्धान्तरोत्पादयो. रदर्शनादिति वाच्यम् । अवस्थित एव घदे सकृद्दाहिना प्रज्वलता संयोज्य वदयपनयनेऽपि तदर्श नाभावेन विजातीयसंयोगाभावस्यैव तदानीं गन्धान्तरानुत्पादप्रयोजकत्वात् । मन लवजात्यं - यवयवक्रियाजन्यसंयोग एव स्वीक्रियत इति वाच्यम् । चलन्यां वह्निज्वालायां चाल्यमाने ब शू. ललग्नहृदयपिण्डे तत्र गन्धान्तरोत्पादप्रयोजकवैजात्यं किं हृदयपिण्डक्रियाजन्यवाहसंयोगे स्वीक्रियते उत वह्निक्रियाजन्य इत्यस्य शपथनिर्णयत्वात् । तथाच परित्यज्य निश्रिताव्यभिचारक सन्दिामान- व्यभिचारकरूपेण कारणत्वकल्पनानौचित्यात् । नच संयोगसंवन्धेन तेजस्वेन कारणलसंभवः अत एव समवायातिरिक्तमनुयोगिताख्यं कश्चन संबन्धं स्वीकृत्य तेनं संबन्धेन विजातीयसंयोगस्य कारणता- स्वीकारेऽपि न निस्तारः पार्थिवद्रव्यक्रियाजन्यस्य संयोगस्यानुयोगितया तत्रासंभवेन व्यभिचारसन्दे- हात् तस्यानुयोगितासंबन्धेन तेजोवृत्तितया तत गन्धोत्पादापत्तेश्च तस्मात् गन्धत्वावच्छिन्न प्रति पृथिवीत्वेन कारणत्वमावश्यकमेवेत्यश्रद्धेयमेव पाकजगन्धे तेजसः कारणत्वेनापाकजे च सुरभिंगन्या- दाववयवगतसुरभ्यादेनियामकत्वेन गन्धत्वेन पृथिवीत्वेन कार्यकारणभावे मानाभाव इति नीलकण्ठ- वचनम् । इदमुपलक्षणं आश्रयनाशाजन्यरूपनाशं प्रति स्वसमवायिपृथिवीसमवेतत्वसंबन्धेन विलक्ष- गतेजस्संयोगस्य कारणतया तदवच्छेदकसंवन्धघटकतयापि पृथिवीत्वासद्धिः तत्र पृथिवीत्वानिवेशे तादशा- मिसंयोगस्य अग्निरूपेऽपि सत्त्वेन तत्रापि प्रतियोगितासंबन्धेन आश्रयनाशाजन्यरूपनाशापत्तेः । नच उक्तसंबन्धेन तेजःसंयोगस्य पृथिवीरसादावपि सत्त्वात् तत्रापि प्रतियोगितासंबन्धेन यथोकरूपमाशा- पत्तिरिति वाच्यं प्रतियोगितासंबन्धन तत्तद्धंसव्यक्तित्वावच्छिन्नं प्रति तत्तत्प्रतियोगिव्य केः तत्तयाक्ति- त्वेन तादात्म्यसंबन्धेन कारणतया विलक्षणतेजःसंयोगरूपयामाग्यकारणेनाश्रयनाशाजन्यपनाशत्वाव- च्छिन्ने जननीये तब्दाप्यतत्तद्धसव्याक्तित्वावच्छिन्नजनिकानां , तत्तत्प्रतियोगिव्यक्तीनां तादात्म्येन विशे. घसामग्रीत्वेन तदापत्तिविरहात् । नीलकण्ठस्तु स्वसमवायिपृथिवीसमवेतत्वस्ववृत्तिकपत्वोभयसंबन्धस्य कारणतावच्छेदकत्वात् नरसादौ प्रतियोगितासंबन्धेन रूपनाशापत्तिरित्याचष्ट रणतावच्छेदकसंबन्धकोटौ पृथिवीत्वनिवेशनं तेजोऽनुयोमिकघटप्रतियोगिकसंयोगस्यापि रूपनाशकत्व- मस्तीति पक्षे । तदनङ्गीकारे तु स्वानुयोगिकसमवेतत्व संबन्धक्ष्य कारणतावनोद कन्वस्वीकारेणैव ते. अन का.