पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्वता । २६९ तस्मनि गन्ध उपलभ्यते । भस्मनो हि पाषाणध्वंसजन्यत्वात् पाषाणोपादानो- प्रभा. क्तहेतुघटकष्ट्रथिवीत्वरूपविशेष्मासिद्धचा विशिष्टहेतुनिर्णयाभावेन तन्न गन्धानुमानस्य सुतरामसंभवेन त. स्य अनुत्कटत्वोपपादनं असंगतमित्याशङ्का विशेष्यसाधनेन परिहरति ॥ कथमन्यथेति ॥ अन्यथा तत्र पृथिवीत्वानङ्गीकारे ॥ तद्भस्मनि पाषाणभस्मनि ॥ उपलभ्यत इति ॥ प्रत्यक्षनिरूपि- तलौकिकविषयतावानित्यर्थः । ननु पाषाणभस्मनि गन्धस्य प्रत्यक्षसिद्धत्वमात्रेण कथं पाषाणस्य पृ. थिवीत्वसिद्धिरित्यत आह ॥ भस्मनो हीति ॥ तथाच भस्मनि गन्धस्य प्रत्यक्षसिद्धत्वात् तेन पृ. थिवीत्वमजीकार्यम् । तस्मादेव तदवयवेषु पृथिवीत्वमङ्गीकार्य भस्मावयवपाषाणावयवयोरैक्यात पाषाणाव. यवेष्वपि पृथिवीत्वसिद्धौ तत्समवेतद्रव्यत्वेन पापाणस्यापि पृथिवीत्वं सिध्यतीति भावः । ननु भ- मञ्जूषा. न्यथेति ॥ अधवैतावता पृथिवीस्वाभावसापकतया परोपन्यस्तहेतोस्साध्यसमावेनासाधकत्वं दर्शितं नचैतावता स्वाभिमतार्थनिश्चयः अतस्स्वाभिमतार्थसाधकं हेतुमाह । कथमन्यथेति । अन्यथा पाषाणस्य पृथिवीत्वानङ्गीकार इत्यर्थः । इदानीं पृथिवीत्वस्व प्रकान्ततयान्यथाशब्देन तदभावोपस्थितिर- क्लेशेनैव निर्वहतीति बोध्यम् । अत्र पाषाणः पृथिवी पार्थिवपरमाण्वारब्धगव्यत्वादित्यनुमानेन पा- षाणस्य पृथिवीत्वं पाषाणारम्भकपरमाणोः पृथिवीवश्च भस्मरूपपृथिव्यारम्भकत्वेन भस्मनः पृथिवीत्वं च गन्धवत्वेनेति समुदायार्थः । तथाच तस्यापि गन्धन त्वे बाधकाभाव इति अत्रापिशब्दप्रयो. पादनादरस्सूच्यते गन्धवत्त्वं सिद्धामति अनुक्त्वा गन्धवत्त्वे वाधकाभाव इत्युक्त्या चानावश्यकत्वं सूच्यते कथमनादर इति चेनिश्चायकाभावात् तथाहि यद्यपि पृथिवीत्वस्य साधितत्वात् तत्र गन्धवत्त्वं सं- भवति तथापि नावश्यमस्तीति निर्णेतुं शक्यम् । तथााद्भूतगन्धवाद्भिरेव परमाणुभिः पाषाणारम्भः अस्तिच तत्रोद्भूतगन्धः अनुपलम्भस्तु दृढालयवसंयोगेन प्रतिबन्धात् अथवानुद्भूतगन्धवद्भिरेव तैस्त- दारम्भो गन्धश्च तत्रानुद्भूतः । यद्वा नानाजातीयगन्धवद्भिरेव परमाणुभिस्तदारम्भः अतो निर्गन्ध एव दिनकरीयम्. स्यादिना । अन्यथा पाषाणादौ पृथिवीत्वानङ्गीकारे ॥ तद्भस्मनि पाषाणभस्मनि । यद्य- पि पाषाणे पृथिवीवाभावेनालक्ष्यत्वादेव तत्र गन्धवत्त्वलक्षणं नाव्याप्तमिति व्यर्थस्तल गन्धसाधनाय परि- श्रमस्तथापि वस्तुस्थितिमनुरुध्य तथोक्तमिति ध्येयम् । पाषाणभस्मनि गन्धः प्रत्यक्षसिद्धस्तेन तत्र पृथि- चीत्वमङ्गीकरणीयं ततश्च भस्मारम्भकावयवेष्वपि पृथिवीत्लासिद्धिस्ततश्च पाषाणारम्भकावयवेष्वपि पृथि वीत्वमङ्गीकरणीयं भस्मारम्भकावयवपाषाणावयवयोरैक्यादेवं च पाषाणस्यापि पृथिवीत्वसिद्धिरित्यभि- प्रायस्तदेतद्विशदयति ॥ भस्मनो हीति ॥ एतेने पाषाण इव तद्भस्मन्यप्यनुद्भतगन्धापत्तिवारणाय पाषाणावयवेषु पाकाङ्गीकार आवश्यकः एवं च पाकोत्पादितगन्धवद्भिः पाषाणावयवैरेव तद्भस्मारम्भः निर्गन्धैश्च तैरेव पाषाणारम्भ इत्यन्यथा तद्भस्मनीत्याद्यसङ्गतिरिति परास्तम् । तथासत्यप्युक्तप्रणाल्या रामरुद्रीयम्. लमखातं तत्र तत्साधकप्रमाणाभावादित्याशहानिरासाय. गन्धसत्यादित्यस्य गन्धानुमानादित्यर्थकता- या आवश्यकत्वेन तत्र हेत्वनुपन्यासे मूलस्य न्यूनतापत्तेरिति भावः ॥ व्यर्थ इति ॥ पाषाणस्य पृथिवीत्व एवं लक्षणस्याव्याप्तिः तस्याप्मृथिवीत्वे तु तत्र गन्धासत्त्वस्यातिव्याप्तिवारकतया अनु. कूलत्वादिति भावः ॥ बस्तुस्थितिमनुरुध्येति ॥ पाषाणस्य पृथिव्यन्यद्रव्यताया अपसिद्धान्त- तयर लक्ष्यत्वेन तत्राव्याप्तिपरिहारस्यैवोचितत्वादिति भावः ॥ पाषाणारम्भ इतीति ॥ च पाकजगन्धे गन्धनाशोऽपि कारणामन्यथा गन्धनाशात्पूर्वमेव पाकेन गन्धोत्पादप्रसङ्गादिति कथं निर्गन्धपरमाणो गन्धोत्पादः सम्भवतीति वाच्यम् । गन्धं प्रति गन्धस्य प्रतिबन्धकत्वेन प्रतिब, न्धकसंसर्गाभावविरहादेव गन्धसत्त्वे तदुत्पादासम्भवात् । न चैवमपि जलादी पाकेन पाकजगन्धा- न