पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता। २७३ प्रभा. - वच्छिन्नजन्यतावत् तत्तदुपादानोपादेयमिति व्याप्तिर्लब्धा । एवञ्च घटध्वंसजन्यतत्प्रत्यक्षनिष्टकार्यताया विषयतासंबन्धावच्छिन्नत्वेन समवायसंवन्धावच्छिनत्वाभावात् आश्रयनाशजन्यरूपनाशनिष्ठकार्यताया अपि समवायसंबन्धावच्छिन्नत्वाभावात् प्रथमद्रव्यपदं व्यर्थम् । मिथ्याज्ञानध्वंसनिरूपितकायव्यूहनिष्ठ- जन्यताया विजातीयसंयोगसंवन्धावच्छिन्नत्वेन दण्डस्वरूपदण्डप्रागभावध्वंसनिरूपितघनिष्ठकार्यतायास्सं. योगसंबन्धावच्छिन्नत्येन समवायसंबन्धावच्छिन्नत्वाभावात् द्वितीयद्रव्यपदमपि व्यर्थम् । मण्यादिरूपप्रति. बन्धकालन्ताभावनिरूपितघटनिष्ठ कार्यतायासंयोगसंबन्धावच्छिन्नत्वेन व्यभिचाराप्रसक्त्या जनकतायां ध्वस- स्वावच्छिन्नत्वमपि न निवेशनीयं । सालनामध्वंसनिरूपित्तनारकीयशरीरनिष्ठजन्यतायाः विजातीयसंयोगाव. च्छिन्नत्वेन व्यभिचाराप्रसक्त्या व्याप्तिषटकजनकतायां अदृष्टानवच्छिन्नत्वमपि न निवेशनीयं । पाषाणवं. सनिरूरितवह्निनिष्ठजन्यताया अपि संयोगसंबन्धावच्छिन्नत्वेन समवायसंबन्धावच्छिन्नत्वाभावात् व्यभि- मजूधा. वाच्या सर्वत्र सञ्चरिष्णवो हि तैजसाः परमाणवः तेजस्व॒सेरण्वन्तरिन्धनविशेषैश्च संयुक्ता व्यणु- कादिक्रमेण महान्तं दहनमारभन्ते तत्रच ग्रन्थिलकाटमूलान्तर्वर्तिनः परमाणवो बाह्यदहनन्त्रसरेणुमि- कञ्चिदनुविष्टैरसंयुचा अपि तादृशकाष्टमूलेन प्रतिबन्धात् । न दहनमारब्धुमाश. ते अन्तःप्रविष्टबाह्यदहनत्रसरेणुसंपर्कजनितावयवक्रियाविघटिते वाश्यादिपरित्तष्टे वा तस्मिन् तदवयवशक- लसंयुक्ताः परमाणवो दहनमारभन्त इति नानुपपत्तिरिति आस्तां वा यथाकथांचित् ध्वंसत्वावच्छिन्न- स्वनिवेशसार्थक्यं तथापि नैतद्विश्वनाथाभिप्रेतं दृष्टान्तासिद्धिप्रसङ्गात् नहि खण्डपटत्वावच्छिन्नं प्रति महापटध्वंसत्वेन कारणता प्रयोजनाभावात् किंतु द्रव्यवति द्रव्यान्तरानुत्पत्त्या द्रव्यं प्रति व्यस्य प्रतिवन्धकता अतो न यावन्महापटसमवधानं खण्डपटोत्पत्तिः तन्नाशे च प्रतिबन्धकवि- मामाज्जायमानः एटः खण्डपट इत्युच्यते । खण्डपटत्वं हि न जातिः येन तत्कार्यतावच्छेदकत्व. मावश्यकं किंतु महापटध्वंसाव्यवहितोत्तरक्षणे तदीयकतिपयावयवपुञ्जसमवायेनोत्पनत्वे सति पटत्वं त- वार्थसमाजग्रस्ततया न कार्यतावच्छेदकमतः खण्डपटं प्रति महापटध्वंसस्य संसर्गाभावविधयैव का. रणत्वं किंच पाषाणभस्मत्वं पाषाणध्वंसोत्तरकालीनपाषाणारम्भकपरमाण्वारब्धभस्मत्वं तदवच्छिन्न प्र. ति न पाषाणध्वंसत्वेन कारणत्वं प्रयोजनाभावादर्थसमाजग्रस्तत्वाच्च । एवं हि तत्र क्रमः वह्नि-- संयोगेन परमाणुषु न प्रथमं भस्मारभ्यते पाषाणघणुकात्मकेन द्रव्येण प्रतिबन्धात् । अतो वल्लि- संयोगात् परमाणुष्वारम्भकसंयोगापममेन घणुकादिनाशे विजातीयतेजस्संयोगसहकृत व्यरूपप्रतिबन्ध- कसंसर्गाभावसनाथैः परमाणुभिः भस्मारभ्यते न तत्र पाषाणध्वंसत्वेन कारणता । अथ भस्मत्वाव- च्छिन्नं प्रति पूर्वद्रव्यध्वंसत्वेनाजनकत्वे विशकलितावस्थितेषु परमाणुपु. विजातीयतेजस्संयोगात् भस्मा. रम्भस्स्यादिति चेत्स्यादेव यदि विशकलितावास्थितान् पार्थिवपरमाणूनेकतस्समूहितुमिह कश्चित्प्रभवेत् तुल्यं चैतत परेषां अनादौ संसारे सर्वेषामेव परमाणूनां पाषाणध्वंसवत्त्वात् । नन्वनुभवसिद्धे करी. षपापाणभस्मनोः गियोच्यावृत्तेर्थे जात्ये अतस्तदवच्छिन्नं प्रति पाषाणध्वंसात्वादिना कारणत्वमावश्यकामिति चेत् रूपस्पर्शयोरेव ते वैजात्ये अनुभवसिद्धे न भस्मनोः । तथाच विजातीयं रूपं स्पर्श प्रति च पा- षाणध्वंसस्य स्वसमानाधिकरणस्वात्तरदच्यानुत्तरत्वस्वसामानाधिकरण्वस्वोत्तरत्वैतत्रितयसंबन्धेन पाषाणध्वं. सस्य कारणत्वमस्तु । अथवा परमाणुषु पूर्वरूपस्पर्शविशेषनाशप्रयुक्तः पाकजरूपस्पर्शयोः विशेषः त. दधीनं च घणुकादिरूपे भस्मनि रूपस्पर्शयोर्विशेष इति न तत्रापि पाषाणध्वंसत्वादिना जनकत्वं पा- षाणरूपस्पर्शयोहि करीषरूपस्पर्शापेक्षया वैजात्य मनुभवसिद्धम् । अतस्तदारम्भकपरमाणुरूपस्पर्शयोरपि तद्वैजात्यमावश्यकं वहयुत्पादकलोहितपचनीयादिद्रव्यविशेषाधीनमपि • कचित्पाकजरूपादीनां लक्षण्यं कचित्पाकविशेषाधीनमपि ततश्च पाषाणभस्म पाषाणोपादानोपादेयं पाषाणध्वंसनिष्टध्वंसत्वावच्छिन्न- जनकतानिरूपितजन्यताशालिद्रव्यत्वादित्यनुमाने स्वरूपासिद्धिः इदं तु बोध्यं पाषाणभस्मत्वावच्छिन्नं 35