पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- सैवानित्या पृ- THT. मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता। अनित्या तु तदन्या स्यात् सैवावयवयोगिनी । तदन्या परमाणुभिन्ना पृथिवी द्वयणुकादिरूपा सर्वाप्यनित्येत्यर्थः थिव्यवयववतीत्यर्थः । नन्ववयविनि किं मानं परमाणुपुञ्जरेवोपपत्तेः । नच परमाणूनामती- न्द्रियत्वात् घटादीनां प्रत्यक्षं न स्यादिति वाच्यम् । एकस्य परमाणोरप्रत्यक्षत्वेऽपि तत्म- मूहस्य प्रत्यक्षत्वसम्भवात् यथैकस्य केशस्य दूरेऽप्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्षत्वम् । न सन्वयवातिरिक्तावयविनि मानाभावानित्यानित्यविभागोऽयुक्तः नचावयविनः परमाणुरूपत्वे घटस्या- पि नित्यत्वेनोत्प्रत्यभावात् दण्डादिसामग्र्यपेक्षा न स्यादिति वाच्यं परमाणूनां विलक्षणसंयोगविशि- टानामेव घटात्मकतया तादृशसंयोगोत्पत्तावेव दण्डादेरुपयोगिन स्वीकारात् घट उत्पन्न इत्याकारको. त्पादविनाशप्रतीतेरपि तादृशसंयोगोत्पादविनाशावगाहित्वेनैवोपपत्तेनातिरिक्तत्वमवयविनः । अत एवा- नन्तावयवादिकल्पनागौरवस्य तत्सामग्रीकल्पनागौरवस्य च नावकाश इति नवीन कदेशिमतमुपन्य- स्यति ॥ नन्वित्यादिना ॥ ननु घट इत्यादिप्रत्यक्षमेव तत्र प्रमाणमित्यत आह ॥ परमाणु- पुरिति ॥ विलक्षणसंयोगविशिष्टैः परमाणुभिरेवेत्यर्थः ॥ उपपत्तेरिति ॥ घट इति प्रत्यक्षो. पपत्तरित्यर्थः ॥ प्रत्यक्षत्वादिति ॥ प्रत्यक्षत्वसंभवादित्यर्थः । इदं काप्य दृष्टचरमित्याशङ्कां दृष्टान्तमुखेन मञ्जूषा. मस्ति तत्र पाकनाश्यतावच्छेदकजातेस्तेजोनिरूपयोऽस्माभिर्दूषयिष्यमाणावात् । नच सांसिद्धिकद्रवत्वत्वजा. तिपुरस्कारेण द्रवत्वस्य जललक्षणत्वसंभवेऽपि नैमित्तिकद्रवत्वस्य तेजोलक्षणत्वमग्रे वक्ष्यमाणं विरुध्यते तत्रापि पृथिवीद्रवत्वव्यावृत्तजातिविशेष मानाभावात् तत्र पृथिवीवृत्तित्वाभावविशेधितजातिपटनाया इवात्र तेजोवृत्तित्वाभावविशेषितजातिघटनाया अपि संभवादिति वाच्यं स्वसजातीयावृत्तिजातिघटि- तलक्षणकरणस्य युक्तरूपत्वाभावात् । तेजास्थले तु सुवणें तेजसत्व साथकवक्ष्यमाणहेतुसत्त्वसूचना- य तेजसि नमित्तिकद्रवत्वमस्तीत्युक्तं तस्य च लक्षणपरत्वमपि संभवतीत्याशयेन कथंचित्परिष्कृतं विश्वनाथेनेति द्रष्टव्यम् । अत्र पृथिवीवृत्तिसंख्यादौ जलादिसंख्याव्यावृत्तजातिविशेषाभावात्तेपां लक्षणत्वमुक्तम् । नत्र वंशदद्वय विभागादौ शब्दाविशेषजनकतावच्छेदकवैजात्यमस्तीति वाच्यं . शदळकपाल तन्तुशाख दिविभागेम्पो मिथो विलक्षणानामेव शब्दानामुत्पत्त्या तत्तज्जात्यवच्छिन्नशक प्रति वंशदळविभागवादिना कारणत्वस्यावश्यकत्वेनावयवकठिनस्पर्शतारतम्येन शब्दतारतम्यस्यानुभव- सिद्धतया तत्र कठिनस्पर्शस्य तद्विशिष्टत्वेन विभागस्यैव वा विशेषसामान्याभ्यां कारणताया आ. वश्यकत्वेन च तत्र विभागे जातिविशेषकल्पनायां मानाभावादिति ॥ ३६ ॥ अत्र सौगतासगिरन्ते खरस्नेहोण्येरणस्वभावाश्चतुर्विधाः परमाणवस्तताबो रूपरसगन्धस्पर्शस्वभावः द्वितीयो रूपरसस्पर्शस्वभावः तृतीयो रूपस्पर्शस्वभावः चतुर्थस्स्पर्शस्वभावः एते च मिथः संहताः पृथिव्यप्तेजोवायुशब्दः क्रमाद्यपदिश्यन्ते तान्येतानि चत्वारि भूतानीत्युच्यन्ते त एव च पृथिव्यादयः संघातविशेषापनाइशरीरेन्द्रियवि- यरूपा भवन्ति तेच शरीरेन्द्रियविषया भौतिका इत्युच्यन्ते एतान्येव बाह्यानि वस्तूनि । आकाशे तु प्रमाणाभाव दिनकरीयम्. बौद्धः शङ्कते ॥ नन्विति ॥ नन्वयं घट इत्यादिप्रतीतिरेव तत्र प्रमाणं भविष्यत्यत आह ॥ प. रमाणुपु.रेवेति ॥ विलक्षणसंस्थानविशिष्टैः परमाणुभिरेवेत्यर्थः । उपपत्तेरिति ॥ अयं घट इत्यादि- प्रतीतेरुपपत्तेरित्यर्थः । तत्समूहस्य परमाणुसमूहस्य । तत्र दृष्टान्तमाह ॥ यथेति । तत्समूहस्थ के रामरुद्रीयम् नन्ययं घट इति प्रतोतेः परमाणुपुञ्जविषयकरवे मूपिण्डेऽपि तथा प्रतीत्यापतिस्तत्रापि तस्स. न