पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ कारिकावली प्रभा. नुकूलतकसत्त्वान्नाप्रयोजकत्वमिति वाच्यं लसरेणुमहत्त्वस्य नित्यत्वस्वीकारात् नच अणुरिति व्यवहारात अणुत्वाश्रयद्रव्यसिद्धिारति वाच्यं तस्यापकृष्टपरिमाणनिवन्धनत्वात महत्यपि महत्तमादणुव्यवहारात । नचैवं नसरेणुपुञ्ज एवावयवीति वाच्यं विशकलितेष्वपि तेषु घट इति प्रतीलापत्तेः नव तत्संयोगवृत्त्येव घटत्वं घटो द्रव्यमिति प्रतीतौ च परम्परया तद्भानमिति वाच्यं संभवति साक्षात्संवन्धविषयकत्ये परम्परासंबन्ध- विषयकत्वकल्पने गौरवादिलाहुः । तन्न अतिरिक्ताणोरनङ्गीकारे तत्प्रत्यक्षापत्यभावेन प्रत्यक्षे मह- स्वस्य कारणत्वचिलोपप्रसक्षात् अणुरिति व्यवहारस्यापकृष्टपरिमाणनिबन्धनत्वे महानणुरिति व्यव. हारापत्तेः महत्त्वातिरिक्ताणुत्वानङ्गीकारे परमाणुरिति व्यवहारानुपपत्तश्च तस्याणुत्वावधिकोत्कर्षाश्रयाणु- त्वनिवन्धनत्वादिति हृदयम् । ननु परमाणुत्रयेण कुतो न द्रव्यान्तरोत्पत्तिः परमाणुद्वयेन द्वयणुक- वत् अविभुद्रव्यत्वानिरवयवत्वाच परमाणुन यस्य संयोगासंभवेऽपि द्वयणुकद्वयेन द्रव्यान्तरोत्पत्तिरस्तु त्रिभिः द्वयणुकैस्त्र्यणुकवादिति चेन्न प्रमाणाभावेन तादृशद्रव्यासिद्धी द्वयणुकद्वयेऽपि द्रव्यारम्भकसयो- गाकल्पनात् केनित्त निभिः परमाणुभिरेव त्र्यणुक्रमस्तु परमाणुभ्यामनारम्भस्तु सिद्धान्तिनां द्वयणु- काभ्यामानारम्भ इव मानाभायात् फलवलेन लयाणामे युगपत् द्रव्यारम्भकसंयोग कल्पनात् । वस्तुतस्तु गवाक्षरन्धे दृश्यमानानां द्वषणुकत्वमेव युक्तं अणुद्वयारब्धत्वे लाघवादिति मुक्कावलीखण्डनमाहुः । त- दसत् त्रयाणां एरमागूना संयोमासंभवस्योक्तत्वात् गवाक्षरन्ध्रदृश्यमानस्य द्वय णुकत्वं न संभवति द्ववणुके महत्त्वाभावात् महत्त्वस्यावयवगत वहुत्वसंख्याजन्यत्वात् महत्त्व प्रति एकत्वान्यसंख्यारूपबहुत्वसंख्याया हेतुत्वस्य सिद्धान्तविरुद्धत्वात् एकस्मात् द्रव्योत्पत्त्यभावेन द्वाभ्यामेवोत्पत्तेर्वक्तव्यत याऽतिप्रसङ्गाभावे- नावयविगतकत्वस्य हेतुत्वेऽपि क्षवभावात् बहुत्वस्य हेतुत्वानुपपत्तश्चेति । देहमिन्द्रियं विषयस्तथेति मूलस्य विध्यप्रयोजकपरत्वं सूचयितुं अर्थमाह ॥ सा कार्यरूपेति ॥ त्रिविधेति ॥ प्रका- स्त्रयान्यतमवतीत्यर्थः । पृथिव्याः कारत्रयान्यतमवत्त्वं कुत इत्याकाङ्क्षायां प्रयोजकमाह ॥ शरीरेति ॥ अत्र शरीरादिशब्दानां शरारत्वादिलाक्षणिकत्वं बोध्यं लुप्तषष्ट्या वर्तमानत्वं शरीरादिशब्दानां वा श- सरत्वादितिलाक्षणिकत्वं भेदपदोत्तरयमाणपञ्चम्याः प्रयोज्यत्वमर्थः । तस्य व्युत्पत्तिवैचित्र्येण वि- धापदार्थकदेशप्रकारत्रये अन्वयः । तथाच शरीरत्वेन्द्रियत्त्वविषयत्ववृत्तिभेदप्रयोज्यप्रकारत्रयवती कार्य. रूपा पृथिवीति वाक्यार्थः । शरीरत्वेन्द्रियत्वविषयत्वानां भेदसत्त्व एव पृथिव्यास्त्रविध्यं शरीरत्वा- दीना मक्ये वैविध्य नोपपद्यत इत्यन्वयव्यतिरेकाभ्यां शरीरित्वेन्द्रियत्वविषयत्व वृत्तिभेदसत्ताधीनसत्ताक- स्वरूपतादृशभेदप्रयोज्यत्वस्य प्रकारत्रये सत्त्वात प्रयोज्यम्योजकभावो नानुपन्न इति हृदयम् ॥ ३७ ।। मजूषा. कावळ्यामु तयोरुभयोरप्यनुमानथोरप्रयोजकत्ववारणे कृते तन्निरासकेऽत्र नव्या इत्यादिग्रन्थेऽपि तस्यै- ब प्रथमतस्समाधेयता स्थात् नत्येवमस्ति अतोऽत नचेत्यादिना शङ्किता रीतिरेव मुक्तावळ्यभिप्रेतेति नीलकण्ठाभिप्रायोऽवगम्यते एवं नव्यमतप्रदर्शनानन्तरं तेनैवात्रेदं बोध्यम् त्रिभिः परमाणुभिरेव त्र्यणुकमस्तु । परमाणुभ्यामनारम्भस्तु सिद्धान्तिनां द्वयणुकाभ्यामनारम्भ इव मानाभावात् फलवले- न त्रयाणामेव युगपव्यारम्भकसंयोगकल्पनात् वस्तुतो गवाक्षरन्ध्रे दृश्यमानानां द्वयणुकत्वमेव यु. कमणुद्वयारब्धत्वे लाघवादिति लिखितम् । तस्य चायमर्थः बसरेणुसमवेतमहत्त्वस्य यदि संख्या- जन्यत्वमावश्यकमिति निर्बध्यते तदा द्वित्वसंख्यायां महत्वजनकत्वासंभवेन तजनकलित्वसंख्याश्रय- तया केचिदवयवाः सिद्धाः तेषामवयवास्तु कथं सिध्येयुः तत्र बीजाभावात् तथाच त्रसरेणुमह त्वजनकत्रित्वाश्रया एत एवं परमाणव इति । सांप्रदायिकास्तु अमहतामनवयवानां त्रयाणां युगपत् संयोगासंभवं मनसाभिसंदधते अतो निरवयवैस्त्रिभिरणुभिर्द्रव्यारम्भो न संभवतीति द्वाभ्यामेव निरषयवाभ्यामशुभ्यां द्रव्यारम्भस्तच द्रव्यं न सरेणुर्भवितुमर्हति महत्त्वजनकलित्वासंभवातू ब्यणुकन्त्वककावयवावच्छेदेन युगपत् द्वाभ्यां संयोगमहति इति त्रिभिणुकैस्त्रसरेणुरारभ्यत इति A