पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी.प्रमा-मजूपा-दिनकरीय-रामन्द्रीयसमन्विता । तस्य अनेक- मजूया. मन्यन्ते तत्राह वस्तुत इति घणुकत्वमेवेति तथाच यस्त्रसरेणुरिति सांप्रदायिकैर्व्यवाहियते तमव वयं धणुक- शब्देन व्यवहराम: निरवयवयोरमहतोद्वयोः संयोगस्य भवतापि स्वीकृतत्वात् नचैवं व्यणुकस्य महत्त्वाभा. वादचाक्षुषत्वापत्तिरिति वाच्यं भवतां यस्त्रसरेणुः तस्यैवास्माकं घणुकतया तत्रापकृष्टमहत्त्वाझीकारात् नच महत्व कारणात्रित्वाभावात् कथं महत्त्वमिति वाच्यं भवतां ध्यणुकाणुत्वं प्रतीवास्माकं द्वयणुकापकृष्टमहत्त्वं प्रत्येव परमाणुद्वित्वसंख्यायाः कारणत्वस्य वक्तुमुचितत्वादिति । अनेन चेदं संभाव्यते गवाक्षरन्ध्र यो दृश्य ते तत्सावयवत्वसाधकहेतावेवानुकूलतकंसंभावना नतु तदवयवसाधकहेताविति तदेतदुभयं उक्तेऽर्थे सूचनं एवमपकृष्टमहत्त्व प्रतीत्यादिमुक्तावळीग्रन्थस्य आशयं अनुक्त्वा अत्र नव्या इत्यादि नव्यमतप्रदर्शनवेळायां तदाशयस्य मयन्तरेण सूचि त्वादेव नीलकण्टस्य लज्जा विज्ञायते इदं तु तत्त्वं प्रथमानुमाने नीलकण्टा- भिमतोऽप्यनुकूलतर्कः न बसरेणुमहत्त्वनित्यत्ववादिनव्यमतसिद्धः किन्तु सांप्रदायिकमत एव स्वारसिका एवंच सत्यनुमानद्वय एवानुकूलतर्कः सुलभः तथाहि महत्त्वान्तरे त्रित्वादिसंख्यायाः कारणत्वं कुप्तं नतु द्वित्वस्थ ततस्त्रसरेणुमहत्त्वकारणाकाङ्क्षायां त्रित्वचतुष्ट्वादिकमेव प्रथममुपतिष्ठते नतु द्वित्व अ. तस्त्रसरेणोस्त्रिषु चतुषु पञ्चसु घावयचेषु कल्पनीयेषु प्रथमोपस्थितत्वात् नय एव कल्प्यन्ते । तेच न निरवयवाः तथासति त्रयाणां संयोगानुपपत्तेः । अतश्च यदि घ्यणुकं निरवयवं तदा न तैस्त्रि- भित्रसरेण्वारम्भः स्यात् किन्तु द्वाभ्यां तथासति तत्र महत्त्वं न स्यात् महत्त्वाभावे च चाक्षुषत्वं घणुकस्य महदारम्भकत्वं च न स्यादिति । अतश्चानेकद्रव्यत्वामित्यस्य सावयवावयवकत्वमित्य. र्थः तादृशार्थलाभस्त्वन्यथासिद्धिप्रकरणे दर्शितः अतोऽर्थभ्रम एव नीलकण्ठस्य । यद्यप्यत्र त्रसरेणु. महत्त्वस्य नित्यत्वस्वीकारे नेमावनुकूलतको प्रसरतः तथापि पारच्छिन्नमहत्त्वं जन्यमेवेति प्राचामनुभवः । नवीनास्तु लादृशानुभवमनादृत्य त्रसरेणी विश्रान्ति मङ्गीकुर्वन्तीति मतनिगर्वः । केचितु द्रव्यत्वमित्यस्य व्यवयवकत्वामित्यर्थः । तस्य त्रसरेणुमहत्त्वप्रयोजकत्वं पूर्वोक्तरीत्या बोध्यं त्रसरेणोध्यव- यवकत्वं च त्रसरेण्ववयवानां सावयवत्व एव निर्वहति नान्यथा पूर्वोक्तयुक्तेरतोऽनुकूलतर्कद्वयला. भः शेषं पूर्ववदित्याहुः । एतन्मतेऽपकृष्टमहत्त्वशब्दः त्रसरणुमहत्त्वमात्रपरः प्रयोजकत्वादित्यस्य च प्रयोजकतया वाच्यत्वादित्यर्थः यथाश्रुते कपालव्यारब्धघटनिष्ठापकृष्टमहत्त्वे व्यभिचारात् अस्मदुक्तार्थ तु व्यभिचारप्रसत्यभावात् यथाश्रुतार्थ एव सङ्गच्छते नच व्यभिचाराभावेऽपि घटादिपारमाणे सा वयवावयवकत्वस्य प्रयोजकत्वे मानाभाव इति वाच्यं परिच्छिन्नमहत्त्वस्य संख्या प्रचयमहत्त्वान्यत-- मजन्यत्वनियमेनाविभोर्निरवयवस्य युगपत् द्वाभ्यां संयोगाभावे त्रित्वादिसंख्यायाः परिमाणजनकत्यसंभवात् निरवयवानां प्रचयस्यैवासंभवात् महत्त्वस्यापि संख्याद्यन्य तमजन्यत्वावश्यंभावेन सावयव एव संभ- परिच्छिन्नमहत्त्वमात्र सावयवावयवकत्वस्य प्रयोजकताया दुर्वारस्वात् । पुनरिदानीश्चिन्त्यते गवाक्षरन्धे दृश्यमानस्य वस्तुनः परमाणुद्वयेनारम्भो युज्यते न वेति । अत्रायं नीलकण्ठाभिप्रायः न सामान्यतः परिच्छिन्नमहत्त्वत्वावच्छिन्नं प्रति त्रित्वत्वेन कारणता येन तत्र व्यभिचारापत्त्या त्रुटित्वस्यापि त्रित्वजन्यत्वमावश्यकं स्यात् नत्वेवं कारणतास्ति कपालद्वयारब्धघटमहत्त्वे व्यभिचारापत्तेः अपि तिलपारमाणस्त्रिभिरवयवैरारब्धे महत्त्वमेकविध तिलपरिमाणाभ्यां द्वाभ्यामध्यर्धतिलपारमाणेन चैकेना. रब्धेऽन्यविघं एवं तिलपरिमाणेनैकेनाध्यधतिलपरिमाणेन चान्येन यवपरिमाणेन चेतरेणारब्धेऽभ्यविध अतस्ततजातिविशिष्ट प्रति तत्तजातिविशिष्टपर्याप्तत्रित्वत्वादिना विशिष्यविशिष्यैध कारणता वाच्या नच तावतापि निर्वाहः क्वचिदवयवद्वयारब्धे अर्धतिलपरिमाणावयवषटकाद्यारच्धे च तत्तजातिविशिष्टोत्पाद- दर्शनात् अतः कारणवैशिष्टयमपि कार्यतावच्छेदके निवेशनीयम् । एवंच त्रुटित्वं प्रति लाघवात द्वित्वमेव कारणमस्तु । नच महत्त्वान्तरे त्रित्वस्य कारणतायाः कुप्तत्वात् त्रुटित्वाख्यमहत्त्वं प्रत्यपि तदेव कारणमुचितमुपस्थितिलाघवात् नतु द्वित्वमिति वाच्यं ईदृशोपस्थितिलाघवस्याप्रयोजकत्वात् । नहि स्थलान्तरे त्रित्वकार्यतावच्छेदकं त्रुटित्वसाधारणं नवा त्रित्वनिष्ठं कारणतावच्छेदकं अन्यत्रित्वसाधा- वाच च