पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥श्रीः॥ उपोद्घातः॥ विदितमेव सर्वेषां पण्डितप्रकाण्डानां यदुत दुःखपङ्कनिमग्नस्य नानावस्थापनस्य प्राणिजा. तस्य सुख मे भूयात् दुख मे मा भूदिति प्रतीतिसाक्षिकसुख दुःखाभावावेव परमपुरुषार्थावि- ति। तत्रच आत्यन्तिक दुःखोच्छेदस्य निःश्रेयसापरनामकस्यैव मोक्षत्वमाहुस्तर्कनिष्णा- ताः। तस्याधिगमप्रकारश्च पदार्थतत्त्वावधारणमिति नैयायिका आमनन्ति । एवं मोक्षसाध- नमुख्योपायस्य पदार्थतत्त्वज्ञानस्य प्रतिपादिका अष्टादशविद्यास्थानेषु अभ्यर्हिततमा आ- म्वीक्षकी निखिलजगद्दिर्षिया भगवान् गौतममुनिः “प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्त. सिद्धान्तावयवतर्कनिर्णयवाद जल्पवितण्डाहेत्वाभासच्छलजालिनिग्रहस्थानानां तत्वज्ञा- नान्निःश्रेयसाधिगन्नः" इत्यारभ्य " हेत्वाभासाश्च यथोक्ताः” इत्यन्तः सूत्रैः पञ्चाध्यायः प्र- णिनाय शास्त्रस्य चास्य न्यायशास्त्रं. तर्कशास्त्र,आन्धीक्षकी, आक्षपादी, गौतमीय इ- त्यादीनि बहूनि नामानि तत्र तत्र प्रयुज्यमानान्युपलभ्यन्ते । किमिदं न्यायशास्त्रं नाम ? प्रमा. गैरर्थपरीक्षणं न्यायः, प्रत्यक्षागमाश्रितमनुमान सा अन्वीक्षा, प्रत्यक्षागमाभ्यां ईक्षितस्य अनु ईक्षणं अन्वीक्षा तया प्रवर्तत इति आन्वीक्षकी न्यायविद्या न्यायशास्त्र । यद्वा, न्यायः पञ्चावयववाक्यं प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः, एतस्य न्यायस्य च प. रार्थानुमानस्थले प्रयोगः, इयं हि न्यायविद्या पदार्थतत्त्वावधारण जनन द्वारा यथा स्वात्म साक्षात्कार प्रत्युपयुज्यते तथा आत्मा इतरभिन्नः सुखादिमत्त्वात् यत्रं तन्नैवं इत्यादिभिः चावयवैः आत्मनः इतरभिन्नत्वेन परार्थ बोधनायापि प्रवृत्ता । यछा तर्यन्ते प्रतिपाद्यन्त इति तर्काः पदार्थाः सानाधिकृत्य कृतमिदं शास्त्रं तर्कशास्त्रं इत्यादयो व्युत्पत्तयः तत्र तत्र ग्रन्धैः प्रतिपादिताः ।। परंच न्यायशास्त्रवत् अभ्यहितकोटिप्रविष्टान्यन्यान्यपि शास्त्राणि तत्तन्महापभिः मोक्षोपायप्रदर्शनपराणि प्रतिपादितानि । तथाहि आस्तिकदर्शनानि पट न्यायः, वैशेषिकः, सासय, योगः, मीमांसा, बेदान्तश्चेति। तत्र न्यायमते निःश्रेयसलक्षणमोक्षोपा. यः पदार्थतत्त्वज्ञानं गौतममुनिना अपञ्चितमिति प्रदार्शतमेवाधस्तात् । वैशेषिकदर्शनस्य च कर्ता भगवान् कणादः, तेनापि “ अथातो धर्म व्याख्यास्यामः" इत्यारभ्य "तद्वचना- दाम्नायस्य प्रामाण्यं " इत्यन्तैः सूत्रैः दशभिरध्यायैः " धर्मविशषप्रसूतात् द्रव्यगुणकर्म सामान्यविशेषसमवायानां पदार्थानां साधयंवैधाभ्यां तत्त्वज्ञानानि श्रेयसं " इत्यने न मोक्षोपायः द्रव्यादिषट्पदार्थपरिज्ञानमिति प्रत्यपादि । सासयदर्शनस्य च प्रणेता भ- गवान् कपिलमहर्षिः आध्यात्मिकाधिदैविकाधिभौतिकात्मकत्रिविधदुःस्त्र ध्वंसरूपपुमर्थ. स्य साधनं चतुर्विंशतितत्त्वपरिज्ञानामेति “अथ त्रिविधदुःखात्यन्तनिवृत्तिः अत्यन्तपु- रुषार्थः" इत्यारभ्य “ यद्वा तद्वा तदुच्छित्तिः पुरुषार्थः तदुच्छित्तिः पुरुषार्थः” इत्यन्तैः सूत्रैः षड्भिरध्यायः सिद्धान्तयामास । इदमेव कपिलमतं निरीश्वरसाजन्यमिति प्रसिद्धम् । सेश्वरसासयं तु योगः, तस्य कर्ता भगवान् पतञ्जलिः, तेनब “ अथ योगानु- शासन ” इत्यारभ्य “पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशाक्तः" इत्यन्तैः सूत्रैः समाधिसाधनविभूतिकैवल्यनामकपादचतुष्टयेन क्लेशक- मविपाकादिभिः अपरामृष्टपुरुषविशेषरूपेश्वरतत्त्वं प्रतिपादितम् । मीमांसाशा- स्त्रं हि भगवजैमिनिमुनिप्रणीत साङ्गोपाङ्गवेदाध्ययनसमधिगम्यधर्माधर्मप्रदर्श माय " अथातो धर्मजिज्ञासा " इत्यारभ्य विद्यते चान्यकालत्वात् यथा याज्या- 62