पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामभद्रीयसमान्विता । मञ्जूषा. माणुभिस्सह यस्तेषामन्तस्सयोगः तन्नाशो बहिनिस्सरणक्रियाद्वारा सहकारी नत्वेवं पारघुतावशि- टात् पात्रस्थिताजलात् जलान्तरस्योत्पत्स्यमानमहत्तरजलावयवभूतस्य संरोहणमस्ति पानस्थितजलपरमाणु. पुञ्जात् अनिस्सृतैरेव परमाणुभिस्तदागम्भात् कचिनिम्सृतैरारम्भेडाप निस्सतरवारम्भसंभवेन दैववशसंपन्नस्य निस्सरणस्य तत्राप्रयोजकत्वाच्च । तथाचावयवान्तरविभक्ताव यवारम्भकपरमाणुसे योगनाशासहकृतपरभाव. प्रयोज्योत्पत्तिकावयवसमवेतद्रव्यत्वं पर्यवसनो हेतुः संयोगनाशभ्य सहकारित्वं च निस्सरणद्वारात नानुपपत्तिरिति दिक् । अस्मद्रुचरणास्त भन्नयाः क्षतयोर्बा संरोहणं मग्नक्षत्तसंराहण विभागाचशेष. विशिष्टयोर वयवयोः पुनस्संवन्ध इत्यर्थ इत्याचक्षते । ननु पटावयवानामाथि तन्तूनां विभक्तानां पुनस्तन्तुवायेन संयोजनात् तत्र व्यभिचार: नचास्मदीयप्रयत्नासाध्यत्वमपि संबन्धविशेषणामति बा- च्य एवमपीषद्विभक्तबोराद्रयोश्चक्रनिहितयोः कपालयोबलवता मारुतेन संयोजनन घटे व्यभिचा- रात् पाकविशीर्णानागवय वानां पाकेन पुनस्संयोजनाञ्च । उच्यते न निशेषविभक्ताभ्यामवयवाभ्यां 7, क्षान्तरमारभ्यते किन्तु किचिदंशसंयुक्ताभ्यां तव चयं रीतिः अविभक्तात्रयबागमार्गेण सञ्चरतान्तरे- ण वायुना भौमाः परमाणवः इतस्ततम्सञ्चारिता विभक्तांशदेशद्र्यात् बहिनिस्सृत्य निस्सल्य पर- स्परेण शनैसंयुज्यमाना वृक्षान्तरमारभन्ते अयमेव संयोगा विभक्त योरवयवयाः पुनस्संबन्ध इत्यु- पचर्यते । न त्वेतादृशस्तन्तूनां कपालयोर्वा पुनस्संबन्धोऽास्त । तथाच विभक्तावयवदयारम्भक- परमाणुसंयोगनाशप्रयोज्यपरस्परसंयोगविशिष्टपरमाणुसहकृततादृशावयवद्वयारमाकपरमाण्वारधद्रव्यत्वं हेतु: पर्यवसन्नः । विभक्तावयवद्वबारम्भकैः परमाणुभिस्सह सः पवनाकृष्टानां परमाणूना अन्तस्संयोगः तन्नाशेन वाहनिस्सरणद्वारा प्रयोज्यो यस्तेषामुभयतो निम्सुतानां परस्परेण संयोगस्तद्विशिष्ट. तैः पर माणुभिः सहकृता ये पूर्वविभक्तावयवद्वयारम्भकाः परमाणवस्तदारब्धत्वस्य तन वृक्षे सत्त्वान्न दोषः । पूर्वत्रिभक्कयोरवयवयोरुपचयादिना नाशसंभवेन तादृशावयवद्वयारब्धत्वमपहाय तदारम्भकपरमाण्वारब्धत्व. मुक्तमिति दिक् । भग्नक्षतसंरोहणादिनेत्यादिप दादुपचयपरिग्रहः । उपचयश्च पूर्वावयव्यारम्भकाणां प.. रमाणूनां प्रकृष्टमहत्त्ववदवयव्यन्तरारम्भकैः परमाण्वन्तरैः तद्व्यूडैः स्वात्मभित्र विलक्षणसंयोगः पच्यमा- नबीजावयवानां कथ्यमानरामठ द्यवयवानां उदेच्यमानतूलकाद्यवयवानां च यः प्रकृष्टमहत्ववद वयव्य न्तरारम्भकः शिथिलीभावापरनामा संयोगः स नेदशोपच यरूपस्तत्रावय वान्तरमेळनाभावात् किंतु विद्यमानानामेवावयवानां प्रचयाख्यस्संयोग इति न तत्र दोषः । तथाचेदशोपचचाख्य संयोगविशेषवि- शिष्टावयवारब्धव्यत्वं पर्यवसन्नो हेतुः । यदि चात्र परमाणूनां निरवयवानां परस्परव्यूह्यब्यूहकभी- वो नास्तीति मनसा संभाव्यते तदोक्तस्थले सर्वत्र परमाणुपदं त्रसरेणुपरं बोध्यम् । अथोक्तानां त्रयाणां हेतूनां न प्रयोजकत्वमिति चेन्नास्त्यप्रयोजकता भन्नसंरोहणस्य भग्नयोरवयवयोरुपदर्शितसंबन्ध. स्य निरुक्तोपचयस्य चान्तःप्राणसञ्चारानिमित्तकत्वात् । नन्वास्तां वृक्षादिष्वन्तः प्राणवायुः तथापि वृक्षे तत्सं- योगस्य ज्ञानाद्युत्पादानुकूलत्वे किं बीजमिति चेत् विरुद्धमिदमाशङ्कयते यत्संयोगो ज्ञानाद्युत्पादानुकूलस्स एव हि वायुः प्राणो नाम । किंच संरोहणादौ ज्ञानाद्युत्पादानुकूलत्वरूपेण तदवच्छेदकजातिरूपेण वाध्यात्मिकन्वेन विशिष्ट एव प्राणसंयोगः प्रयोजकः नान्यथा श्वासाभिहते घटादौ तदभाव दिति नाप्रयोजकत्वशङ्का- वकाशः । अनाचार्यमतानुयायिनः वृक्षादेः प्राणवत्त्वे तदधीने शरीरत्वे च मानाभाव: भन्नक्ष- तसंरोहणादेरन्यथैवोपपत्तेः तद्धि परमाणूनां अन्तरितम्ततस्संचाराधीनं परमाणूनां सञ्चारश्च आन्तरस्य वायोः सूक्ष्मसञ्चाराधीन इत्येतावन्तमर्थमभ्युपगच्छामः । तस्य वायोः प्राणत्वं तत्संयोगेन वृक्षादौ ज्ञानाद्युत्पत्तिश्च नेभ्यते । नहि सरोहणत्वाद्यवच्छिन्नं प्रति ज्ञानाद्युत्पादानुकूलप्राणसंयोगत्वेन हेतुता मानाभावात् । एपा पत्र रीतिः अनवरतपरिस्पन्दिनो मारुतास्त्रसरेणवो धरणिसलिलसंयोगाशथिलीकृतेषु बीजावययेषु मन्दमन्दम- •नुप्रविशन्तः पार्थिवानाप्योश्च त्रसरेणूनाकृष्य तत्तद्रीजावयवैस्संयोजयन्ति तथाविधैश्च तत्तहीजाक्यवैस्तत्तद्-