पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मजूपा-दिनकरीय-रागरूद्रीयसमन्विता। जातिमत्त्वं अन्त्यावयविमात्रवृत्तिचेष्टावद्वृत्तिजातिमत्त्वं वा तत् मानुषत्वचैत्रत्वादिजातिमा- प्रभा. घटत्वादिवारणाय चेष्टाचदिति । हस्तत्वादिवारणायान्त्यावयवीति । नव शरीरत्वस्येव हस्तत्वादेरपि पृ- थिवीत्वादिना सांकर्येण जातिवाभावात् तामादाय हस्तादावतिच्याप्त्यप्रसक्तयान्यावयचित्वविशेषणं व्यर्थमिति वाच्यं पृथिवीत्वादिव्याप्यनानाहस्तत्वजात्यङ्गीकारेणोक्तदोषप्रसक्तधा तद्विशेषणस्यावश्यकत्वा- स् । नचैवं सति पृथिवीत्वादिव्याप्यनानाशरीरवजातिमङ्गीकृत्य तादृशजातिचतुष्टयान्यतम वत्त्वस्यैव लक्षणत्वसंभवे चेष्टावत्वादिघटितगुरुतरलक्षणकरणमयुक्तमिति वाच्यं तस्यापि लक्षणान्तरत्वात् प्रकृतल. क्षणे तस्याघटकत्वेन वैयाभावादित्यभिप्राय इति हृदयम् । नन्वत्र पृथिवी त्वरूपतादृशजातिमादाय घटादावतिव्याप्त्यापत्तेः व्यव्याप्यत्वविशेषणयाच लक्षणान्तरमाह || अन्त्यावयतिमात्रेति । मजूषा- शरीरस्यति परे । प्रतिवचन संभवात् । ननु मृत शरीरे पूर्वशरीरात् परिमाणवैषम्यस्यानुभवसिद्धत्वात् कथमभेद इति चेत्राहमिदमर्थं प्रष्टव्यः । अथाप्युच्यते न सर्वत्र भरणाव्यवहितोत्तरक्षण मेव परिमाणवेष- म्यमनुभवासद्धं येन पूर्वशरीरात्तस्य भेदो नियतस्स्यात् किंतु बहुकालोत्तरं । कचिद व्यवहितोत्तरमेव परि- माणवैषम्य दर्शनेऽपि न क्षतिः । यत्र न तथा तत्रैव पैतन्य स्यापादनीयत्वात् । वस्तुतस्तु अव्यवहितोत्तर- क्षणे स्थौल्यातिशयज्ञानं श्रम एव उत्क्रममाणेन प्राणवायुना कुक्षिभागयोर्विप्रकर्षिततया तच्छरीरमु- च्छूनामिव प्रतिभासते न तत्र परिमाणान्तरमुत्पद्यते आरम्भकसंयोगान्तरोत्सद एवं परिमाणा- न्तरोत्पादस्वीकारात् अन्यथा आसीनदेव दत्तादुस्थित देवदत्ते संकुचितवेष्टितपटात्प्रसारितोत्क्षिप्तपटे च परि- माणवैषम्य प्रसङ्गात् । सति ह्यन्तःप्राणदायी आरम्भकपरमाणूनामितस्ततश्चलनादुपचयापचयों संभाव्येया. तां किन्तु बहुकालं ब्राह्मण वननोदनेन कतिपय परमाणूनामपनयने हस्तपादादिभङ्गे वा धर्म्यन्तरं प-- रिमाणान्तरं चोत्पद्यते । एवंचाल पूर्वशरीरादर्भिन्ने मृतशरीरे नाव्याप्तिप्रसङ्गः तत्र पूर्व चेष्टाया उत्पन्नत्वात् लक्षणस्य यदाकदाचित्सत्ताया एव वक्तव्यत्वात् अन्यथा पूर्वोकानां गुणवत्त्वस्थ- शंवत्त्यादीनां वक्ष्यमाणानां शीतस्पर्श वत्त्वस्नेहवत्त्वादीनां लक्षणात्यानुपपत्ते: पूर्वशरी- रात् भिन्नं तु यन्मृतशरीरं तदलक्ष्य मेवेति न तत्राव्याप्तिशङ्का । अतः सुष्टूक्तं तादृशे प्रमाणाभा-- वादिति । ननु अत्र शटित्युपचीयमानेप्वपचीयमानेषु वा शरीरावयवेषु पूर्वोपचयानन्तरं द्वित्रिचतुःक्षा णानन्तरमेव पुनरुपच्यो जातः तत्र युद्धादौ प्रतिक्षणमेव छिद्यमानेषु चावयवेषु अन्तराफिकस्य शरीरस्यापि द्वित्रिचतुःक्षणमात्रावस्थायितया तत्र कदाचिचेष्टानुत्पादसंभवेन तलाव्याप्तिरित्यनुशयानः पक्षान्तरमाश्रयते ॥ अथवेति ॥ घटत्दादिवारणाय चेष्टावदिति । हस्तत्वादिवारणाय अन्त्यावयवीति । ननु हस्तत्वादिकं न जातिः पृथिवीत्यादिना सकरात् पृथिवीत्यादिव्यायनानाहस्तत्वादिस्वीकारे च तादृशशरीरत्वादेरपि स्वीकारसंभवेन शरीरत्वस्य जातित्यनिराकरणानौचित्यप्रसङ्गादिति चेन्न पृथिवी- जलादिचतुर्विधशरीरसाधारणस्य एकस्य जातिरूपस्यैव शरीरत्तस्य पूर्व निराकृतत्वात् । सर्वशरीरानुगतो भर्म एव हीदानीमाकांक्षितस्स जातिरूपो निराकृतः पृथिवीस्वव्याप्य नानाजातयस्तूक्तरूपेणानुमतीक्रियन्ते । वस्तु- तस्तु निखिलपार्थिवशरीरसाधारण्ये का जातिनिखिलजलीयशरीरसाधारण्येका जातिरिस्येवं चतस्रः शरीरत्व. जातीर्न वयं स्त्रीकर्मः मानाभावात् । सन्ति तू काश्चन जातयोऽनुभवसिद्धा यथावयवोपचयापचयभिनेषु दिनकरीयम्. त्यावयवीति ॥ अन्यावयविमात्रवृत्तीत्यनेन पृथिवीत्वजातिव्युदासः । चेष्टायद्वृत्तीत्यनेन घटत्वादिव्युदा. रामरुद्रीयम्. सज्यत एव तथापि पृथिवीत्वादिकमादायतल्लक्षणे घटादावतिव्याप्तेश्य माणतया तदादाय न्याहाति- प्रदर्शनमनुचितमिति हस्तत्वस्य जातित्वसाधकतापरिश्रमः । नन्मन्न शरीरलक्षणप्रविष्टं चेष्टात्वं यदि 39