पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्वितां । - यद्वा परकीयेति न देयं वायूपनीतसुरभिभागानां दृष्टान्तत्वसम्भवात् । न च त्राणेन्द्रिय- प्रभा. व्यभिचारस्तदवस्थ इति वाच्य परकीयरूपादिविषयकसाक्षात्कारजनक वृत्तिद्रव्यविभाजकधर्मशून्य- त्वस्य तदर्थत्वेन प्रकृते तादृशजलत्वस्य सत्त्वादिति । गनु प्रथमहतोः नवशरावगन्धव्यजकजले कु. साक्षरमषीनीलरूपव्यजकतया व्याभिचारवारणेऽपि तृयीयहेतोः तत्र व्यभिचारः तद्वारणाय परकीयस्व- विशेषणादानप्रयुक्तलाघवाय च तथा हेतुं वा दृष्टान्तान्तरमाह ॥ यद्वेति ॥ अत्र रूपाग्राहक- त्वादिघटितहेतुत्रये रूपाविषयकज्ञानस्य न रूपविषयकज्ञानत्वेन निवेशः गौरवात् किन्तु चाक्षुषत्वेन । एवं गन्ध प्राहकत्वमित्यत्रापिं गन्धज्ञानस्य गन्धविषयकज्ञानत्वेन न निवेश: गौरवात् किन्तु घ्राणजवेन । प्राणजत्वं च घ्राणजन्यताबकछेदकप्रत्यक्षत्वव्याप्यजातिविशेषः एवं हेतुघटककारणतयोः कार्यतयोर्वा कालो- पाधिविधया जन्यत्वं जनकत्वं चादाय दृष्टान्तासिद्धिस्वरूपासिद्धयोः व्यभिचारित्वस्य च वारणाय कालि- कसंबन्धानवाच्छन्नत्वमेव वा निद्रेशनीयम् । यद्यपि कारणतयोः व्यापारसंबन्धावच्छिन्नत्वनिवेशेन कार्य- तयोः चाक्षुषत्वाद्यवच्छिन्नत्वनिवेशेन वा लौकिकविषयतासंबन्धावच्छिन्नत्व निवेशेन वा उक्तदोषवारणं संभवति तथापि सत्यन्तविशेषणवैयर्यापत्त्या कारणतयोः व्यापार संबन्धावच्छिन्नत्वनिवेशेन सत्य- न्तवैयापत्त्या च कार्यतयोः चाक्षुषत्वाद्यवच्छिन्नत्वनिवेशनं लौकिकविषयतासंबन्धावच्छिन्नत्वनिवेशनं च मूलकाराननुमतमित्युपेक्षितम् । एवंच कालिकसंबन्धानवच्छिनचाक्षुषनिष्टकार्यतानिरूपित कारणता शन्यत्वे सति घ्राणजनिष्ठतादृशसंबन्धानवच्छिन्नकार्यतानिरूपित्तकारणत्वघटितः प्रथमो हेतुः पर्यवसितः । एवं मञ्जूषा. न वैयर्थाभावात् । स्वरूपासिद्धिवारकाविशेषणमेव हि व्यर्थमित्युच्यते । नन्वनुमानस्य द्वे अङ्गे व्याप्तिः पक्ष. धर्मता च तत्र व्यभिचारादिवारकाविशेषणं यथा व्याप्तिग्रह उपयुज्यते तथा स्वरूपासिद्धिवारकविशेषणं प. क्षधर्मताग्रह उपयुज्यते तत्कुतः तस्य वैयर्थ्यमिति चेदुच्यते । प्रथमतो गृहीतव्याप्तिकस्य हेतोः पक्षधर्मता पश्चात् गृह्यते ततो ह्यनुमितिरिति झुत्सर्गः ततश्च व्याप्तिं गृह्णन्पुरुषो यद्विशेषणेन विना हेतुः न स्वात्मानं लभते नवा साध्यसहचरितस्यात् व्यभिचरेद्वा तद्विशेषणघीटतधर्म पुरस्कारेणैव तव व्याप्तिं गृ- वाति नतु स्वरूपासिद्धिवारकमपि विशेषणं तत्र घटयत्ति भाव्य नुमित्युद्देश्यपक्षव्यक्तीनां तदानीमु- त्सर्गतः परिज्ञानाभावादनुपयोगाच । व्याप्तिप्रहे हि तदुपयोगिविशेषणघटनैवावश्यकी स्यात् । नतु दोषान्तरवारकविशेषणघटना । तथाच गृहीतव्याप्तिकस्य हेतोः पक्षधर्मताज्ञानकाले स्वरूपासिद्धिवारक- विशेषणान्तरघटितत्वेनानुसन्धाने पक्षधर्मतया गृह्यमाणविशिष्टहेतो पूर्व व्याप्तरग्रहाद्यान्यत्वासिद्धिरित्युन्य- ते तस्मात्स्वरूपासिद्धिवारकमेव विशेषणं व्यर्थ नत्वप्रसिद्धिदृष्टान्तासिद्धिव्याभिचारचार कमिति परकीयत्व. विशेषणे न वैयर्यम् । वस्तुतो वैयर्थ्यश काया एव नावकाशः । अतिरिक्ताभावसंपादकत्वात् । स्फु- टीभविष्यति वेदमुपरिष्टात् । नचैवमित्येवंशब्दघटितः पाठः । एवं परकीयत्वविशेषणोपादाने । तदनु- पादाने तु तादृशजलस्य स्वीयरूपादिव्यञ्जकत्वाद्यभिचाराभावेन उपष्टम्भसङ्गतिः ॥ सक्तुरसेति ।। रसस्यापि तादृशसमुदायघटकत्वादिति भावः । लाघवायाह ॥ यद्वेति । अत्र नीलकण्ठः रूपा. . दिनकरीयम्. लत्वस्य सत्वादिति । परकीयेति विशेषणाप्रवेशे लाघवादाह ॥ यति ॥ तददाने हेतुमाह ॥ वायूपनी. ति ॥ इदमन्त्र बोध्यम् । रूपाद्यव्यञ्जकत्ने सतीत्यस्य हेतुत्रये तात्पर्य शब्दाव्यञ्जकत्वे सति गन्धव्यञ्जकलस्य रामरुद्रीयम्. रसगन्मस्पर्शाना महणेऽपि रसायनकरये सति गम्धव्यजकत्वमानस्य हेतुतासम्भवेन रूपस्पर्शयोरभ्यच करणस्य हेतुघटकत्वे प्रयोजनाभाव इत्यस्वरसात्प्रकारान्तरेण तान्धतात्पर्य वक्तुमुपक्रमते ॥ इदम वेति ॥ हेतुत्रयेति ॥ ननु रूपरसस्पर्शशब्दघटितत्वेन हेतोश्वातुर्विध्यात्त्रय इत्यसङ्गतमत आह ॥