पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ कारिकावली विषयो द्वयणुकादिश्च ब्रह्माण्डान्त उदाहृतः ॥ ३८ ॥ विषयमाह 11 विषय इति ।। उपभोगसाधनं विषयः । सर्वमेव कार्यजातमदृष्टाधी- प्रभा. र्थः । ननु विषयत्वं न जातिः सामान्यादिसाधारणत्वात् अतस्तल्लक्षणमाह ॥ उपभोगसाधनमिति ॥ साक्षात्परम्परासाधारणोपभागप्रयोजकत्वमित्यर्थः । तेन द्यणुकादेः साक्षादपभोगसाधनस्वाभावेऽपि ना. व्याप्तिः तस्य परमाणुसाधारण्येऽपि न क्षतिः तस्यापि विषयत्वात् । परन्तु कार्यरूपपृथिव्याः त्रै- विध्यन विभजनात कार्यपृथिवीविषय एव विघयो घणुकादिस्वित्यादिना दर्शित इति न तद्र- न्धविरोधः अत एव तदुपभोग साक्षात्परम्परया वा जनयत्येवेति वक्ष्यमाणं सङ्गच्छते ॥ सर्व- मेव हि कार्यजातमिति ॥ अन सर्वपदं जातपदं वा सम्पातायातं ॥ अष्टाधीनमिति ॥ मञ्जूषा. यताप्रयोजकतावच्छेदकधर्मशून्यत्वं वक्तव्यम् । गोघृतं हि चक्षुस्संयुक्तत्वरूपेणापि न परकीयरूपा- दौ लौकिकविषयतां प्रयोजयति । अतश्चक्षुस्संयुक्तत्वं न तादृशलौकिकविषयताप्रयोजकतावच्छेदकम् । कारणतावच्छेदकसंबन्धेन कारणसत्त्वमेव हि कार्यतावच्छेदक संबन्धे प्रयोजकम् । चक्षुस्संयुकं चा- धेयतावच्छेदकसंबन्धेन स्वीयरूपादावेव स्यात् न परकीयरूपादौ अतो न गोघृते हेत्वासिद्धिः स. संयुक्त जलव्यक्तिवृत्तियाँ सक्तरसनिष्टलौकिकविषयताप्रयोजकता तदवच्छेदकजलत्वस्य सर्वस्मिन् जले सत्त्वान्न पूर्वोक्तच्यभिचारः । लौकिकविषयताया आत्ममनोजन्यतानवच्छेदकतया तयोयभिचारया- रणाय गन्धव्यजकत्वम् । तच्च गन्धनिष्टलौकिकनिषयताप्रयोजकतावच्छेदकधर्मवत्त्वम् । अत्र कल्पेऽपि गन्धव्यजकत्वमित्यस्य यथायोगं पूर्वोक्तपरिष्कारा द्रष्टव्याः । वस्तुतस्तु परकीयरूपादिसाक्षात्कारजन- कतानवच्छेदकगन्धसाक्षात्कारजनकतावच्छेदकधर्मवत्त्वं दळव्यपर्यवसन्नार्थः । आत्मत्वमनस्त्वे यथा ग- न्धसाक्षात्कारजनकतावच्छेदके तथा परकीयरूपादिविषय कसाक्षात्कारजनकतावच्छेदके एवेति न दोषः कुमगन्धव्यत्रकतावच्छेदकस्य घृतत्वस्य भस्मादौ स्वीयरूपादिव्यजकतावच्छेदकत्वात् दृष्टान्तासि- दिवारणाय परकीयत्वविशेषणं सार्थकम् । ध्राणस्य कालोपाधिविधया इन्दियविधया वा घटरूपादि- दिनकरीयम्. त्यादिना वक्ष्यमाणं बोध्यम् । ननु विषयत्वं न जाति: सामान्यादौ सत्त्वादतस्तल्लक्षणमाह ॥ उपभोगेति ॥ यद्यपि साक्षादुपभोगसाधनत्वं द्वयणुकादावव्याप्तं साक्षात्परम्परासाधारणभोगसाधनत्वं परमाणावपीति द्वय णुकादिब्रह्माण्डान्त इति प्रन्थविरोधस्तथापि साक्षात्परम्परासाधारणभोगसाधनत्वं विवक्षितं परमाणुरपि वि. षय एव कार्यरूपपृथिव्या एवं त्रिप्रकारेण विभजनात्कार्यरूपपृथिवी विषय एव द्वयणुकेत्यादिना प्रदर्शित इति न तन्थावरोधः अत एवोकं तदुपभोग साक्षात्परम्परया वा जनयत्येवेति । कार्यजातामत्यत्र जात- पदं सम्पातादायातम् ॥ अदृष्टाधीनमिति ।। अत्र कार्यमानं प्रत्यदृष्टस्य हेतुता न समवायसम्बन्धन घ- रामरुद्रीयम्. धत्ते ॥ इन्द्रियत्वमिति ॥ उपभोगेतीति ॥ सुखदुःखसाक्षात्कार उपभोगस्तत्साधनं तत्प्रयोज- क इत्यर्थः तत्र घटादेरकारणत्वादिति ध्येयम् ॥ कार्यरूपपृथिव्या इति ॥ सा कार्यरूपेति विधरणादिति भावः ॥ प्रदर्शित इति ॥ तत्र विषय इत्यस्य जन्यविषय इत्यर्थकत्वादिति भा- वः । यद्यपि सेत्यस्य पृथिवीत्वावच्छिन्नपरत्वेऽपि न क्षतिः परमाणोदेहत्वाद्यसम्भवेऽपि विषयतया त्रिविधान्तर्गतत्वसम्भवात्तथापि सा चेत्यत्र चकारस्य जलादीनां त्रैविध्यस्याने वक्ष्यमाणतयाऽर्था- न्तरसमुचायकत्वासम्भवेनैवकारार्थकताया एव स्वीकरणीयतया तस्य च जलादीनामपि विविधत्वेन पृथिवीव्यतिरिक्तवैविध्यव्यवच्छेदकत्वासम्भवेन सा चेत्यस्य कार्यरूपाया एवेत्यर्थकताया भावश्यक त्वादिति भावः ॥ सम्पातादायातमिति ॥ सर्वमित्यनेनैवाशेषत्वलाभादिति भावः । नन्ना-