पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामभद्रीयसमान्विता। नम् । यत्कार्य यददृष्टाधीनं तत्तदुपभोगं साक्षात् परम्परया वा जनयत्येव नहि बीजप्रयो- प्रभा. अदृष्टजन्यमित्यर्थः । अत्र कार्यमानं प्रति अदृष्टस्य न समवायसंबन्धन हेतुत्वं घटायधिकरणकपा- लादी समवायेन तस्यासत्त्वेन व्यभिचारात् । नतु स्वसमवायिसंयोगसबंन्धेन शब्दसमवायिन्याकाशे स्वसमवाय्यात्मसंयोगाभावात् । नापि स्वसमवायि संयुक्तसंयोगेन ईदृशपरम्परायाः कारणताचच्छेदकसं. बन्धवसन्देहसंभवात् । किन्तु कालिकसंबन्धन कार्य प्रति कालिकसंबन्धेनादृष्टं हेतुरिति बोध्यम् । अत एव विषयितासंबन्धन कार्य प्रति समवेतत्वसंबन्धेन ईश्वरस्य तेन संबन्धेन कार्य प्रति तादात्म्यसंबन्धेन ईश्वरज्ञानेच्छाकृतीनां कालिक संबन्धेन कार्य प्रति तादात्म्यसंबन्धेन कालस्य दैशिकसंबन्धेन कार्य प्रति तादा. रम्यसंवन्धन दिशः कालिकसंबन्धन कार्य प्रति कालिकसंबन्धेनादृष्टं हेतुरिति तत्र तत्रोक्त सङ्गच्छते । केचित्तु अदृष्टस्य कार्यमा प्रति हेतुता न साक्षात् नहि सामग्रीसमवधाने अदृष्टविलम्बेन कार्यविलम्बो पृष्टः येन तत्साक्षाद्धेतुस्स्यात् । परन्तु सामग्रीसम्पादकतया प्रायः परम्परयैव तदुपयोगः । क्वचिन्मेघसंचारादौ सा. क्षादेव तद्धेतुः अन्यथा सामग्रीसम्पादकत्वस्यैवानुपपत्तेरिति । एतदर्थमेव साक्षात्परम्परासाधारणजन्य- स्वबोधकमधीनपदमुपात्तमित्याहुः । तदसत् अदृष्टस्य क्वचिन्मेघसंचारादौ साक्षादन्यत्र परम्परया हेतु- त्वमित्यत्र प्रमाणाभावात् मेघवायुसंयोगकारणान्तरसत्त्वेऽदृष्टविलम्बेन मेघसंचारविलम्बादर्शनात् । किन्तु साधारणकारणानां ईश्वरतदीयज्ञानेच्छाकृतीनां कालदिशोः प्रागभावस्य च यादृशहेतुत्वं ताह- शहेतुत्वस्यात्रापि वक्तुमुचितत्वात् सकलसामग्रीसमवधाने ईश्वरादिविलम्बेन कार्यविलम्बादर्शनात् तेषामपि सामग्रीसम्पादकतथा हेतुत्वापत्तेः । अधीनपदं तु न साक्षात्परम्परासाधारणजन्यत्वबोधकं किन्तु साधारणजन्यत्वबोधकमेव तस्यासाधकत्वादित्यास्तां विस्तरः ॥ यददृष्टाधीनामेति ॥ यत्पुरुषीयादृष्टा-. धानमित्यर्थः ॥ तदिति ॥ तत्कायमित्यर्थः ॥ तदुपभोगमिति ॥ तत्पुरुषस्योपभोगमित्यर्थः । मञ्जूषा. साक्षात्कार कारणत्वेऽपि घ्राणवस्य तादृशकारणतानवच्छेदकत्वात् न स्वस्वरूपासिद्धिः । एवमन्येऽपि दोषाः परिहृता वेदितव्याः । इदन्तु तत्त्वम् । अनुकूलतकाभावादयं हेतुरप्रयोजकः । नहि गन्ध- दिनकरीयम् टायधिकरणे कपालादौ समवायेन तदभावाद्वयभिचारात् । यनु स्वसमवायि संयोगेनादृष्टं कार्यमाने हेतुरिति तन्न । शब्दरूप कार्याधिकरणे गगनेऽदृष्टसमवाय्यात्मसंयोगाभावेन व्यभिचारात् परन्तु स्वसमवायिसंयुक्तसंयो. गेन तस्य हेतुता बोध्या । इदं तु बोध्यम् । अदृष्टस्य कार्यमा प्रति हेतुता न साक्षात् नहि सामग्रीसमव- धानेऽदृष्टविलम्बेन कार्यविलम्बो दृष्टः येन तस्साक्षाद्धेतुः स्थात् परन्तु सामग्रीसम्पादकतया प्रायः परम्पर- यैव तदुपयोगः ऋचित्तु मेघसञ्चारादौ साक्षादेव तद्धेतुः अन्यथा सामग्रीसम्पादकत्वस्यैवानुपपत्तेरिति एत- दर्थमेव साक्षात्परम्परासाधारणजन्यत्वबोधकमधीनपदमुपात्तम् ॥ यददृष्टाधीनं यत्पुरुषीयादृष्टाधीनं । रामरुद्रीयम्. धीनत्वमइष्टजन्यत्वमेव तञ्च न घटादिरूपकार्यस्य सम्भवतीत्याशङ्कते ॥ अन्नेति ।। व्यभिचारादिति ॥ इदमुपलक्षणं कालिकदिक्कृतविशेषणताभ्यां तथात्वेऽपि तत्रैव व्यभिचारो बोध्यः ॥ बोध्यति ॥ ग. गनेऽप्यात्मसंयुक्तपवनादिसंयोगसत्त्वेन विमुद्यसंयोगानङ्गीकारेऽपि क्षतिविरहादिति भावः । अदृष्टजन्य- मित्युपेक्ष्यादृष्टाधीनमित्युक्तौ फलं वक्तुमुपक्रमते ॥ इदं त्विति ॥ स्यादिति ॥ तदितरयावत्का- रणसत्वे तदभावे कार्याभावरूपव्यतिरेकसहचाराभावादिति भाव: ॥ तदुपयोगः अदृष्टोपयोगः तजनकादृष्टाभावे तत्कारणानामेव जननानुपपत्तेरिति भावः ॥ नत्वेवं कार्यमानेऽदृष्टस्याप्रयोजकत्व- मेवेत्याशङ्कामपाकरोति ॥ क्वचिदिति ॥ आदिनौत्पातिकभूकम्पादिपरिप्रहः ॥ अन्यथा कार्यमा- सं प्रत्येव तस्याकारणत्वे । सामग्रीसम्पत्तिरेका सकलकारणतावच्छेदकावच्छिन्नसम्वन्धः ॥ अनुपपत्तरि- 40