पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली जनाभ्यां विना कस्यचिदुत्पत्तिरस्ति तेन द्वथणुकादिब्रह्माण्डान्तं सर्वमेव विषयो भवति श- रोरेन्द्रिययोर्विषयत्वेऽपि प्रकारान्तरेणोपन्यासः शिष्यबुद्धिवैशद्यार्थः ॥ ३८ ॥ प्रभा. उक्तार्थे न्यायमाह ॥ नहीति । तेनेति ॥ अणुकादिकार्यस्य साक्षात्परम्परया या तत्तत्पुरुषोपभो- गसाधनत्वेनेत्यर्थः । ननु सर्वस्यैव विषयत्वे शरीरेन्द्रियविषयभेदेन त्रैविध्येन विभागः असङ्गतः । पर- स्परबैयधिकरण्यापन्नधौरेच विभागस्य सकलतन्त्रसिद्धत्वात् अत आह ॥ शरीरेन्द्रिययोरिति ॥ विषयत्वेऽपीति ॥ तादृशधर्माणां अयाणां सामानाधिकरण्येऽपीत्यर्थः ॥ भेदेनेति ॥ उक्तधर्मत्र- येणेत्यर्थः ॥ उपन्यास इति ॥ विभाग इत्यर्थः ॥ शिष्यबुद्धीति ॥ शिष्याणामिमानि शरी. राणि इमानीन्द्रियाणि तद्भिन्नाविषया अपि सन्तीति बालबोधनार्थमित्यर्थः । तथाच शरीरेन्द्रियत्वाभ्यां वि. भजने घटादीनां असंग्रहः । अतो ज्ञानावच्छेदकज्ञान कारणान्यविषयत्वेनैव विभजने तात्पर्य मिति तेषां परस्परबैयधिकरण्यानानुपपत्तिरिति भावः ॥ १८ ॥ ॥ इति पृथिवीग्रन्थः समाप्तः ।। मजूपा. साक्षात्कारं प्रति पृथिवीत्वेन कारणता परकीयरूपादिसाक्षात्कार प्रति तेन रूपेण प्रतिबन्धकता किन्तु रूपादिषु पञ्चमु मध्ये यदिन्द्रियं यं गुणं गृह्णाति तदिन्द्रियं तद्गुणयुक्तमिति प्राचीनमाथैवात्र बीजं तादृशगाथानुसरणे हि घ्राणेन गन्धवता भाव्यम् गन्धग्राहकत्वात् गन्धवतश्रावश्यं पृथिवीत्व- मिति पृथिवीत्वसिद्धिः । तादृशगाथा स्वभ्युपगममात्रसिद्धा । अन्यथा रूपादिषु पञ्चसु मध्ये यदिन्द्रियं यं गुणं न गृह्णाति तदिन्द्रियं तद्गुणशून्पमियपि नियममजीकृत्य घ्राणे नीरूपत्वनीरसत्व. योरपि स्वीकारापत्तेः । अतश्च प्राणादीनां पृथिव्यादिभूतजन्यत्वबोधिका श्रुतिरेव मानमिति पर्या- लोचनीयम् ॥ उपभोगेति । अत्र नीलकण्ठः-विषयत्वं न जातिः सामान्यादौ सत्त्वात् तस्तलक्षणमाह उपभोगेति । यद्यपि साक्षाभोगसाधनत्वं धणुकादावव्याप्तं साक्षात्परम्परासाधारण. साधनत्वं परमाणावपीति अणुक दिब्रह्माण्डान्तामति अन्धविरोधः तथापि साक्षात्परम्परासाधरणसाधनत्वं वि. वक्षितमिति परमाणुरपि विषय एवं कार्यरूपपृथिव्या एवं लिप्रकारेण विभजनात् कायपृथिवीविषय एव यणुकेत्यादिना प्रदर्शित इति न तद्वन्धविरोधः अत एवोक्तं तदुपभोग साक्षात्परम्परया वा जनयत्यवेत्याचख्यौ । अन्न परमाणोरपि यदि विषयत्वमाभिप्रेतं स्यात् तर्हि पृथिवी वावच्छि- दिनकरीयम्. तत्तत्कार्यमित्यर्थः ॥ तदुपभोगं तत्पुरुषस्योपभोगसाधनम् । तेन द्वशणुकादिकार्यस्य तत्तत्पुरुषापौगसा- धनत्वन । नम्वेवं सर्वस्यैव विषयत्वेन शरीरेन्द्रियविषयभेदेन पृथिव्यास्त्रैविध्यं न सिद्धयदित्यत आह ॥ शरीरेन्द्रिययोरपीति ॥ ३८ ॥ ॥ इति पृथिवीग्रन्थः ॥ रामरुद्रीयम्. ति ॥ सामग्रीसम्पत्तिरूपकार्यजनकत्वस्यैव सामग्रीसम्पादकतारूपत्वादिति भावः ॥ त्रविध्यं विभाज. कधर्मत्रयवत्त्वम् । परस्परासंकीर्णव्याप्यधर्माणामेव विभाजकत्वादिति भावः । मूले प्रकारान्तरणेत्य. स्य विषयत्वभिन्नदेहत्वादिनेत्यर्थः । उपन्यासः कथनम् । शिष्यबुद्धशयं देहत्वाद्यवान्तरधर्मवि- षयकत्वं तत्प्रयोजकः । यद्यप्यतावता विभागव्याघातो न परिहृतस्तथापि प्रकृते विषयत्वस्य देहेन्द्रि. यातिरिक्तोपभोगसाधनत्वरूपस्य विभाजकतावच्छेदकत्वोपगमेन न विभागानुपपत्तिरिति मन्तव्यम् ॥ ३८ ॥ ॥ इति पृथिवीग्रन्थः ॥ अ-