पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामस्द्रीयसमन्विता । - मञ्जूषा. वस्यैव त्रेधा विभागः कुतो न कृतस्स्यात् । किंच विषयत्वस्य नित्यसाधारणत्वे व्यत्वसत्त्वादेरेव तल्लक्षणत्व संभवेन उपभोगसाधनत्वरूपगुरुलक्षणकरणं तत्सङ्गमनप्रयासश्च वृथा तत्र शरीरस्य विषयस्य चाभावात् इन्द्रियं दर्शयतीति आकाशनिरूपणवक्ष्यमाणमुक्तावळीग्रन्थस्वरसविरोधश्च । शब्दद्वारा उ- पभोगसाधनत्वस्थाकाशेऽपि सत्त्वात् तत्र विषयस्येत्यस्य इन्द्रियभिन्नविषयस्थेत्यर्थकल्पने प्रयासापत्तेः कर्णशष्कुलीरूपोपाधिभेदात् तद्विशिष्टाकाशरूपश्रोने परस्परभेदव्यपदेशोपपादनवत् तादृशोपाध्यनवच्छि- नस्याकाशस्यौपाधिकं भेदव्यपदेशमादाय विषयत्वोपपादनसंभवाच । कालादेः इन्द्रियभिन्नत्वादुपभोग- साधनत्वाच्च विषयत्वसंभवेन आकाशे इन्द्रियत्त्वस्येव कालादौ विषयत्वस्याप्युपपादनीयतया तदनु पपादनेन च ग्रन्थकृतो न्यूनतापतिश्च । मुक्तावळी ग्रन्थस्था लक्षणसङ्घमनरीतिरपि न परमाणुसाधा. रणी । तत्र [पभोगसाधनत्वमदृष्टाधीनत्वप्रयुक्तमित्युच्यते । नच तस्य परमाणौ संभवप्रसक्तिः । य- गुकादिस्तु ब्रह्माण्डान्त इति मूले घणुकादिब्रह्माण्डान्तमिति मुकावळ्यां च पूर्वोत्तरावधिपरिच्छेदश्च फल्गु स्यात् तस्मात् परमाणुव्यावृत्तमेव विषयत्वनाभिप्रेतम् । यद्यपीत्यादिना नीलकण्ठकृताशङ्का तु मूलेनैव परिहृतेति वक्ष्यामः । एतेन विषयत्वं न जाति: सामान्यादौ सत्वादित्यवतरणमप्यनुचित- प्रायम् । सामान्यादेरपि स्वप्रत्यक्षादिद्वारा भोगसाधनत्वात् निर्वाच्यं विषयत्वं सामान्यादिसाधारण- मित्यभिप्रेत्य हीदमवतरणं निर्वाच्यम् । विषयत्वस्य नित्यसाधारण्यनेति च वयमवोचाम । ज्ञाना- दिनिरूपितस्य स्वरूपसंबन्धविशेषात्मकस्य विषयत्वस्येह मूलस्थविषयपदतात्पर्यविषयत्वप्रान्त्या तस्य जातिवं नेत्यु कमवतरणिकायमिति तु न युक्तम् विषयताया विषयस्वरूपत्वपक्षे तस्य प्रतिव्यक्ति- विश्रान्ततया जातित्वशङ्कानवकाशात् अतिरिक्तत्वपक्षेऽपि विषयभेदेन भिन्नतया शकानवकाशात् । अ- तोऽन्यथावतरणीय तथाहि ननु विषयत्वं न जातिः ध्वंससाधारणत्वात् परमाण्वादिव्यात्ततया पृ. थिवीत्वादिना संकराचेत्यत आह उपभोगेति । नन्विह साधनत्वं यदि जनकत्वं तदा घणुकादा- वव्याप्तिः तस्योपभोगकारणत्वाभावात् । नच साक्षात्परम्परासाधारणं कारणत्वमिह लक्षणमिति वाच्य तस्य दुर्निरूपत्वात् । अनन्यथासिद्धनियतपूर्ववृत्तित्वं तदभिव्यङ्ग्यपदार्थान्तररूपं वा साक्षात्कारणत्वं नाम । परम्परया कारणवं तु तत्कारण कारणत्वं तत्कारणकारण प्रति कारणत्वभित्येवं नानाविधं नतु सर्व साधारणं साक्षात्परम्परासाधारणकारणत्वं नाम किंचिदस्ति । नच साक्षात्कारणेपु परम्परया . कारणेघु च प्रयोजकत्वशब्दव्यपदेश्य स्वरूपसंबन्धविशेषोऽहतीति वाच्यम् । तथापि तस्य लक्षणत्वे परमाणावति- व्याप्त्यापत्तेः । किंच यादृशव्यक्तिविशेषाः कस्यचिदुपभोगमजनयित्वैव प्रध्वस्ताः तेष्वव्याप्तिरित्याशङ्का. द्वय कोक्त्या परिहरति ॥ सर्वमेवेत्यादिना ॥ साक्षादिति ॥ कपालसंयोगचक्षुस्संयोगादिवकि- चिद्यापारमनपेक्ष्येत्यर्थः ॥ परम्परथेति ॥ दण्डचकेन्द्रियादिवत् कचियापारमपेक्ष्येत्यर्थः । एत. दुक्तं भवति । अनादी काले विविधैरात्मभिः अनवरतमारभ्यमाणानि सुकृतानि दुष्कृतानि च अ- नन्तान्युत्सर्गतो भोगेकनाश्यानि साक्षादुपभोगं निष्पादायतुमपारयन्ति तत्साँधनीभूतान्विषयानुत्पादय- न्ति । ते च विषयाः स्वस्वजनकाटनाशकारणीभूतान् भोगानवश्यमुत्पादयन्ति । अन्यथा तादृशाह धानां नित्यत्वापत्तेः । तत्रच स्वस्वजनका लक्षश्यातू विषयाणाभुपभोगनिध्पादने भूयान्विशेषः । यथा केचित, स्त्रसंयोगेन केचित् स्वसंयोगप्रश्वंसेन केचित् स्वप्रत्यक्षेण केचित् स्वीयरूपादि- प्रत्यक्षेण केचित् स्वसमवेतद्रव्येण केचित् स्वसमवेतद्रव्य समवेतद्रव्येण केचित् जन्यद्रव्येणेति रीत्या भोगान् जनयन्ति । एवं बहुपुरुषीयबहुविधादृष्टाविशेषजनिता वापीकूपतटाकारा- ममहीधराकूपारादयः केचन विषयाः तत्तइदृष्टपरिपाकदशायां तेषां तेषामुपभोगान् जनयन्ति । ए- वमेकपुरुषीयविविधादृष्टजनिताः तिन्त्रिणीफलकटुमाचीशलाटुसैन्धवमाषा औरकास्सर्षपा इति हुवो विषयाः केचन मिळिता एकस्यैकमेव भोगं जनयन्ति । एवं क्रमेण सर्वेषां विषयाणां भो. स्वनाश--