पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । - दृढया मञ्जूषा. विरुध्येत किंतु कालिकसंबन्ध एव कार्यतावच्छेदव.संबन्धः । नवं कालिकसंबन्धेन कार्याधिकरणे- स्पन्दादौ यथोक्तसंबन्धेनादृष्टस्याभावात् व्यभिचार इति वाच्य कार्यतावच्छेदकावच्छिन्नयत्किंचियत्तय - धिकरणयायद्यक्तिनिष्ठाभावप्रतियोगित्वस्यैव व्यभिचारपदार्थरचेन कार्याधिकरणे महाकाले यथोकसंबन्धे- नाटसत्त्वेन व्यभिचाराप्रसक्तेः । किंतु अन्नत्यनीलकण्ठग्रन्थः कार्यतायाः समचायावच्छिन्नत्वतात्पर्यक एव स्वारसिकः प्रतीयते । अत्र ह्येवं लिखितं वर्तते । कार्यमानं प्रति अदृष्टस्य हेतुता न समवा- यसंबन्धेन घटायधिकरणे कपालादौ समवायेन तदभावात् व्यभिचारात् । यत्तु स्वसमवायि- संयोगसंबन्धेनादृष्टं कार्यमाने हेतुरिति तन्न शब्दरूपकार्याधिकरणे गगनेऽदृष्टसमवाय्यात्मसंयोगाभावेन व्यभिचारात् । परन्तु स्वसमवायि संयुक्तसंयोगसंबन्धेनादृष्टस्य हेतुता बोध्येति अनेन हि संदर्भेण स. मवायस्य कार्यतावच्छेदकत्वं स्फुटमेव प्रतीयते । तत्तु ध्वंसासंग्रहादिदोषात् अग्रिमतद्धन्थविरोधा. च्च हेयमिति अबोचाम । आवश्यकं च ध्वंसस्यादृष्टजन्यत्वं पुत्रपश्चादिनाशस्य तत्तत्कर्मविशेष. जन्यतायाः श्रुतिसिद्ध वात ध्वंसेनापि भोगोत्पादनेन तस्यादृष्टाधीनत्वमन्तरेणानुपपत्तेश्च । स्यादेतत् यदि बीजप्रयोजनाभ्यां विना न कस्यचिदुत्पत्तिस्तदा भोगस्य किं प्रयोजनमिति वक्तव्यम् उच्यते सुखदुःखसाक्षात्कारो हि भोगः । सच सुखदुःखवासनां जनयति पूर्वोत्पन्नां वा द्रढ़यति च वासनया स्मरन् सुखान्यभिलष्यति दुःखानि च विद्वेष्टि ततः प्रवर्तते ततस्सुखं दुःखं बानुभ- वतीत्यस्ति भोगस्यापि भोगसाधनत्वम् । इदन्तु बोध्यम् । कार्यमात्रस्य न भोगनयोजनकत्वसंभवः । तथाहि अपवर्गपूर्वभाविनो भोगस्य न भोगान्तरं प्रयोजनं किंतु स्वजनकप्रारब्धनाशद्वाराऽपवर्ग एव प्रयोजनं अहटनाशस्य तत्कार्यभोगाभावः प्रयोजनं कारणाभावस्य कार्याभावप्रयोजकत्वात् । एवभिदानी- न्तनानां भोगनाशानामुद्बोधकविधया सुखदुःखसाक्षात्कारकत्वेन भोगसाधनत्वसंभवेऽपि अपवर्गपूर्वभावि- भोगनाशस्य न भोगः प्रयोजनं किन्तु विशेषाभावकूटस्य सामान्याभावप्रयोजकतया ताशकूट घटकत्वेन तन्नाशस्य भोगसामान्याभावप्रयोजकत्वमेव । तन्नाशे च तद्भोगजनकादृष्टमेव कारणं नत्वदृष्टान्तरं माना. भावात् । महाप्रळयस्य च भोगसामान्याभाव एव प्रयोजनं कारणाभावस्य कार्याभावप्रयोजनकत्वात् । म- हाप्रळयो हि चरमादृष्टनाशश्वरमशरीरादिनाशो वा चरमपरमाणुन सरेणुसंयोगनाशो वेत्यादि स्वयमूहनीयम् । तत्र चरमशरीरादिनाशे तच्छरिजनकादृष्टमेव कारणं तद दृष्टनाशश्च तच्छरीरादिनाशात् प्राग्वा स्यादुत्तरकाले वा नत्रात्र प्रथमपक्षे तच्छरीरादिनाशं प्रति तददृष्टस्य कारणत्वानुपपत्तिरव्यवहितपूर्ववृत्तित्वाभावादिति वाच्यं पूर्ववृत्तित्वमात्रेणापि कारणत्वनिर्वाहादित्यास्तां विस्तरः । ननु बजिप्रयोजनाभ्याभिलत्र प्रयोजनप. दस्य नानाविध योजनपरत्वे उपभोगसाधनत्वरूपलक्षणस्य सर्वत्र सामने उपष्टम्भकतया तादृशन्यायोत्की. तनं विरुध्यत इति चेन्न अपवर्गप्राग्भाविभोगादिस्थलविशेषेषु कतिपयध्वगत्या भोगातिरिकप्रयोजनस्य ताह- शन्यायाभिप्रेतत्वेऽपि जन्यद्रव्याणां सर्वेषां भोगप्रयोजनकताया एव तदभिप्रेतत्वात् । एवं चोपभोगसाधन- त्वरूपं लक्षणं सकलजन्यद्व्यसाधारणं नित्यन्यावृत्तं चेति सर्व समञ्जसम् । ये तु शरीरेन्द्रियभिन्नत्वमेव विषयलक्षणमाचक्षते ते विषयत्वं नित्यसाधारणमेवाभिप्रयन्ति इति बोध्यम् ॥ भेदेनोपन्यास इति ॥ विषयत्वातिरिकत्वेन शरीरत्वेन इन्द्रियत्वेन चौपन्यास इत्यर्थः । प्रकारान्तरेणोपन्यास इति पाटेऽपि अयमे. नार्थः। तथाच प्रमाणस्य अमेयत्वेऽपि यथा प्रमेयत्वातिरिक्तन प्रमाणत्वेनोपन्यासः प्रमाणप्रमेयेति सूत्रे कृत. स्तथेहापाति नच विषयत्वस्य शरीरत्वेन्द्रियत्वसमानाधिकरणत्वादनित्यपूर्थिवविभा जकत्वं संभवतीति वाच्यं समानाधिकरणधर्माणामपि कचिद्विभाजकत्वस्वीकारात् । केचित्तु शारीरोन्द्रियभिन्नत्वविशिष्टविषयत्वमिह विभाजकमतो नोक्तदोषः भेदेनोपन्यास द्यस्य बारीरीन्द्रियमिक भत्वविशिष्टविषयत्वेन रूपेण विभाग इत्यर्थः देहमिन्द्रियं विषयस्तथेति मूलेअपि देहमिन्द्रियं तथा शरोरेन्द्रियमिनो विषयश्चेति निधेत्यर्थ इत्याहुः ॥ ३८ इति मञ्जूषायां पृथिवीमन्था भावः न ॥ II