पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली वर्णः शुक्लो रसस्पशी जले मधुरशीतलौ । जलं निरूपयति ।। वर्णः शुक्ल इति ॥ स्नेहसमवायिकारणतावच्छेदकतया जलत्वजाति- सिद्धिः । यद्यपि स्नेहत्वं नित्यानित्यवृत्तितया न कार्यतावच्छेदकं तथापि जन्यस्नेहत्वं तथा बोध्यम् । अथ परमाणो जलत्वं न स्यात् तत्र जन्यस्नेहाभावात् तस्य च नित्यस्य स्वरूप- 1 प्रभा. शुक्लरूपवत्वादिलक्षणलक्ष्यतावच्छेदकजलवजाताबादौ प्रमाणमाह ।। स्नेहेति ॥ कारणतावच्छेदक- तया सिद्धधर्मस्य व्यत्येक्यादिरूप जातिबाधकाभावात् जातिरूपत्वमिति भावः ॥ नित्यानित्य. वृत्तितयति ॥ यद्यपि स्नेहत्वस्यातिप्रसक्तत्वोपपादनाय नित्यवृत्तितयेत्येव वक्तमुचितं तथापि तस्य कार्यतावैयधिकरण्यप्रयुक्तावच्छेदकत्वाभावाशङ्कानिराकरणायानित्य वृत्तित्वोपपादनमिति ध्येयम् ॥ जन्य- स्नेहत्वमिति ॥ जन्यस्नेहमात्रवृत्ति जात्यमित्यर्थः ॥ तेन न चिनिगमनाविरहप्रयुक्तदोषप्रसंक्तिः ॥ तथेति ॥ कार्यतावच्छेदकमित्यर्थः । तथाच जन्यस्नेहं प्रति जन्यजलस्य समवायिकारणतया ता- दृशकार्यतावच्छेदकतया जन्यस्नेहे पु वैजायं सिध्यतीति भावः ॥ तत्रेति ॥ जलपरमाणावित्यर्थः ॥ जन्यस्नेहाभाधादिति ॥ तथाच ताशकारणतावच्छेदकतया सिद्धजलत्वस्य तादृशकारणताशून्यप- रमाणुवृत्तित्वे मानामावादिति भावः । बाधकमध्याह । नित्यस्येति । केचित्तु नित्यसाधा. मजूषा- स्नेहसमवायिकारणतावच्छेदकतयति || अत्र जलीयशुक्लरूपे पृथिवी शुक्लरूपव्यावृत्तजा. तिविशेषः तन्मधुररसे पृथिवीर सध्यावृतजातिविशेपश्च नास्मदभिमत इति ज्ञापयति विश्वनाथः अ- न्यथा विभागक्रमेण वर्णः शुक्ल इत्यादिप्रकृतमूलकमेण च रूपरसयोः प्रथममुपस्थितत्वादुक्तवैजा- त्यावच्छिन्नरूपरससमवायिकारणतावच्छेदकतया जलवजातिसिद्धयभिधानोपेक्षाया निर्वाजत्वापत्तरिति केचन मन्यन्ते । तन्मन्दं तावतापि शीतस्पर्शसमवायिकारणतावच्छेदकतथा तत्सिद्धयभिधानोपेक्षाया निर्वाजतापत्तेर्दुवारत्वात् । ननु शीतस्पर्शसमवायिकारणतावच्छेदकतया तसिद्धिर्जले शीतस्पर्शव्यवस्था- पनदशायामभिधास्यत एवातो न दोषः जले शुक्लरूपमधुररसवस्थापनदशायामपि तयजात्यावच्छि. दिनकरीयम्. जलत्वजाती प्रमाणमाह ॥ स्नेहेति ॥ कारणतावच्छेदकतया धर्मसिद्धौ बाधकामावात्तस्य जातित्व- मिति भावः । नित्यत्तिधर्मस्य कार्यतावच्छेदकत्वाभावेन स्नेहत्वस्य कार्यतावच्छेदकत्वं न स. म्भवतीति शङ्कते ॥ यद्यपीति ॥ तथा कार्यतावच्छेदकम् । वस्तुतस्तु नित्यसाधारणधर्मस्य का- यतावच्छेदकत्वे दोषाभावात् जन्यपदं न देयमेव । ननु यथाऽरण्यस्थदण्डादौ फलानुपधायके कारणतावच्छे- दकतया दण्डत्वादिजातिस्तथानापि भविष्यतीत्यत आह ॥ तस्येति ॥ दण्डादेः स्वरूप योग्यता. रामरुदीयम. ननु स्नेहजनकतावच्छेदकतया जलत्कसिद्धावपि न तस्य जातित्वसिद्धिः शब्दादिकारणतायो कारणतात्वस्य जात्यवच्छिन्नत्वव्याभिचारित्वेन तेन हेतुना जलत्वजात्यवच्छिन्नत्वस्य साधनासम्भवादि- याशङ्कायामाह ॥ वाधकामावादिति ॥ जातित्व इति शेषः । ब्यक्त्यभेदादिरूपजातिबाधकवि रहादित्यर्थः । जातित्वमित्लस्याने लाघवादिति शेषः । एतेन कारणतावच्छेदकीभूतं जलत्वं शीत. स्पर्शवत्वमेव न जातिः पदार्थान्तरकल्पने गौरवादिति प्रत्युक्तम् । शीतत्वरूपजातिविशिष्टानामनेके. षो कारणतावच्छेदकत्वे गौरवाल्लाघवेन शुद्धजलत्वजरतेरेव कारणतांबच्छेदकत्वौचित्लादिति ध्येयम् ॥ दोषाभावादिति || कालविशेषावच्छेदेन खावच्छिन्नाधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकालवध- मवत्त्वरूपकार्यतायाः स्नेहत्वेऽनतिप्रसक्तत्वसम्भवादिति भावः ॥ अत्रापीति ॥ स्नेहानुपधायक- परमाणावपीलर्थः ॥ तथाऽत्रापि भविष्यतीति ॥ कारणतावच्छेदकजलत्ववत्ता निराबाधा भवित