पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० कारिकावली योग्यत्वे फलावश्यम्भावनियमादिति चेन्न । जन्यस्नेहजनकतावच्छेदिकाया जन्यजलत्वजा. ते सिद्धौ तदवाच्छिन्नजनकतावच्छेदकत्तया जलत्वजातिसिद्धिः । शुक्लरूपमेव जलस्येति दर्श- प्रभा. रणधर्मस्य कार्यतावच्छेदकत्वे दोषाभावाजन्यपदं न देयामित्याहुः तदसत् तादृशधर्मस्यापि कार्य तावच्छेदकत्वे पदार्थसमवाग्यिकारणतावच्छेदकतया द्रव्यत्वजातिसिद्धिमनुक्त्वा कार्यसमवायिकारणताव. च्छेदकतया द्रव्यत्व जातिसाधनस्य निर्वाजत्वापत्तेः संख्यापरिमाणसमवायिकारणतावच्छेदकतया तत्सि- द्धिमुपेक्ष्य संयोगादिसमवायिकारणतावच्छेदक नया तसिद्धिप्रतिपादकमूलविरोधापत्तेः जलनिष्ठतादात्म्यसं. बन्धावच्छिन्न कारणतानिरूपितसमवायसंबन्धावच्छिन्नजलनिष्टकार्यतावच्छेदकतया सिद्धजलत्वजातेः पर- माणुसाधारण्यसंभवेनैतादृशप्रयासवैफल्यापत्तश्च किंच घटत्वस्येव पृथिवीत्वज्ञातेरपि दण्डकार्यतावच्छेदक- स्वापत्तरिति ॥ जन्यजलत्यजातेरिति ॥ जन्यजलमात्रात्तवैजात्यस्येत्यर्थः ॥ तदवच्छिन्नेति ॥ तादृशवै जात्यावच्छिन्नेत्यर्थः । नचैवं तादृशवैजाल्यावच्छिन्नजनकताशुन्यजलान्त्यावयविनि जलत्वं न स्यादिति वाच्यं तादृशजनकतावच्छेदकतया सिद्धजलवजातजलान्त्यावविवृत्तित्वस्वीकारात् अन्या- वयविनोऽनित्यत्वेन तत्र नित्यस्येत्यादिव्याप्तेरनवतारात् । केचित्तु जलान्त्यावयविनि जलत्वं न स्या- दिल्याक्षेपस्य जलस्यान्त्यावयवित्वानङ्गीकारादिति परिहारमाहुः । तदसत् जलस्यान्यावयवित्वानङ्गीकारे शरीरलक्षणस्य जलीयशरोरेऽव्याप्स्यापत्तः । यत्तु ईदृशवैजात्यावच्छिन्नसमवायिकारणतावच्छेदकतथा मञ्जूषा. जन्यजलोत्पादानुरोधेन परमाणों जलत्वजातिस्वीकारावश्यकतया प्रमाणाभावनिवन्धनदर्शितनियमस्य तत्रा. प्रसरात् तथापि जलत्वावच्छिन्नजन्यतावच्छेदकतया जन्यजलत्वजातिस्वीकारावस्यकत्वेऽनतिप्रसक्तत्वात्त- स्यैव जन्यस्नेहसमवायिकारणतावच्छेदकत्वमुचितं व्याप्यरूपेण कारणत्वे संभवति व्यापकरूपेणान्यथासि. द्धत्वादित्याशयेन समाधते ॥ जन्यस्नेहति ॥ अत्र नित्यवृत्तिधर्मस्य कार्यतावच्छेदकत्वानङ्गीकारपक्ष एव जन्यजलवजातिस्वीकारः । अन्यथा तु जलत्यजतिरेव जलत्वात्रच्छिन्नजन्यतावच्छेदकत्वं वक्तमुचितमिति तत्पक्ष जलवजातिरेव नेहसमवायिकारणतावच्छा देका । अत एवाग्रेजन्यशीतस्पर्शजनकतावच्छदकं जलत्वं जन्यजलत्वं चा बोध्यमित्यादी जलत्वस्यापि शीतस्पर्शसमवायिकारणतावच्छेदकत्वमभिधास्यते । सां- दिनकरीयम्. यां न कापि क्षति : तस्यानित्यत्वेन फलोपधायकत्वाभावादिति भावः ॥ जन्यजलत्वजातेः जन्य- जलमात्रवृत्तिजातेः ॥ तवच्छिन्नेति ॥ जन्यजलत्व जात्यवच्छिनेत्यर्थः । नचैवं जलान्त्यावयवि- नि जलत्वं न स्यादिति वाच्यम् । जलस्यान्त्यावयवित्वानुपगमात् । ननु जलत्वावच्छिन्नं प्रति स. मवायसम्बन्धेन स्नेहस्यैव कारणत्वमस्तु अतिरिक्तजातिकल्पना क्षया लाघवादिति चेन । जलत्वाव. च्छिन्नं प्रति स्नेहत्वेन कारणत्वं शीतस्पर्शत्वेन वेत्यत्र विनिगमनाविरहेणातिरिक्तजातिसिद्धेः क्रप्तमादा- य कल्पनीयेन विनिगमनाविरहाभावादिति । केचित्तु धूमादिकं प्रत्याइँन्धनादेः कारणत्वं निर्विवादं रामरुद्रीयम्. ध्यतीत्यर्थः । ननु जन्यजलत्वं जन्य त्वविशिष्टजलत्वं विशिष्टश्च न जातिरित्यत आह ॥ जन्य- जलमात्रेति ॥ जलान्यावयविनि जलान्तरजननायोग्यजलाचयविनि ॥ न स्यादिति ॥ तादृश- जले जनकतावच्छेदकजातिस्वीकारे तस्यायोग्यतैत्र न स्यादिति भावः ॥ अनुपगमादिति ॥ जलमान एव जलान्तरसंयोगेन बृहज्जलजननयोग्यतासत्त्वादिति भावः ॥ जातिसिद्धेरिति ॥ ननु जलत्वस्यापि ताभ्यां विनियमनाविरह इत्यत आह ॥ क्लप्तमिति ॥ विनिगमनाविरहाभा. वादिति ॥ कल्पनीयस्य हि कारणतावच्छेदकत्वं धर्मिप्राहकप्रमाणसिद्धं क्लुप्तस्य तु न तथात्व- मिति विनिगमकस्यैव सत्त्वादिति भावः ॥ निर्विवादमिति ॥ अन्वयव्यतिरेकाभ्यामित्यादिः ॥