पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामभद्रीयसमन्विता। प्रभा. सिद्धजलवजातेः जलान्त्यावयष्यवृत्तित्वेऽपि न क्षतिः स्नेहसमवायिकारणतावस्छेदकतया सिद्धज- लत्वमादायैव जलान्यावयविनि जलत्वव्यवहारसंभवादिति तन तथा सति स्नेहसमवायिकारणताव. उछेदकतया सिद्धजलत्वजातेः वैजास्यावछिनसमवायिकारणतावच्छेदकतया सिद्धजलत्वजातश्च ध्यणुका- दौ समावेशेन साङ्कर्यापत्त्या उभयोर्जातित्वानुपपत्तेः । परेतु धूमादिकं प्रत्याद्रेन्धनादेः हेतुत्वं नि- विवादं आईत्वं च जलसंयुक्तत्वं जलसंयुक्वेन्धनत्वेनेन्धनसंयुक्तजलत्वेन वा कारणतेत्यत्र विनिगम.. मजूषा. सिद्धिकद्रवत्वं जातिविशेषः प्रत्यक्षसिद्धः तदवच्छिन्नजनकतावच्छेदकपि तदेवेति च एवं तेजस्वा- दिसाधनग्रन्था अपि फलानुपधायकनित्यसाधारणधर्मस्यापि कारणतावच्छेदकस्वपक्षमादायाप्यो दृश्यन्त इति बोध्यम् । स्यादेतत् जन्यस्लेहजनकतावच्छेदकीभूतजन्यजलवावच्छिन्नजनकतावच्छेदकतया जलव- जातिस्वीकारपक्षे जलान्त्यावयविनि जलत्वजातिासद्धिन स्यात् तत्र जलाकार प्रत्यक्षस्य जन्यजल- स्वजात्यालम्बनतयैव निर्वाहादिति चेदन नीलकण्ठः जलस्यान्यावयध्यनभ्युपगमादिाते समादधौ । तदपरे न क्षमन्ते .. जलस्यान्त्यावयव्यभ्युपगमाभावे जलशरीरेऽन्त्यावयवित्वघटितशरीरलक्षणस्याव्या- तिप्रसक्तिरिति । अत्र नीलकण्ठानुसारिणः जलस्यान्यावयन्यनभ्युपगमादिति नीलकण्ठग्रन्थस्य जलार• म्भस्वरूपायोग्यजलानुपगमादित्यर्थः नतु जलानुपधायकजलानुपगमादिति दैवाजलान्तरसंयोगाभावे ज- लानुपधायकविषयजलस्य दुरपह्नवत्वात् । एवंच जलीयशरीरमापे जलीयशरीरान्तरेण विलक्षणसंयो- गे महाशरीरमारभत एव । ततश्च यत्र विलक्षणसंयोमापन्नाभ्यां जलीयशरीराभ्यां शरीरान्तरमार- भ्यते तत्र पूर्वशरीरयोरवयवत्वात् शरारलक्षणे न तयोर्लक्ष्यत्वं येन तु शरीरेण दैवान शरीरान्तर. मारब्धं तदेव शरीरलक्षणलक्ष्यं शरीरलक्षणघटकमन्त्यावयवित्वं न द्रव्यारम्भस्वरूपायोग्यत्वं किन्तु द्रव्यसमवायिभिन्नत्वमात्रम् । अतो न तम्य तत्राव्याप्तिः । एवं चारम्भकसंयोगरूपकारणास. निधानेन जन्यजलानारम्भेऽपि जन्यजलत्वावच्छिन्नजनकतावच्छेदकजातिस्वीकारो जलशरीरे आवश्यक एवारण्यस्थदण्डे घटजनकतावच्छे दकजातिस्वीकारवदित्याहुः । वस्तुतस्तु जलशरीरे जन्यजलजनकताव. च्छेदकजात्यस्वीकारे परमाणुसाधारण्यास्तस्याः जन्यस्नेहजनकतावच्छेदकजन्यजलत्वजातेश्च मिथस्साङ्काप- त्तिरिति तत्र तत्स्वीकार आवश्यक एवेति ध्येयम् । अत्र नीलकण्टेन केचिदित्यारभ्य धूमादिकं प्रत्यार्देन्धनादेः कारणत्वं निर्विवादं आर्द्रत्वं च जलसंयुक्तत्वं तथाच जलसंयुक्तेन्धनत्वेनेन्धनसंयुक्त- जलत्वेन वा कारणतेत्यत्र विनिगमनाविरहात् जलत्वेन्धनत्वयोः पार्थक्येन कारणतावच्छेदकतया लत्वजातिसिद्धिरित्याहुरिति लिखितम् । अत्र विनिगमनाविरहोपन्यासो निरर्थकः जलसंयुक्तन्धनत्वेन कारणत्वेऽपि कारणतावच्छेदकघटकतया जलत्वसिद्धेर्निष्प्रत्यूहत्त्वात् । नवा पृथक्कारणत्वसंभवः व. हो पृथग्देशावच्छेदेन दग्धेन्धनस्य जलस्य च संयोगेऽपि धूमानुत्पादात् बहिरवयवावच्छेदेन जल- सिक्तस्य दग्धेन्धनरूपेङ्गालस्य वह्नौ प्रक्षेपेऽपि धूमानुदयाच्च । किन्त्वन्तरवयवावच्छेदेन जलसंयुक्तेन्धन- स्वेनैव कारणता वाच्या । तन चान्तरवयवावच्छेदेनेन्धनसंयुक्तजलत्वेन कारणता विनिगमनाविरहावारैव । कित्वेतादृशकारणतावच्छेदकतयैव यदि जलत्वजातिसिद्धिरिष्यते तदा तस्याः परमाणुद्यणुकसाधारण्य दुर्घटं परमाणुध्यणुकात्मकजलसंयुक्तन्धनेन धूमोत्पादविरहेण महाजलसंयुक्तेन्धनस्यैव कारणताया वाच्य- स्वादित्यवसेयम् । मूले वर्णः शुक्ल इत्यादिना जलस्य रूपरसस्पर्शः पृथिव्यादिभ्यो चैलक्षण्येमवाभिप्रे- तं नतु लक्षणं अतो नातिव्याप्तिशङ्कावकाशः । यद्यपि शीतस्पर्शमात्रस्यानतिप्रसक्ततया लक्षणत्वभु- चितं तथापि स्वरूपाख्यानमात्रपररसशब्देन सह पाठात् शीतस्पर्शप्रतिपादनमपि स्वरसतः स्वरूपाख्यान- परमात्रमेवोचितम् । यदि चैतेषां लक्षणत्वमप्यावश्यकमित्यभिनिवेशः तदा रूपरसयोः परिष्कार आ- दरणीयः शीतस्पर्शस्य तु यथाश्रुत एव लक्षणत्वं निर्वहतीत्याशयेनाह ॥ मुक्तावळ्यां शुक्करूपमे- 41