पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मऊजूषा-दिनकरीय-रामरुद्रीयसमन्विता ३२७ रूपनागौरवात् । पृथिवीत्वस्याम्लादिजनकतावच्छेदकत्याच जले नाम्लादिकम् । जम्बीररसादी प्रभा. कीवृत्तिन्वकल्पने तादृशरसं प्रति जलोम सयोगस्य हेतुत्वकल्पनेऽवयवरसाजन्यपृथिवीरसस्याग्निसंयोगजन्य- स्वामात नियमस्य व्यभिचारणतादृशानियमं परित्यज्यावयवरसाजन्यपृथिवीरसस्याग्निसंयोगजन्यत्वजलाम- संग्रागजन्यत्वान्यतरवावामात नियमान्तरकल्पने च गौरवामति भावः । ननु जम्बीरजलादौ सर्वत्र आम्ल. रसस्य अनुभूयमानत्वात् जले आम्लरसोऽपि स्वीक्रियतामित्यत आह ॥ पृथिवीत्वस्येति ॥ आम्लादीति ॥ आदिना लवणाादेपारग्रहः । तथाच कारणतावच्छेदकपृथिवीत्वशून्यत्वात् जले आम्ला. युत्पत्तिन संभवतोति भावः । ननु पृथिवरत्वे मधुररसजनकतावच्छेदकत्वस्यापि सत्त्वात् तादृशपृथिवी- स्वशून्यतया जले मधुररसोऽपि न स्वीकार्यः । नच पृथिवावस्येव जलत्वस्यापि मधुररसजनकतावच्छे. दकतया तादृशधर्मवत्त्वेन जले मधुररसोत्पत्ती बाधकाभाव इति वाच्यं तथा सति जम्बीरजलादावम्लोपल. धेः जलवे आम्लजनकतावच्छेदकत्वस्यापि सत्त्वेन तादृशधर्मवत्त्वेन जलेइप्याम्लोत्पत्त्यापत्तरित्याशङ्का जले मजूषा. अनादारव स्मयमाणारोपजनकत्वं नैतावता पार्थिवरेणूनां कृष्णारुणादिवर्णानां जलविलोडितानां काया. दिगोचारानुभूयमानारोपजनकतां बयमपलपामः । अथैवं वियति विक्षिप्त कलुषे वारिणि कुतो न कार्यारुण्या- दिकं प्रतीयत इति चेत्प्रतीयत एवातिकलुषे किन्तु धावल्यमपि प्रतीयते जलसमवेतधावल्यप्र. तीतिप्रतिबन्धकस्याश्रयस्याभावादिति दिक् । ईषत्कलुषे वियति विक्षिप्त काष्ाद्यप्रतीत्तिस्तु प्रतिबन्धकव- शात् प्रतिबन्धकंश्च वियद्विक्षेप इत्यायूद्दनीयम् । एवं क्वचित् कृष्णभूमिप्रवाहिनि जले आश्रयदे- शनीलिमोपलब्धिमपि न वयं वारयामः । तत्र च यद्याथ्रयनीलिमा समवायेन जले भासते त- दा भ्रमः यदि स्वसमवायसंयोगेन तदा प्रमेत्यवगन्तव्यम् ॥ तस्याश्रयोपाधिक्रत्वादिति ॥ तादृशजलानुषकंषु नारिकेळमागेषु यो रसस्स एव अले प्रतीगत इत्यर्थः ।। कल्पनागौरवादिति ॥ पतचापादतः । तथाहि किमत्र कल्पनागौरवम् । नच पार्थिवरसं प्रत्यवयवरसस्य तेजस्संयोगस्य च कारणत्वं कृप्तं जलसंयोगस्यापूर्वकारणत्वकल्पने गौरवामिति वाच्यं सर्वत्र जलेऽनुद्भूतस्पर्शवतस्त- जसस्सत्त्वेन तत्संयोगेनैव तत्र हरीतक्यवयवेषु रसान्तरोत्पत्तिस्वीकारणापूर्वकारणताया मयाप्यकल्पना- त् । अत एव जलक्षिप्तेऽनादौ पर्युषिते रसान्तरमुपलभामहे । अत एव च मुक्कावळ्यां नच हरी- दिनकरीयम्. ररसस्य च कल्पने गौरवादिति भावः । नन्वस्तु जलें मधुरो रसस्तथापि जम्बीरजलादौ प्रत्य- क्षसिद्धस्याम्लरसस्यापि स्वीकारे बाधकाभाव इत्यत आह ॥ पृथिवीत्वस्येति ॥ आम्लादिजन- कतावच्छेदकत्वादिति यद्यपि पृथिवीत्वस्याम्लादेनकतावच्छेदकतावन्मधुरजनकत्ताव- च्छेदकत्वमप्यस्तीति तुल्यं तथापि हरीतक्यादिभक्षणोत्तरं जलेऽपि मधुरोपलब्धस्तत्र मधुरस्वीकारस्याच- श्यकत्वाजलत्वेनापि मधुरं प्रति हेतुत्वं कल्प्यत इति भावः । ननु जम्बीरसलिलादावाम्लप्रत्यक्षात जलत्वेनाम्लादिरसेऽपि तुल्यवद्धतुत्वं स्यादत आह ॥ जम्बीररसादाविति ॥ स्वसमवायिसंयो- रामरुद्रीयम्. मनुचितं तथापि प्रतिवादिना मन्मते कार्यकारणभावस्यैकस्याधिक्यं त्वन्मते जले मधुररसकल्पनस्था- नीयामति याच्यते तदा जलेऽस्माकं तत्कल्एनं भवतो हरीतक्यां मधुररसकल्पनस्थानीय कार्यकारण- भावकल्पनं त्वन्मतेऽधिकमेवेति सूचायतुं तत्कीर्तनमिति ध्येयम् । अम्लजनकतावच्छेदकपृथिवीत्वस्य जलेऽभावान्नाम्लादिमत्त्वं जलस्येति मूलोक्तं न सङ्गच्छते शर्करादौ मधुररसजनकतावच्छेदकत्वेनापि पृथिवीत्वस्य क्लुप्ततया तदभावाजले मधुररसस्याभावप्रसङ्गादित्याशङ्कते ॥ यद्यपीति ॥ तत्र हरीत- क्यां अशक्यतयेत्यस्यानुभवानुरोधेनेत्यादिः । जलत्वस्येत्यस्य पृथिवीत्वेनैवेत्यादिः । ननु जम्बीर-