पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता। ३२९ नव 1 1 स्वाश्रयोपाधिकी तथा प्रतीतिः । एवं जन्यशीतस्पर्शजनकतावच्छेदकं जन्यजलत्वं तदव- प्रभा. अम्लोपलब्धेः भ्रमत्वोपपादनेन परिहरति ॥ जम्बीरेति ॥ आश्रयौपाधिकीति ॥ स्वसमवायिसंयोगेन जम्बारसमवेतरसविषयिणीत्यर्थः ॥ तथा प्रतीतिरिति । जम्बीरजलमम्लमिति प्रतीतिरित्यर्थः । तथाच शुष्कजम्बारेऽपि अम्लरमोपलव्धस्तत्राम्लरसाङ्गीकारस्यावश्यकतया अम्लं जलमिति प्रतीते: परम्परया अ- लिविषयकत्व स्वीक्रियते हरीतक्यां तु मधुररसस्यानुपलम्भात् मधुरं जलामिति प्रतीतेः परम्परासं- बन्धेन आश्रयगतमधुरविषयकावं न संभवतीति जले माधुर्यसिद्धिः निष्प्रत्यूहेति भार: कर्कटीभक्षणोत्तरं जलपाने तिकरसोपलब्धस्तत्र तिक्तरसोऽप्यस्त्विति वाच्यम् । जलपानात्पूर्वमपि कर्कटयां तिकरसानुभवात् कर्कटीभक्षणं विना जलपाने तिक्तरसस्याननुभवात् कर्कटीसमवेततिक्तर- सो जलपानोत्तरमपि प्रतीयत इत्यभ्युपगमात् हरीतक्यां हरीतक्यवयवेघु वा वर्तमानमधुररसत्य व्यञ्जको जलसंयोग इतं मतं तु हेयमेव अवयविन्यवयवेषु वा कषायरसवत् मधुररसवत्वे प्रमाणाभावात् । तस्मानिदाघपीतशोतलवाहिगङ्गाजलमाधुर्यस्यानुभवसिद्धस्यापलपितुमशक्यतया जले मधुर एव रस इति सिद्धम् । जलवंजाती प्रमाणान्तरमाह ॥ एवमिति ॥ ननु वृष्टचन्दनादौ शैत्योपलब्धिवशात्तत्र मञ्जूषा. तक्यवयवेषु कषायरस: किं तव कदापि न नश्यति तथा सत्ति नित्यत्वापत्तः किंवाश्रयनाशादग्रे यदाकदाचित्रतीति त्वमङ्गीकरोषि वयं विदानीमेव नश्यतीत्यतीकुर्मः । न तत्रास्माकं गौरव एवं मधुररसरासनमपि तदानीमुभयसिद्धं तच्च जलरसमवगाहृता हरीतक्यवयबरसं वा कोऽनयोर्वि- दिनकरीयम् गेन जम्बीरगताम्लरसप्रतीतिस्तद्गतजल इत्यर्थः । शुष्केऽपि जम्बीरे आम्लनतांतस्तत्राम्लरसस्यावश्यक- व तस्यैव तद्गतजले परम्परया प्रतीतिः हरीतक्यां तु मधुररसाभावान • हरीतकीगतमाधुर्यस्य 'मले प्रतीतिरिति भावः । कर्कटीभक्षणोत्तरं जलपाने तिक्तरसस्यानुभवात्तिकरसोऽपि जले स्यादिति तु न जलपानात्पूर्वम्मपि कर्कच्या तिक्तरसोपलब्धेः कर्कटीभक्षणोत्तरं. रसनाप्रवर्तिपित्तक्षोभे तदीय- तिकोपलब्धेवैद्यकसिद्धत्वाच्च । वस्तुतो निदाघपीतनिर्मलगङ्गाजलमाधुर्यस्यानुभवसिद्धस्थापलापासम्भवान्म- धुर एवेति युक्तम् । एतेन हरीतक्यादौ न जलसंयोगेन माधुर्यमुत्पद्यते येन कल्पनागौरवम् ।' परन्तु हरीतक्या कषायवन्मधुररसोऽपि स्वीक्रियते तञ्जकश्च जलसंयोगः न तु तद्गतरसान्तरस्य फलबलात् । यदि च चित्ररूपवचित्ररसे मानाभावात् गुणविरोधेन नीरसैव हरीतकी रसप्रतीति- स्तु अवयवेषु रससत्त्वात्परम्परयेत्युच्यते तदाऽस्तु जलसंयोगो हरीतक्यवयवगतमाधुर्यस्यैव व्यञक इ. सपास्तम् । जलत्वजातावनुमानान्तरं प्रमाणमाह ॥ एवमिति ॥ ननु जलत्वाभावेऽपि पृष्टचन्दनादौ रामरुद्रीयम्. गतरसस्य जले भानं जलगतरसस्य जम्बीरे भानं वेत्यत्र विनिगमकं दुर्लभमित्याशकायामाह । शुष्क - पीति ॥ नन्वेवं हरीतकीगतमधुररसस्यैव जलेऽपि परम्परया भानखीकारेणैवोपपत्ती जले मधुरों रसोऽपि न स्यादित्यत आह ॥ हरीतक्यामिति ॥ तद्वयञ्जकश्चेति ॥ हरीतकीमधुररसव्य- अकस्त्वित्यर्थः । रसान्तरस्य कषायरसस्य ॥ फलबलात् तत्प्रत्यक्षरूपकार्यबलादित्यर्थः ॥ माना- भावादिति ॥ चित्ररसस्य प्रामाणिकत्वे तत्र चित्ररूप इवावयवगतनानारसानां हेतुत्वसम्मवेऽपि नीरसद्रव्यप्रत्यक्षे बाधकाभावेन चित्ररूपवचित्ररसानङ्गीकारे क्षतिबिरहान्नानारसावयवकद्रव्ये परस्परविरो- धेन कस्यापि रसस्थानुत्पत्त्या नीरसैव हरीतकीति समुदायार्थः । न चैवं हरीतकीभक्षणे तस्यापि रखस्य प्रत्यक्षं न स्यादनुभूयते च कषायरसप्रत्यक्षमत आह् ॥ रसप्रतीतिस्त्विति ॥ परम्प- रया स्वाश्रयसमवेत्तत्वसम्बन्धेन ॥ अपास्तमिति ॥ गङ्गाजले माधुर्यस्य प्रत्यक्षसिद्धत्वादिति 42 -