पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली किछन्नजनकतावच्छेदकं जलत्वं बोध्यम् । घृष्टचन्दनादौ तु शैत्योपलब्धिश्चन्दनान्तर्वतिशी- ततरसलिलस्यैव । तेज:संयोगाजले उष्णप्रतीतिरीपाधिका स्फुटैव तत्र पाकासम्भवात् । घृ. प्रभा. शीतस्पर्शाझी कारस्यावश्यकतया तत्र जलवाभावेन व्यभिचारात् कथं जलत्वस्य तत्कारणतावच्छे- दकत्वमत आह ॥ धृष्टचन्दनादाविति ॥ आदिना शीतं शिलातलमिति प्रतीतिविषयशि- लातलपरिप्रहः । ननु जले शीत एव स्पर्श इत्ययुक्तं तत्रोष्णस्पर्शस्याप्युपलभ्यमानत्वादत आह ।। तेजस्संयोगादिति । स्फुदैवेति ॥ अन्वयव्यतिरेकाभ्यां तेजोनिष्ठोष्णस्पर्शस्यैव तत्र भानाहो- कारादिति भावः । ननु तेजस्संयोगात् तत्र शीतस्पर्शनाशः उष्णस्पर्शोत्पत्तिश्च स्वीक्रियतामत आ ह ॥ तत्रेति ॥ जलादावित्यर्थः ॥ पाकासंभवादिति ॥ पूर्वस्पर्शनाशकस्पर्शान्तरोत्पादकविजा- मञ्जूषा. शेषः । किंतु यादृशहरीतकीव्यक्तिभक्षणोत्तरं जलपानं क्रियते राहशहरीतक्यवयवेष्वेव त्वदनभिमतम धुररसव्यक्तिकल्पनमस्मकाम् । युष्माकन्तु हरीतकीभक्षणोत्तरपीतेषु तदनुत्तरपीतेष्वपि तेषु च सर्वेषु जले. वस्मदनभिमतमधुररसकल्पनमिति कस्येदं गौरवम् । तस्माजलीयमधुररसोऽनुभवसिद्ध इत्येव युक्तिर्वक्तव्या। अनुभूयते हि वर्षासलिलं मधुरं भूपतितं तु भौमर सविशेषरुपलभ्यते विन्तु गुडादिमधुररसेषु यः प्रकर्षः स जलमधुरिमण्यस्ति न वेत्येतायता विप्रतिपत्तिः । स च हरीतकीभक्षणोत्तरपा पीतसलिलरसेऽनुभूयते स चा. नुभवो यदि प्रमेत्युच्यते तदा तयञ्जकत्वं हरीतकी भक्षणस्य वाच्यं तदानी च जलीयमधुररसे पाश्चिमधु ररसन्यावृत्तजातिविशेषो नास्तीत्यापन्नम् । यदि च सोऽनुभवो भ्रमः हरीतकीभक्षणं च तत्र स्मर्यमाणारो- पजनकदोषः हरीतकीभक्षणसन्धुक्षितजलपानसंधुक्षितो जिहाप्रवर्ती प्रकृष्टमधुररसशलिपित्तद्रव्यविशेषो वानु. भूयमानागेपजनकदोष इत्युच्यते तदा पार्थिवमधुररसब्यावृत्तः अपकर्षाख्यः जातिविशेषो जलेऽस्तीत्यापन अनयोश्च पक्षयोरेकतरं में वयं विनिश्चेतुं प्रभवामः एतेन कषायरसैर्मधुररसैधावयवैरारब्धा हरीतकी नानार- सैव तत्र च मधुररसस्य व्यनको जलसंयोगः नतु तद्गतरसान्तरस्य फलबलात् अतो नीरसमेव जलमिति के पांचिदुक्तिपास्ता । अनुभवेन जले माधुर्यसिद्धेरुक्त वात् । किंच नानाजातीयरसवदवयवारब्धत्वे चित्ररसैव दरीतकी स्यात् । नेष्यते चित्ररसः । तत्राव्याप्यवृत्तिनानारसोत्पत्तिरपि न संभवति व्याप्यवृ.. त्तिजातीयगुणानामव्याप्यवृत्तित्वविरोधात् । व्याप्यवृत्ति च विजातीयं रसद्वयं युगपद्विरुद्धम् । अधास्तु नीरसैव हरीतकी जलसंयोगो हरीतक्यवयवगतमाधुर्य स्यैव व्यञ्जकोऽस्तु जलपानाभावदश यां उपलभ्यमानकषायरसोऽप्यवयवगत एवास्त्विति चेदेतावता हि कतिपये हरीतक्यवयवाः कतिपये मधुरा इति प्राप्तम् । एवं च सति जलपानेऽपि कतिचन हरीतक्यवयवाः कषाया एवोपलभ्यरन् नचैवं उपलभ्यन्ते । नच हरीतक्यवयवसमवेतकषायग्सरासनं प्रति जलसंयोगस्य प्रतिबन्धकत्वमिति वाच्यं ता- पता तव लाघवाभावात् कतिपयेषु हरीतक्यवयवेषु जलपानेऽपि माधुर्यानुपलम्भप्रसङ्गस्य तावताप्यवारणा- चेत्यास्तां विस्तरः । यदादौ प्रतिज्ञातं शुक्लरूप मेव जलस्येति जलस्य मधुर एव रस इति च तदेतदुभयं व्य- वस्थापितम् । यत्तु प्रतिज्ञातं शीत एव स्पर्श इति तदिदानी व्यवस्थापयिष्यन् तज्जनकतावच्छेदकतया ज. लत्वजातिसिद्धिमाह ॥ एवमिति ॥ तत्र पाकासंभवादिति ॥ अयमाशयः । यदि पाकेन जले दिनकरीयम्. शैत्योत्पत्तय॑भिचारेण कथं जन्यजलत्वेन तत्र हेतुत्वमत आह ॥ घृष्टेति ॥ पूर्व शीत एव स्पर्श इत्युक्तं तत्साधयति ॥ तेजःसंयोगादिति ॥ तत्र जले । विवेचयिष्यते च पाकासम्भवः रामरुद्रीयम्. भावः । ननु घृतादावपि तदन्तर्गतजलस्यैव स्नेह इति मूलमसङ्गतं घृतादेः पार्थिवत्वेन तत्र जलीय- कषायाः