पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रमा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । समवा. तत्र स्नेहस्तत्र द्रवत्वं तु सांसिद्धिकमुदाहृतम् ॥ ३९ ॥ तादावपि तदन्तर्वर्तिजलस्यैव स्नेहः जलाय स्नेह समवायिकारणत्वात् तेन जल एव स्नेह इति मन्तव्यम् ।। द्रवत्वमिति ॥ सांसिद्धिकद्रवत्वत्वं जातिविशेषः प्रत्यक्षसिद्धः तदवच्छिन्न- जनकतावच्छेदकमपि तदेवेति भावः । तैलादावपि जलस्यैव द्रवत्वं स्नेहप्रकर्षेण च दहना- नुकूल्यमिति वक्ष्यति ॥ ३९ ॥ प्रभा. तीयतेजस्सयोगासंभवात् । नच पृथिव्यामिव जलेऽपि तादृशसंयोगस्वीकारे बाधकाभाव इति वाच्यं तत्र तादृशसंयोगस्वीकारे शीतनाशपूर्वकोष्णस्पर्शोत्पत्तिवत् पूर्वरूपनाशपूर्वकरूपान्तरोत्पत्त्यापत्तेः जले उ- ष्णस्पर्शोत्पत्यनन्तरं तादृशतेजस्संयोगनाशे तादृशाष्णस्पर्शनाशकाभावात् शीतोत्पादकाभावाच तेजस्संयो- गनाशानन्तरमपि उष्णप्रतीत्यापत्तेः शांतप्रतीत्यनुपपत्तेच तस्मात् पृथिव्यामेव तादृशतेजस्संयोगः न जलादावित्यवश्यमङ्गीकार्यमित्यभिप्रायः । ननु स्नेहस्तत्रेति मूलेन जलस्य स्नेहवत्त्वं लक्षणमिति ल- भ्यते तञ्च घृतादिपृथिव्यामतिव्याप्तमत आह ॥ धृतादावपीति ॥ तदन्तर्वर्तीति ॥ घृततैला- न्तर्वतीत्यर्थः । जलस्यैव स्नेह इति ॥ स्वाश्रय संयोगेन प्रतीयत इति शेषः । ननु येनैव वृत्तादौ स्नेहः प्रतीयतामित्यत आह ॥ जलवस्येति ॥ तथाच घृतादौ तादृशजलवाभावात् समवायेन स्नेहोत्पतिर्न संभवतीति भावः ॥ तेनेति ॥ घृतादौ समवायेन स्नेहाभावेनेत्यर्थः॥ मन्तव्य-- मिति ॥ अन्यत्र समवायेन . तत्वानुपपत्त्या जल एव,समवायेन स्नेहः स्वीकार्य इत्यर्थः । ननु सांसिद्धिकद्रवत्व मञ्जूषा. शीतस्पर्शनाशः उष्णस्पर्शोत्पत्तिश्च स्वीक्रियते तदा तेजस्सयोगनाशोत्तरमप्युष्णस्पर्श एव प्रतीयेत तथा स्थामघटे पाकेन यः कठिनस्पर्शः यश्च कन्दादौ मृदुस्पर्शः स पाकनाशेऽप्यनुवर्तते नत्वेवं ज- ले । तत्र हि पाकजन्यस्योष्णस्पर्शस्य नाशः केन वा स्यात् विनश्यवस्थेन पाकेन तन्नाशेन वा उभराथापि पश्चानिस्पर्शमेव जलं स्यात् नतु शीतस्पर्श तज्जनकाभावात् । पूर्व हि पानावयविनि दिनकरीयम्. मुपरिष्टात् । घृतादावित्यादिपदेन तैलपरिप्रहः । जलस्यैव स्नेह इत्लनन्तरं स्वाश्रयसंयोगेन प्रती- मत इति शेषः ॥ तेन घृतादौ समवायेन स्नेहनिरासेन || जल एवेति ॥ स्नेहस्यावान्तरविशे. षाभावात्स नोत्कीर्तितः ॥ तदवच्छिन्नजनकतावच्छेदकं सांसिद्धिकद्रवत्वत्वावच्छिन्नजनकतावच्छेदकं ।। तदेव जन्यजलत्वमेव । तदवच्छिन्नजनकतावच्छेदकं जलत्वमिति भावः । अथैवंरीत्या परमाणुव्या- वृत्तमाद्वयणुक जलत्वमेकं परमाणुसाधारणं द्वितीयामिति जलत्वयोर्मेंदे भेदाप्रहः कुत इति चेत्स- मनियतयोग्यव्यक्तिवृत्तित्वादिति । एवमप्रेऽपि । तैलादावित्यादिपदेन क्षारपरिग्रहो न तु वृत्तस्य नैमित्तिकचत्वस्य समवायेनैव सत्त्वात् । दवत्वमित्यनन्तरं स्वाश्रयसंयोगेन प्रतीयत इति शेषः ननु तैले जलस्य सत्त्वे तैलस्य दहनानुकूल्यं न स्याजलस्य दहनप्रतिकूलत्वादित्यत आह ॥ नेहमकर्षेणेति ॥ प्रकूष्ठस्नेहस्य जलस्य दहनानुकूल्यमेव । अपकृष्टस्यैव तस्य दहनप्रतिकूलत्वादि. ति भावः ॥ इति वक्ष्यतीति ॥ स्नेहनिरूपणावसरे इति शेषः ॥ ३९॥ रामरुद्रीयम्. स्नेहासम्भवादतः पूरयति ॥ जलस्यैवेत्यादि । जन्यजलत्यमेवेति ॥ जन्यजलमात्रवृत्तिजातिरे. वेत्यर्थः । परमाणौ जलत्वसिद्धयर्थमाह ॥ तदवच्छिन्नेति ॥ जन्यजलत्वावच्छिन्नेत्यर्थः ॥ समनि- यतेति ॥ अयमेव दोषो जात्योर्मेंदग्रहप्रतिबन्धक इति भावः ॥ अग्रेऽपीति ॥ तेजोनिष्टजात्योर- पि भेदभद्दे प्रतिबन्धकमिदमेवेति भावः ॥ ३९ ॥ 1