पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली जन्यज- 1 नित्यतादि प्रथमवत् किं तु देहमयोनिजम् । प्रथमवदिति ॥ पृथिव्या इवेत्यर्थः । तथा हि जलं द्विविधं नित्यमनित्यं च परमाणुरूपं नित्यं द्वःपणुका दि सर्वमनित्यमवयवसमवेतं च अनित्यमपि त्रिविधं शरीरेन्द्रियविषयभेदात् । प्रभा. त्वस्योपाधिरूपत्वेनाननुगततया कथं तदवच्छिन्नजनकतावच्छेद कतया जलत्वजातिसिद्धिरित्याशङ्कानिरासाय प्रथमं सांसिद्धिकद्रवत्वत्वस्य जातित्वे प्रमाणमाह || सांसिद्धिकद्रवत्वत्वमिति ॥ प्रत्यक्षसिद्ध. ति ॥ द्रवतीति प्रत्यक्षप्रमाणजन्यप्रमितिविषय इत्यर्थः । तथाच स्थूलजलसमवेतद्रवत्वे प्रत्यक्षसिद्धसांसि. द्विकद्रवत्वन बाधकाभावाद्वयवहारबलाच प्रत्यक्षाविषयपरमाण्वादिसमवेतद्रवत्वेऽपि स्वीक्रियत इति भावः ॥ तदवच्छिन्नेति ॥ कालिकसमवायोभयसंबन्धेन तदवच्छिन्नेत्यर्थः । तेन सांसिद्धिकद्र- वत्वत्वजातेनित्य वृत्तितया न कार्यता६च्छेदकत्वमिति शङ्काया नावकाशः ॥ तदेवेति ॥ लमात्रवृत्तिजात्यमेवेत्यर्थः । तथाच तादृशावच्छेदकतया जन्यजलमात्रवृत्तिवैजात्यसिद्धौ तदवच्छिन्नजनक- तावच्छेदकतया परमाणुसाधारणजलवजातिसिद्धिरिति भावः । ननु जन्यजलमात्रवृत्तिजात्यमेकं परमाणु- साधारण जलवमपरं यद्यङ्गीक्रियते तदा तयोः भेदाग्रहः कुत्त इति चेन्न समनियतयोग्यव्यक्तिवृतित्वरूप. दोषादेवाग्रहः । वस्तुतो जन्यजलमात्रवृत्तिवैजात्यस्यातीन्द्रियत्वाभ्युपगमानाक्षेप प्रसारिति हृदयम् । न. नु तलादावपि सा सद्धिकद्रवत्वोपलब्धव्यतिरेकव्यभिचारेण कथं जलत्वं कारणतावच्छेदकमित्यत आह ॥ तैलादाविति ॥ आदिपदात् क्षीरपरिग्रहः ॥ जलस्यैवेति ॥ तैलाद्यन्तर्गतजलम्यैवेत्यर्थः ॥ द्रवत्वमि- ति ॥ स्वसमवापिसंयोगसंबन्धेन प्रतीयत इति शेषः । ननु तैले जलस्वीकारे दहलानापत्तिः जलस्य दहन- विरोधित्वादित्यत आह ।। स्नेहप्रकणेति ।। प्रकृष्टस्नेहेनेत्यर्थः । कृदभिहित इत्यादिन्यायात् प्रकों वैजात्यं तथाच विजातीयस्नेहविशिष्टजलस्य दह नानुकूलत्वात् नानुपपत्तिरिति भावः ॥ इति वक्ष्यत इति स्नेहनिरूपणावसर इत्यादिः ॥ ३१ ॥ पष्ठीप्रकृतिभूतापमानवाचकशब्दात् परतः पठीस्थाने वतिप्रत्ययास्यादित्यर्थकषष्ठीसमर्थाद्वतिरिति सूत्रानुसारेणार्थमाह ॥ पृथिव्या इवेत्यर्थ इति ॥ एवमप्रेऽपि ॥ जलीयशरिरमिति ॥ जल- मजूपा. शीतम्पर्श नश्यत्यवयवेष्वपि शीतस्पर्शा नश्येयुः । अथोच्येत परमाणुशीतस्पर्शी न नश्यतीति तदा महद्वगौरवम् । तथाहि जन्यशीतस्पर्शनाशं प्रति उष्णस्पर्श प्रति चामिसंयोगस्य द्वे कारणते पाकद. शायां परमाणुशीतस्पर्शेन घणुकादौ शीतस्पर्शात्पत्तिवारणाय शीतस्पर्श प्रत्यग्निसंयोगस्यैका प्रतिबन्धक. ता उष्णस्पर्शनाशं प्रति विनय दवाथाग्निसंयोगस्य तन्नाशस्य वैका कारणतेति चत्वारस्ते कार्यकारण- भावाः । मम तु शीतस्पर्शप्रत्यक्षं प्रत्याग्निसंयोगस्यैका प्रतिबन्धकता कल्पनीया घटादावनुष्णा-. शीतस्पर्शप्रत्यक्षं प्रति अग्निसयोगस्य प्रतिबन्धकतायां कल्पनीयायां तत्रैवोष्णेतरस्पर्शप्रत्यक्षत्व- स्य प्रतिबध्यतावच्छेदकत्वस्वीकारेण गतार्था वा । एवं जले उष्णस्पर्श प्रत्यनुभूयमानारोपजनकदो. पविधयाग्निसंयोगस्यैका कारणता वाच्या सापि घटादिविशेष्यकोष्णस्पर्शप्रत्यक्षस्थलीयकारणतया गतार्या वा एवं द्वयाकादिषु महावयविपर्यन्तेषु शीतस्पर्शानानाशा उण्णस्पर्शानामुत्पत्तयस्तेषां नाशाः पुनः शीतस्पर्शान्तराणामुत्पत्तयश्चति महागौरवमिति ॥ ३९ ॥ दिनकरीयम्. प्रथमवदिति ॥ षष्ठीसमर्थाद्वतिरित्यभिप्रायेणाह ॥ पृथिव्या इवेत्यर्थ इति ॥ जलीयं शरी• रामद्रीयम् षष्ठीसमर्थादिति ॥ प्रथमाया इवेति षष्ठयन्ताद्वतिप्रत्यय इत्यभिप्रायेणेत्यर्थः । अग्रेऽपि तेजी. ॥