पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली इथं च जन्योष्णस्पर्शसमवायिकारणतावच्छेदक तेजस्वं जातिविशेषः तस्य पर- माणुवृत्तित्वं जलत्वस्येवानुसन्धेयम् । नचोष्णस्पर्शवत्वं चन्द्रकिरणादावव्याप्तमिति वाच्यम् । तवाप्युष्णस्य सत्वात् किं तु तदन्तःपातिजलस्पर्शेनाभिभवादग्रहः । एवं रत्नकिरणादौ च पार्थिवस्पर्शेनाभिभवात् चक्षुरादौ धानुद्भूतत्वाहप्रहः ॥ रूपमि- प्रभा. उष्णत्वमिति ॥ उष्णत्वजातिमन्तरा वक्ष्यमाण प्रकारेण तेजस्वजातिसिद्धिर्न भवतीति प्रथमत उष्णरव जाती प्रमाणमाह ॥ प्रत्यक्षसिद्ध इति ॥ वहिष्ण इति स्पार्शनविषय इति भावः ॥ हत्थं चेति ॥ उष्णत्वजातिसिद्धौ चेत्यर्थः ॥ जन्योष्णस्पर्शेति ॥ कालिकसमवायोभयसंबन्धेन उष्णत्वजातिविशिष्टेत्यर्थः ॥ तेजस्वजातिसिद्धिरिति । तथाच तादृशोष्णस्पर्शसमवायिकारणता वच्छेदकतया जन्यतेजोमात्रवृत्तिवैजात्यसिद्धौ तदवच्छिन्नजनकतावच्छेदकतथा नित्य साधारणतेजस्त्वजा- तिसिद्धिरिति भावः । उक्कार्थमेव प्रकशयति । तस्येत्यादिना ॥ कचित्तु समवायेन नीलं प्रति समवायेन तेजस्संयोगत्वेन हेतुतया तेजस्वजातिसिद्धिरित्यपि द्रष्टव्यमित्याहुः तदसत् अ- दयबनीलाजन्यनीलं प्रति तेजस्सं योगस्य न तेजस्संयोगत्वेन हेतुता सूर्यादितेजस्योगसत्त्वे नीलानुत्प- तेः किन्तु वैजात्यपुरस्कारेण । तथाच वैजात्यावच्छिन्नस्य हेतुत्वात् तादृशकारणतावच्छेदककोटौ तेज- त्वस्याप्रविष्टत्वेन कारणतावच्छेदकघटकतया तेजस्त्वजातिसिद्धयभावात् । वस्तुतस्तु इदमुपलक्षणं तेजः पदशक्यतावच्छेदकतया तेजस्वजातिसिद्धिः अति बाधके शक्यतावच्छेदकतया जातिसिद्धेस्सर्व सम्मतत्वादित्यपि द्रष्टव्यम् । चन्द्रकिरणादावित्यादिपदात् रत्नकिरणपरिग्रहः । ननु तत्रोणपर्शसत्त्वे अनुपलम्भः कुत इत्यत आह ॥ किन्विति ॥ तदन्तःपातीति ॥ चन्द्रकिरमान्तःपातीत्यर्थः ॥ अभिभवादिति ॥ तथावानभिभूतस्पर्शस्यैव प्रलक्षत्वेन चन्द्रकिरणसमवेतोष्णस्पर्शस्याभिभूतत्वान प्रत्यक्षापत्तिमिति भावः । चन्द्रकिरणादावित्यादपदार्थविवरणपूर्वकं तत्र प्रसक्तदोष वारयति एवमिति ॥ रत्नकिरणादावित्यादिपदात् सुवर्णपरिग्रहः । चक्षुरादावित्यादिपदात् प्रदीपप्रभापरिप्रहः मजूपा. जन्योष्णस्पर्शति ॥ समवायेन विलक्षणनीलरूपं प्रति समवायेन तेजस्संयोगस्य हेतुतथा तदवच्छेदकघटकत. याप तेजस्वजातिसिद्धिः नीलकण्टेनोक्का : तेजस्संयोगस्य वैजाल्यपुरस्कारेणैव हेतुतया न तत्र तेजस्त्वप्रवेशइत्य. न्ये ॥ अभिभवादिति ॥ सजातीयग्रहणकृतं सजातीयसंवलनकृतं वा यदग्रहणं तदभिभवशब्दार्थः। तथा चोष्णस्पर्शनिष्टलौकिकविषयता निरूपितलौकिकविषयतासंबन्धेन स्पार्शन वविशिष्टं प्रत्युष्मस्पर्शप्रत्यक्षस्य दिनकरीयम्. इत्यं चेति । उष्णत्वजातिसिद्धौ चेत्यर्थः । ननु कथं तहिं जन्योऽणस्पर्शसमचायिकारणभि- नेषु परमाणुषु तेजस्त्वजातिसिद्धिरित्यत आह ॥ तस्येति ।। तेजस्त्वस्येत्यर्थः ॥ जलत्वस्येवेति ॥ यथा च जन्यजलत्वावच्छिन्नजनकतावच्छेदकतया जलपरमाणौ जलत्वजातिसिद्धिस्तथा जन्यतेजस्वा- वच्छिन्नजनकतावच्छेदकतया तेजःपरमाणावपि तेजस्वरूपजातिसिद्धिरित्यर्थः । इदमुपलक्षणम् । घम. वायेन विलक्षणनीलोत्पत्तित्वावच्छिन्नं प्रति समवायेन तेजःसंयोगत्वेन हेतुत्वात्तेजस्वजातिसिद्धिरित्य- पि द्रष्टव्यम् । चन्द्रकिरणादावित्यादिना रत्नकिरणादेः परिग्रहः ॥ तत्रापि चन्द्रकिरणादावपि ॥ ननु तोंष्ण्यप्रतीतिः कुतो नेत्यत आह ॥ किं स्विति ॥ तदन्तःपातिजलस्पर्शनेति ॥ चन्द्रकि रणान्तर्गतजलभागशीतस्परों नेत्यर्थः । ननु चक्षुरादिनिष्स्योष्णस्पर्शस्य केनाप्यनभिभूतत्वात्प्रत्यक्षापत्ति- रत आह ॥ चक्षुरादौ चेति ॥ मरकतकिरणादावित्यादिना सुवर्णपरिप्रहः । स्याद्रूपं शुक्लभा-- रामरुद्रीयम्. विलक्षणेति ॥ अवयवनीलाजन्येत्यर्थः । नालेत्युपलक्षणं पाकेन रक्कादेरप्युत्पत्तेः । अतिप्रस. DI