पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्र -प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्वता। येति न देयम् । चक्षुस्सन्निकर्षे व्यभिचारवारणाय द्रव्यत्वं देयम् । विषयं दर्शयति ॥ वह्नी- ति ॥ ननु सुवर्णस्य तेजसत्वे किं मानमिति चेन्न । सुवर्ण तैजसं असति प्रतिबन्धकेऽ- त्यन्तानलसंयोगेऽप्यनुच्छिद्यमानद्रवत्वात् यन्नैव तन्नैवं यथा पृथिवीति । नचाप्रयोजकं पृथि- प्रभा. अप्राप्यकारित्वे सर्वदा घटादिविषयकचाक्षुधापत्तिः कालभेदेन चाक्षुषनियामकस्य चक्षु. क्रियाजन्यस्य तव नियामकत्वाभावादित्यपि बोध्यम् । यदाहुः कारिकाचार्याः चक्षुबाह्यालोकाभ्यामारब्धेन चक्षुषा तावदर्थसं. स्पृष्टेन युगपत् तावदर्थग्रहणामिति तन्न यौक्तिकं चक्षुर्बाह्यालोकाभ्यामारब्धस्य चक्षुषः पृष्ठभागेऽपि सत्त्वात पृष्ठभागस्थितपदार्थग्रहणापत्तेः । पृष्ठदेशस्थवाह्यालोकैश्चक्षुरुत्पादे मानाभाव इति चेत् अप्रदेशस्थबाह्यालो. कैरपि तदुत्पादे मानाभावः तदनभ्युपगमेऽपि चाक्षुषोपपादनस्यानुपदमुरुत्वादिति । ननु सुवर्ण पार्थिव नै- मित्तिकद्रवत्वात् घृतादिवत् इत्यनुमानेन सुवर्णस्य पार्थिवत्वसिद्धेन तैजसत्वमित्यभिप्रायेण शकते ॥ अथे- ति ॥ सुवर्णमिति ॥ अन्न प्रतिबन्धकासमवधानकालिकात्यन्ताग्निसंयोगसमानकालीनानुच्छिद्यमानद्रव-- खाधिकरणत्वमेव पक्षतावच्छेदकं । पक्षतावच्छेदकावच्छेदेन साध्यसिद्धरुद्देश्यत्वेन पक्षतावच्छेदकहेत्वोरैक्येऽपि सामानाधिकरण्येन साध्यसिद्धेरदोषत्वात् । वस्ततस्तु तादशदवत्ववत्वेन प्रमितं यद्वस्तु तस्य तद्यक्ति खेन पक्षत्वस्वीकारे तयाक्तित्वस्यैव पक्षतावच्छेदकत्वेन पक्षतावच्छ देकत्वोरभेदाप्रसक्त्या न सिद्धसाधनप्रस- दिनकरीयम्. लोकाभ्यामारब्धेन चक्षुषा तावदर्थ संस्कृष्टेन युगपत्तावदर्थग्रहणमिति शाखाचन्द्रमसोस्तुल्यकालग्रहणमुपपद्यत एवेति । तन्न | चक्षुवीह्यालोकाभ्यामारब्धस्य चक्षुषः पृष्टभागेऽपि सत्त्वात्पृष्टभागस्थितपदार्थग्रहणापत्तेः । ५ ठेदेशस्थवाह्यालोकैश्चक्षुरुत्पादे मानाभाव इति चेदग्रदेशस्थवाह्यालोकैरपि तदुत्गदे मानाभावः तदनभ्युपगमे - ऽपि चाक्षुषोपपादनस्यानुपदमुक्तत्वादिति । लाघवादाह ॥अथवेति ॥ तैजसत्त्वे किं मानमिति । सुष ण पार्थिवं नैमित्तिकद्रवत्ववत्वादिल्यनुमानस्य पार्थिवत्वसाधकस्यैव सत्त्वात् । समाधत्ते । नेति ॥ सुवर्ण मिति ॥ नचात्र पीतरूपवव्यात्मकस्य सुवर्णस्य पक्षत्वे बाधः तैजससुवर्णस्य चानुमानात् पूर्वमसिद्धया पक्षाप्रसिद्धिः धर्मशास्त्रे पीतद्रव्येऽपि सुवर्णपदप्रयोगेन तस्यापि सुवर्णपदवाच्यतया सुवर्णपदवाच्यत्वस्य पं. क्षतावच्छेदकत्वे बाधतादवस्थ्यादिति वाच्यम् । अत्यन्तानलसंयोगे सलनुच्छिद्यमानद्रवत्वाधिकरणत्वस्यैव पक्षतावच्छेदकत्वात् अवच्छेदकावच्छेदेन साध्यसिद्धरुद्देश्यतया पक्षतावच्छेदकत्लभेदप्रयुक्तस्य सामानाधि- करण्येन सिद्धसाधनस्यादोषत्वात् ॥ असति प्रतिबन्धक इति । जलमध्यस्थघृतादौ व्यभिचारवारणायासति प्रतिवन्धक इति । अग्निसंयोगानाश्यद्रवत्ववति घृतादौ व्यभिचारवारणाय संयोगे सतीत्यन्तम् तादृशद्रवत्व- स्य स्वसमानाधिकरणात्यन्ताग्निसंयोगासमानकालीनत्वान्न व्यभिचारः । अनुच्छिद्यमानद्रवत्वादित्यस्यानुच्छि. रामरुद्रीयम्. वस्तुतस्तु चक्षुरिन्द्रियस्य तैजसत्वसाधकानुमानस्य पूर्वमुक्ततया तत एव गोलकत्य चक्षुरिन्द्रियत्वं न शङ्कास्पदमपि । न हि सिद्धान्तिाभिः प्राप्यकारित्वानुरोधेन चक्षुषस्तथात्वमङ्गीक्रियतेऽन्यथा रसनेन्द्रिया- दीनामधिष्ठानातिरिक्तत्वं कथं सिध्येत् । यद्यपि घ्राणेन्द्रियस्य पार्थिवत्वादधिष्ठानातिरिक्तत्वे न कि. चिदपि मान तथापि नासिकासत्त्वेऽपि केषांविद्न्धानुपलब्धिदर्शनात् प्राणादीन्द्रियमतीन्द्रियमिन्द्रियत्वान्म. नोवदित्यनुमानाच तरिसद्धिरिति ध्येयम् । बाह्यालोकोऽत्र न सौरालोकादिपरमाण्वादिस्तदारब्धस्य प्रत्यक्षत्वा- पातात् किंत्वनुद्भूतरूपवत्तेज एवेति मन्तव्यम् । लाघवादिलस्य परकीयत्वाप्रवेशेनेत्यादिः ॥ पीतरूपयदि- ति ॥ उपष्टम्भकपार्थिवभागस्येत्यर्थः ॥ धर्मशास्त्र इति ॥ तोलकपरिमित सुवर्ण दद्यादित्यादिरूप इत्यर्थः । ताद्वस्थ्यादिति ॥ अवच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यतया सामानाधिकरण्येन बाधप्रसज्ञादिति भावः । सामानाधिकरण्येन साध्यसिद्धावपि सुवर्णस्य तैजसविषयत्वसम्भवन सामानाधिकरण्येन साध्यसिद्धौ सामानाधि करण्येन बाधस्यादोषतया सुवर्णपदवाच्यत्वस्य पक्षतावच्छेदकत्वेऽपि न क्षतिः। शोभनो वर्णो यस्येति व्युत्पत्त्या