पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली . - मञ्जूपा. परकीय स्पशादीत्यादि । अत्रापि प्रागुवारीत्या सर्वमवसे यम् । सुवर्ण तेजसमिति ॥ नन्वत्र वस्तुतस्नुवर्णत्वं द्विविध पीतिमगुरुत्वाधयनिष्ठभेकं तेजोभागनिष्टमेकं उभयत्र सुवर्णपदप्रयोगात् । उभयसा. धारणं च नैकं सुवर्णत्वं पृथिवीत्वतेजस्त्वाभ्यां सङ्करप्रसङ्गात् । तथाचात्र पीतिमगुम्त्वाश्रयनिष्ठस्य सुवर्णत्व- स्य पक्षतावच्छेदकत्वे बायः । द्वितीयस्य पक्षतावच्छेद कत्ये त्वाश्रयासिरिः । पार्थिवभागोपष्टब्ध स्य तेजोरू- पस्य सुवर्णस्यानुमानात् पूर्वगसिद्ध रिति चेन्न । सुवर्णपदवाच्यत्वस्यैव पक्षतावच्छेदकत्वात् । यत्तु धर्मशा- स्त्रे पीतद्रव्ये सुवर्णपदप्रयोगेण तस्यापि सुवर्णपदयाच्यतया सुवर्णपदवाच्यत्वस्य पक्षतावच्छेदकत्वेऽपि वा. धतादवस्थ्यमिति नीलकण्टेनोक्तं तदयुक्तम् । सुवर्णपदवाच्यत्वसामानाधिकरण्यमात्रेण साध्यसिद्धरुद्देश्यता- मात्रगेष्टसिद्धया अंशतो बाधस्या दोषत्वात् । अथवासन्तानलसंयोगे सत्य नुच्छिद्यमानद्रवत्वाधिकरणत्वमेव पक्षतावच्छेदकं नच पक्षतावच्छेदकहेत्वाभेदे सिद्ध साधनमिति वाच्य व्याप्तिग्रहवेळायां हेतुविशेष्यकसा य- सामानाधिकरण्यप्रकारकज्ञाननिष्पत्तावपि पक्षतावच्छेदकाचच्छिन्नविशेष्य कसाध्यतावच्छेदकावच्छिन्न प्रकार- कज्ञानस्यानिष्पत्त्या दोपाभावात् । सत्र तु व्याप्ति ग्रहोत्तर कदाचिद्धतुमान् साध्यवानिति ज्ञानं मानसोपनी- तभानात्मकं कस्यचित्स्यात् तस्य तत्र दर्शितानुमित्यनुत्पादेऽपि न क्षतिः तादृशमानसोपन तभानशून्यस्य दर्शितानुमित्युत्पत्त्यचारमाकमिटसिद्धेः उक्तव्याप्तिज्ञानसहकृतेन मनसा मानसात्मकस्य तेजस्त्वज्ञानस्योत्पा- दनेऽपि अस्माकमिष्टार्थसिद्धया दर्शितसिद्धसाधनस्यादोपत्वाच्च । नहिं सुवर्णे तेजस्त्वसिद्धयानुमित्यात्मिकयैव भवितव्यमिति निगमः व्याप्तिज्ञानोपोलित मनोजन्यमानसनिश्चयात्मकत्वेऽपि क्षतेरभावात् । यादृशंन हि सिद्धसाधनेन जल्पस्यले वादिन इटार्थसिद्धिनं स्यात् तस्यैव दोषत्वं बधा शक्तिवादिना बहिर्दाहानुकूलधर्मवान् दाहजनकत्वादिति प्रयुक्त सिद्धसाधनं दोपः । परमतेऽपि वहाँ दाहाचुकूलधर्मस्य वहित्वस्य सिद्धत्येन शक्ति. सिद्धयभावादित्यादि । अस्तु वा अनुमानप्रमाणादिमात्रसमयसंबन्ध दर्शितसिद्धसाधनस्यापि दोषत्वं तथापि नात्र दोष इत्युक्तम् । तादृशमानसोपनीतभानाद्यभावदशायाँ सिद्ध साधनाप्रसरादिति । यत्तु अवच्छेदकावच्छेदेन साध्यसिद्धरुद्देश्यत्वात् पक्षतावच्छेदकहेवभेदप्रयुक्तस्य पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धि- रूपस्य सिद्धसाधनस्य न दोषत्वमिति नीलकण्टेन लिखितं । तदयुक्तं व्याप्तिप्रवेळायां हेतुव्यापकत्व- स्यापि साध्ये निक्षितत्वेन पक्षतावच्छेदकावच्छेदेन साधसिद्धेश्रपि तदभिमतपर्यवसानगत्या वृत्तत्वात् । पर्य- वसानगत्यनाश्रयणे तु पक्षतावच्छेदक सामानाधिकरण्यमात्रेण साध्यसिद्धरुद्देश्यत्वेऽपि पूक्तिरीत्या पक्षासा- ध्यवानिति सिद्धनिष्पत्यैव दोषाभानावच्छेदकावच्छेदेन साश्चानुमित्य नुसरणवैयात् एवं व्यतिरेकव्याप्ति- प्रहे सिद्धसाधनप्रसक्तिरेव नेति मन्तव्यम् । केचित्तु पक्षतावच्छेदकावच्छेदेन साध्यसिद्धरुद्देश्यत्वांदित्यस्य पक्षतावच्छेदकावच्छिन्नविशेष्य कसाध्यप्रकारकसिद्धेरद्देश्यत्वादित्यर्थः । पक्षतावच्छेदकसामानाधिकरण्येन सा. ध्यसिद्धिरूपस्येत्यस्य च हेतुभूतपक्षतावच्छेदके साध्य सामानाधिकरण्यज्ञानरूपस्येत्यर्थः । अतो न दोष इति नीलकण्ठं समर्थ यन्ति । सोऽयं महान् क्लेशः । अन्न जलमध्यस्थतादी व्यभिचारवारणायासति प्रतिबन्धक इति । अग्निसंयोगनाश्यद्रवत्ववति घृतादौ व्यभिचारवारणायात्यन्तानलसंयोग इति । नन्वत्र प्रतिवन्धका- समवधानकालीनत्वमत्यन्तानलसंयोगसमानकालीनत्वं च कुत्र विशेषणं अनुच्छ्यिमानपदार्थकदेशे नाशे उ. त वत्वे आहोस्वित् तादृशद्रवत्वाधिकरणे पक्षे । नाद्यः आश्रयनाशनाश्यद्रवत्ववति घृतादो व्याभिचारात त- दीयद्रवत्वस्यात्यन्तानलसंयोगजन्यनाशप्रतियोगित्वाभावात् । द्वितीये प्रतिबन्धकासमवधानकालीनमत्यन्ता- नलसंयोगसमवधानकालीनं नाशाप्रतियोगि च यवत्त्वं तदधिकरणत्वमर्थस्स्यात् । तत्र चानुपपत्तिः स्फुटैव सुवर्णादिद्रवत्वस्य नाशप्रतियोगित्वाभावात् । अत एव न तृतीयोऽपि । एतेन प्रतिबन्धकासमवधान- कालीनत्वं नाशविशेषण असन्तानलसंयोगसमवधानकालीनत्वं तु द्रवत्वविशेषणमित्यपि निरस्तम् । स्वरूपासिद्धेः अत्यन्तानलसंयोगसमवधानकालीनत्वं नाशे विशेषणम् प्रतिबन्धकासमवधानकालीन त्वं तु द्रवत्व इत्यपि न संभवति । तप्तजलमध्यपतिते पश्चादाश्रयनाशविनष्टद्रवत्यवति घृतादौ व्यभिचारापा- तात् तदीयवत्वस्यापि अग्ने प्रतिबन्धकासमवधानकालीनत्वा प्रतिबन्धकसमबधानकालीनभिन्नत्वनिवेशे ।