पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा स्कपालारब्धघटे नवीनैरव्याप्यवृत्तिनीलादिनानारूपवत्त्वस्वीकारणात्यन्तामिसंयोगकाले किंचिदवच्छेदेन पूर्वरूपविजातीयरूपवत्यधि अवयवान्तरावच्छेदेन तादृशविजातीयरूपाभावस्थापि सत्वेन व्यभिचारापत्त्या ताशरूपाभावघटितहेतुं परित्यज्य तादृशरूपाधिकरणत्वाभावघटितहेतुः कृतः । वस्तुतः निरवच्छिन्न- विशेषणतासंबन्धेन पूर्वरूपविजातीयरूपाभावस्य हेतुत्वलाभायेवाधिकरणत्वपदं नतु तदपि हेतुघटकं गौरवात् प्रयोजनाभावाच्चेति तत्त्वम् । नीलादीनां अव्याप्यवृत्तित्वानजीकर्तृप्राचीनमते तु पूर्वरूपध्वं- साभावस्य पूर्वरूप भिन्नरूपाभावस्य च केवलविशेषणतासंबन्धेन हेतुत्वामिति बोध्यम् । घटादिनिष्ठपूर्व- पविजातीयरूपानाधारत्वस्यापि स्वव्यधिकरणघटादिनिष्ठात्यन्तामिसंयोगसमान कालिकतया तादृशघटादौ व्यभिचारवारणाय स्वसमानाधिकरणबेनात्यन्ताग्निसंयोमो विशेषणीयः । तथाच स्वसमानाधिकरणात्यन्ता मजूपा. वर्णरूपनाशापत्तिरिति वाच्य रूपनाशं प्रति सुवर्णस्य तादात्म्येन प्रतिबन्धक तास्वीकारात् तावता प्रतिबन्ध कता द्वयाविशेषेऽपि अवच्छेदकलाघवानपायादित्यतः प्रथमानुमान एव स्वस्थ निर्भर इति सूचनाय परेस्वित्युक्तम् । ननु सुवर्णस्य तेजसत्वेऽन्धकारे तदुपष्टम्भकपार्थिवभागचाक्षुषापत्तिः सुवर्णात्मकतेजसंयोगस्य सत्त्वात् । नच द्रव्यचाक्षुषं प्रति अनभिभूतरूपवत एव तेजसः कारणत्वमिति वाच्यं अनाभिभूतत्वस्य दुर्वचत्वात् । नच स्वसजातीयग्रहणप्रयुक्तस्वग्रहणाभावकत्वं अभिभूतत्वमिति वाच्यं अन्धकारे पातरूपग्रहणाभावेन तत्का- दिनकरीयम्. रूपाभावादिति भावः । नचान्धकारे पतियरूपाश्रयद्रव्यग्रहापत्तिः सुवर्णरूपालोकसंयोगसत्त्वादिति वा- च्यम् । उद्भूतानभिभूतरूपालोकसंयोगस्यैव द्रव्यप्रत्यक्ष हेतुत्वात् सुवर्णरूपस्य लमिभूतत्वात् । न च तदानी पीतरूपस्याध्यमहात् सजातीयप्रहणकृतमग्रहणं न तु सुवर्णरूपस्यति न तस्याभिभूतत्वमिति वाच्यम् । लघुत. या सजातीयसम्बन्धस्यैवाभिभवपदार्थत्वात् । न च तथाऽ यन्धकारे सुवर्णस्य साक्षात्कारापत्तिः तेजोभिन्न द्रव्य प्रत्यक्षं प्रत्येवालोकसंयोगस्य हेतुत्वादिति वाच्यम् । सुवर्णभिन्नं यत्तेजरतद्भिनद्रव्यप्रत्यक्षं प्रत्येव तस्य हेतुत्वात् । नवीनास्तु सुवर्ण पार्थिवमेव पातं सुवर्ण द्रुतमिति साक्षात्सम्बन्धेन द्रवत्वप्रतिभ्रम- स्वायोगात् द्रुतं दुततरमिति प्रतिवत्वस्थाप्यत्यन्तोच्छेदात् पृथिवीत्वस्य पातरूपसमवायिकारणतावच्छेदक- त्वाद्रूपनाशे तादात्म्येन स्वर्णस्य विरोधित्वाच्च न पातरूपनाश इति वदन्ति ॥ इति तेजोग्रन्थः ॥ रामरुद्रीयभू. तदानीमिति ॥ अन्धकारस्थितिदशायामित्यर्थः ॥ सजातीयग्रहणकृतमिति ।। रूपत्वेन स्वसजातीय य. स्पातरूपं तत्प्रत्यक्षप्रयोज्यं अग्रहणं प्रत्यक्षविषयत्वाभाव इत्यर्थः॥ तेजोभिन्नति ॥स्वस्मिन्स्वप्रतियोमिकसं- योगानीकारेण तेजोऽन्तरसंयुक्ततेजःप्रत्यक्षानुपपत्या तथैव कार्यकारणभावस्य स्वीकरणीयत्वादिति भावः । यद्यपि तेजःसमवेतसंयोगत्वेन हेतुत्वे नेयमनुपपत्तिस्तेजस्यपि तत्सत्वात्तथापि लाघवात्संयोगसम्बन्धेन तेजस एव द्रव्यप्रत्यक्षहेतुतायाः स्वीकरणीयतया स्वस्मिन्संयोगेन स्वस्यासत्त्वात्तेजोभिन्नत्वं द्रव्यावशेषणमावश्यकाम- ति भावः॥ द्रुतमिति। इदंच जलमध्यस्थमपीक्षोदन्यायेन पातद्रव्यत्य अद्वत्वाशीकारस्य ग्रन्थकृत्सम्मतत्वा तदभिप्रायेणोक्तम् । द्रवत्वस्यापलिपिकार उच्छेदादित्यनन्तरं योजनीयस्तथाच जले द्रवत्वसत्त्वेऽपि तदीयद्व. स्वस्य पार्थिवद्रवत्वापेक्षयाऽतिविलक्षणत्वासांसिद्धिकत्वाच्च न जलमित्यर्थः । पीतरूपवत्त्वाच्च न पृथिव्यन्य इत्याह । पृथिवीत्वस्येति ॥ ननु तमुग्निसंयोगे कुतो न रूपनाश इत्यत आह ।। रूपनाश इत्यादि ॥ वद- न्तीत्यस्वरससूचनाय । सच पार्थिवस्थापि तदानी द्रवत्वाङ्गीकारसम्भवेन प्रतीतेः प्रमात्वसम्भवात, द्रव्यान्तरसं. योगस्यैव अन्यत्र पार्थिवरूपद्रवत्वनाशप्रतिबन्धकत्वेन क्लुप्ततया तत्रैव तादात्म्येन स्वस्य तदुभयना- शप्रतिवन्धकताकल्पनेऽन्यत्राटकल्पनापत्तेः ग्रन्थकृता पार्थिवस्य द्रवत्वानहीकारेण तदीयवत्वनाशे द्रव्यान्तर- योगस्य प्रतिबन्धकत्वाकल्पनाच्चैतन्मते तत्रापि तस्य प्रतिबन्धकताकल्पनाधिक्याचावगन्तव्यः । ॥ इति तेजोमन्थः ॥