पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली - चा मम्जूषा. शवद्वेगवद्दव्यसंयोगजन्यः अविभज्यमाना५य चद्रव्यसंवन्धिशब्दसन्तानत्वात् दण्डाहतमेरीशब्दसन्तानयदि . त्यनुमानम् । अत्राविभज्यमानावयवद्रव्यसंबन्धित्वं न विभागशून्यावयवावच्छिन्नत्वं विभागवदवयवाव- च्छिन्नभिन्नत्वं का पर्णावयवानामपि वायु संयोगेनान्ततो गगनादितो विभागोत्पत्त्या स्वरूपासिद्धिप्रसङ्गात् नापि परस्परविभागशून्यावयवकद्रव्यावच्छिन्नत्वमान्तरालिकघटादवच्छिने शब्दजशब्दे व्यभिचारात् । अत एव विभाग जन्यत्वं तेन विवक्षितमित्यपि प्रत्युक्तं शब्दजशब्दे व्यभिचारात् । किंतु कारणतत्कारणसा धारणप्रयोजकतास्वीकारपक्षे विभागाप्रयोज्यत्वमेव संबन्ध्यन्तेन विवक्षितं तत्सूचनायव हेतो सन्तानपद- म् । तथाच विभागाप्रयोज्यशब्दत्वं हेतुः । एवंच विभागप्रयोज्ये शब्दजशब्दे न व्यभिचारः । साध्यको- टिनिविष्टं जन्यत्वमपि प्रयोज्यतारूपमेव तेन संयोगप्रयोज्ये शब्दजशब्दे न व्यभिचारः । साध्यकोटौ प्रयो- ज्यतानिवेश सूचकं च पक्षकोटौ सन्तानपदम् । यदि तु तादृशप्रयोजकता न स्वीक्रियते तदा रूपवव्या- भिघाताद्यजन्यपीय वच्छिन्नप्राथमिकमर्मरशब्द्घटितपरम्परायां स्पर्शवद्वेगवद्व्य संयोगजन्यप्राथमिकशब्द- घटितत्व विभागजशब्दाघटितत्वे सति प्राथमिक शब्दद्घटितत्वेन विभागाजन्यप्राथमिकशब्दघ- टितत्वेन साधनीयम् सर्वत्र प्राथमिकत्वं स्वजनकशब्दध्वंससमानकालीनं यत्ताद्भग्न- स्वं शब्दाजन्यत्वमेव धा । यद्वा तादृशप्राथामिकशब्द् एव पक्षः तादृशसंयोगजन्यस्वमेव साध्यं वि. भागाजन्यप्राथमिकशब्दत्वं हेतुः ॥ तृणादीनां धृत्येति ॥ अत्रेत्थमनुमानम् । नभसि तृणतूलस्तनाये- स्नुविमानादीनां पतनाभावः स्पर्शच व्यसंयोगहेतुकः अस्मदाद्यनाधष्ठितव्यधृतित्वात् नौकादिधृतिवदिति । अत्र च नभःपदं ऊर्ध्वदेश। परम् । तद्देशावच्छिन्नोरक्षेपणक्रियाप्रयोज्यसंयोगाधिकरणत्वं तद्देशावधिको- वत्वं आधिकरणत्यप्रवेशाच सर्वदा तादृशसंयोगविरहेऽपि यदाकदाचित्ताशसंयोगोत्पत्तिमात्रेणो- त्वनिर्वाहः । नच यस्मिन् देशे सद्देशावच्छिन्नोत्क्षेपणकियाप्रयोज्यसंयोगः कदापि नोत्पन्नः तत्रा- व्याप्तिरिति वाच्यं सर्वव तादृशपवनपरमाणुसंयोग संभवात् । अथवा तादृक्रियाप्रयोज्यसंयोगस्व. रूपयोग्यत्वमेव तथास्तु । वस्तुतस्तु तनिष्टभुतलसंयुक्तसंयोगपरम्पराघटकसंयोगपर्याप्तसंख्याधिकसंख्यापर्या- त्यधिकरणसंयोगघटितभूतलसंयुक्तसंयोगपरम्परावत्त्वं तदवाधिकार्घत्वम् । सर्वत्रैव तादृशसंयुक्त संयोगपरम्प- राघटकाः संयुक्त प्रदेशाश्च परमाणव एव सुलभाः । भूतलाधःप्रदेशेषु तत्तदधोभागावधिकोयत्वनि- वचने भूतलादिस्थाने अतलादिकं निवेशनीयम् । यद्वा ब्रह्माण्डकटाहाधोभित्तिमेव, तद्यक्तित्वन निवेश्य सर्वत्रोर्वत्वं निर्वक्तुं युक्तं लाघवात् । एवं ब्रह्माण्ड कटाहोर्ध्व भित्तिं तब्यक्तिवेन धृत्वापि सर्वत्र ऊर्ध्वत्वं निर्वचनीयं तद्यथा तद्देशनिष्टतयक्तिसंयुक्तसंयोगपरम्पराघटकसंयोगपर्याप्तसंख्यान्यूनसं- ख्यापर्याप्त्यधिकरणसंयोगघटिततयक्तिसंयुक्तसंयोगपरम्परावत्त्वं तद्देशावधिकं उर्ध्वत्वमिति । अधिकं दिडिपणे वक्ष्यमाणरीत्यावसेयम् । नभसीयल सप्तम्यर्थो वृत्तिस्तृणान्वयी । तथाचोर्ध्वदेशवर्तिपु तृणादिषु वर्तमानः पतनाभावः पक्षः विहगादिश्रुतौ व्यभिचारचारणाय हेताचस्मदाचनधिष्ठितत्वं द्रव्यविशे. षणम् । तच्च पतनाभाववत्त्वविधेयकास्मदादिवृत्तिकृत्यगुपादानत्वं तृणादेनौकादेश्च तादृशेश्वरकृत्युपादा नत्वात् अहमदादीति अथात्राधिकरणभेदेनाभावभेदानीकारात् जलसंयोगप्रयोज्यस्य कादिवृत्तेरेव पतनाभावस्य विहगादिवृत्तितया कथं विहगादिधृतौ व्यभिचारः येनास्मदाद्यनधिष्ठितत्वं सा. र्थकीक्रियेतेति चेदेवं सति तृगादिवृत्तिातनाभावस्यापि नौकादिवृतिपतनाभावानतिरिक्ततया सि- द्धसाधनापत्त्या नभोवृत्तितृणादिकं स्पर्शच हव्यसंयुकं अस्मदाद्यनधिष्ठितत्वे सति पतनाभाववत्त्वादि. त्यनुमानं वक्तव्यम् । तत्र च विहगादौ व्यभिचारवारणाय सत्यन्तं सार्थकमेव । नच विहगादावपि स्प- शवस्परमाण्वादिसंयोगसत्त्वात् कथं तत्र व्यभिचारप्रसाक्तिरिति वाच्यं सिद्धसाधनवारणाय पतनप्रतिब न्धकस्यैव स्पर्शबद व्यसंयोगस्य साध्यतया तस्य विहमादावभावात् । इदानीं तृणादीनां धृत्येत्यत्र तृतीयायोध्यं ज्ञापकत्वं लिविधयैव धृतरुपपादनीयम् । यदि च पक्षविधया ज्ञापकमध्यपाठो धृते- विरुध्यत इत्युच्यते तदा धृतिपदं पतनाभावसंबन्धपरम् । तथाच नभोवृत्तितृणादिषु वर्तमानः पत-