पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्विता। व्या- प्र- मजूषा. गोत्पन्नत्वमात्रेण तदपत्यत्त्वव्यपदेशसंभवादित्यभिधाय एवं च धावदिशरीराणामयोनिजत्वे इमे वै स. हास्तामित्यादिश्रुतिरेव प्रमाणं तद्यवायेन पार्थिवशरीरादेरेवोत्पत्तिश्रवणादित्याचक्षते । एतच्च ख्यानं परंस्वित्यादिमुक्तावळीग्रन्थस्वरसानुरोधि । शरीरमयोनिजामत्यनेन व्यवायाभावसंभावनायां श- रीरमयोनिजमेव किन्तु व्यवाययोग्यता परमस्तीति प्रतिपादयितध्यत्वादिति ध्येयम् ॥ जलादी. ति ॥ प्राधान्यादिति ॥ प्राधान्यमुपादानकारणत्वम् ॥ अत्रेति ॥ अत्र त्वगिन्द्रिये यो विशे- ष: अधिष्टानादिः ॥ शरीरव्यापकमिति ॥ नचैवं नखरोमकेशानां स्वागन्द्रियानाधारत्वादसंभव इति वाच्यं तेषां संयोगिद्रव्यत्वेन शरीरत्वाभावात् । मूलस्थस्य त्वगिन्द्रियमित्यस्य त्वाचे स्थितमिन्द्रियमित्यर्थः । एतेन देहसहजावरणं त्वगित्युच्यते तच्च पार्थिव प्रत्यक्षासिद्धं च एतच्च नेन्द्रियं नच वा- यवीय इति परास्तम् । त्वगिन्द्रियस्य लक्षणमाह स्पर्शेतीत्यटीकत नीलकण्ठः । अत्र त्वांगन्द्रिय- स्य मुक्कावळ्यामप्रकान्तत्वात् अत्रेति सर्वनाम्ना कथं तम्य परामर्शः । किंचात्रेत्यस्य त्वगिन्द्रिये इत्येव यद्यर्थम्स्यात् तर्हि विषयवायो: परामर्शो न स्यात् तथान पार्थिव विषयादितो वायुविषये वैलक्षण्यं मूलोपदर्शितं अनवतारितमेव स्यात् । अथ यथा पृथिव्यादी असौ विषय इति तिपादितं तथा वायावप्यसौ विषय इत्येतावदेव प्रतिपादितं नतु ततोऽधिकं किचिन्मूले प्रतिपादि: तमस्ति नत्वेवं त्वगिन्द्रिये पार्थिवेन्द्रियादिष्वप्रतिपादितस्य अधिष्ठानविशेषादेः वायवीयेन्द्रिये देहव्यापि स्वागन्द्रियमित्यनेन प्रतिपादितत्वात् । अतोऽत्रेत्यनेन त्वमिन्द्रियमानपरामर्शो युक्त इति चेत् तहिं यथा पृथिवीजलयोः इदमिन्द्रियमिति प्रतिपादित तथा तेजस्यपि तावत एवार्थस्य इन्द्रियं नयन- मित्यनेन प्रतिपादनात् तत्राप्यत्र यो विशेषस्तमाहेत्यवतारणं विश्वनाथस्य विरुध्येत । तस्मादत्र वा. यौ यो विशेष इन्द्रिये त्वक्त्वं विषये, प्राणादित्वमित्येवरूपः पृथिव्यादिव्यावृत्तधर्मस्तमाहेत्येव व्या. ख्येयम् । यदपि मूलस्थस्य त्वगिन्द्रियामित्यस्य त्वचि स्थितमिन्द्रियमित्यर्थमाभिधाय एतेनेत्यादिना तादृशार्थाभिधानप्रयोजनकथनं तदपि हेयमेव । तथाहि घ्राणरसनचक्षुस्त्वक्श्रोत्रशब्दा इन्द्रियेषु तद- धिष्ठानचर्मपुटकेषु प्रयुज्यन्ते गन्धग्राहक घ्राणमिति दीर्घमस्य घ्राणमिति तथा च यथा त्वक्शब्दस्य देहसहजावरणमादायेह शका प्रवृत्ता तथा प्राणादौ कुतो न प्रवर्तेत तद्वारणाय तत्राप्यधिष्ठानविशेषः कु. तो न मूले प्रतिपादितः । किंच इन्द्रियं घ्राणलक्षणं इन्द्रियं रसनमित्यादौ इन्द्रियशब्देन प्रकान्तपार्थिवादी. न्द्रियपरामर्श पार्थिवेन्द्रियं ब्राणं जलीयेन्द्रियं रसनं इत्यादिर्थः । तदनुसारेण त्वगिन्द्रियमित्यस्य व्यस्तता- मभ्युपेत्य इन्द्रियं वायवीयं इन्द्रियं स्वगात्मकमित्येवार्थों युक्तः । अन्यथा प्रक्रमभङ्गापत्तेः । वाय- वीयेन्द्रियं किंमिति जिज्ञासाया अनिवृत्त्यापत्तेश्च । नहि चर्मणि स्थितमिन्द्रियं देहव्यापकमित्युक्त्या तादृशशङ्का निवर्तते । नच समानमस्मत्पक्षेऽपीन्द्रियपदं वायवीयेन्द्रियपरमेव तथा च त्वचि स्थितं वाय- वीयेन्द्रियं देहव्यापकमित्युक्त्या तादृशजिज्ञासा निवर्तत एव किमिति जिज्ञासाविषयतावच्छेदकधर्भस्य वायवीयेन्द्रिये देहव्यापीत्यनेन लब्धत्वादिति वाच्यं पृथिव्यादौ पार्थिवेन्द्रियत्वादिव्याप्यधर्मस्येवेहा. पि वायवीयेन्द्रियत्वव्याप्यधर्मस्यैव जिज्ञास्यतावच्छेदकतया चर्मसाधारणदेहव्यापित्वोक्त्या तजिज्ञासाया अनिवृत्तेः नहि पार्थिवेन्द्रियं किमिति जिज्ञासा रूपवत्पार्थिवेन्द्रियमित्यतो निवर्तते अधात्र पृथमिन्द्रि- यशब्दमध्याहृत्य देहव्यापीन्द्रियं चर्मस्थितं वायवीयेन्द्रियमित्यर्थकथनाद्याप्यधर्मलाभ इति चेदस्त्येवं रोत्या व्याप्यधर्मलाभः । तथापि पूर्ववन्नित्यतादीत्यतिदेशेन वायवीयेन्द्रियत्वमेवोपातष्ठते नतु चर्म- स्थितत्वविशेषितम् । ततश्च वायवीयेन्द्रियं किमित्येव जिज्ञासा जायेत नतु चर्मस्थितं वायवीयेन्द्रियं किमित्ति तत्र चेदमनुत्तरं अथाध्याहृतस्येन्द्रियमित्स्य वायवीयमिन्द्रियमित्यर्थः । त्वगिन्द्रियमित्यत्र इन्द्रियपदस्तु यथाश्रुतपरमेव तथाच चर्मस्थिन्द्रियं वायवीयेन्द्रियमित्यर्थः चर्मस्थितत्वं चर्मव्यापकत्वं तेन घ्राणादेश्चमस्थि- तत्वेऽपि न क्षतिः देहव्यापीति च पृथग्विधयमिति न कोऽपि दोष इति चेन्महानयं क्लेशः । वायवीयेन्द्रि- यत्वं हि नानुपदमिह कण्ठोकं किंत्वातिदेशिकं । तदेव चेहाध्याहियमाणं क्लिश्नाति प्रेक्षावतः । आस्तां वा