पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली मञ्जूषा. यथाकथंचिदिहान्वयः । तथापि स्वचि स्थितमिन्द्रियमित्यर्थकथनम नुचितमेव । ब्राणादिशब्दो हि यद्यपी- न्द्रियाधिष्ठानचर्मपुटकेषु लौकिकैः प्रयुज्यते तथापि तान्त्रिकव्यवहार इन्द्रियेष्वेव सुवर्णव्यवहार इव तेजसि । तद्यथा शरीरव्यापकं स्पर्शग्राहकमिन्द्रियं त्वक त्वचो योगो मनसा ज्ञानकारणमित्यादिः । च- म तु न त्वक्शब्देन व्यवहियते किंतु चर्मशब्देन सुवर्णोपष्टम्भकभाग इव पीतिमगुरुत्वाश्रया- दिशब्दैः । यथा सुषुप्त्यनुरोधाचनमानस्संयोगस्य हेतुत्वमित्यादिः । तथाच त्वगिन्द्रियामित्यत्र परं त्व. शब्देन कथं चर्मोपाददीत विश्वनाथः कथं वा त्वगिन्द्रियमित्यस्य व्यस्तत्वे स्वशब्देन चर्मोपा. दाय तत्रेन्द्रियत्वाखभावशका कथंवा तस्य समस्तत्वे त्वक्शब्देनेन्द्रियमादाय तत्र स्थितमिन्द्रिया- न्तरमप्रसिद्धं घ्राणादे सानाद्यवच्छेदकत्वगिन्द्रियस्थितेस्सवे तु तस्य वायवीयत्वाभावाद सतिरिति शङ्का- वतरति स्वारसिकी स्वियमेव शङ्का त्वक्शब्दम्येन्द्रिय एव तान्त्रिकव्यवहारादिति दिक् । नैकान्ततश्चमैं- कायतनत्वं स्वामिन्द्रियस्य हेतुः प्रभवति साधारणत्वात् । कथ मन्यथा क्षतव्रणादिपतितमक्षिकादिस्पा- शनप्रत्यक्षमिति बोधश्च ॥ मूले देहव्यापीति ॥ देहपदं देहत्वपरम् । तथाच देहत्त्वनिष्ठस्वरूपसंपन्धा- वच्छिन्नव्याप्यतानिरूपितसंयोगसंवन्धावच्छिन्दव्यापकतावदित्यर्थः । अथवा देहपदं शरीरपरमेव तादात्म्यसं- बन्धी व्याप्यतावच्छेदकत्वेन विवक्षितः । पक्षद्वयमपि देहावयवानां द्यणुकपर्यन्तानामपि देहत्वमित्यभिप्रा- येण । नातो देहव्यापित्वस्य घ्राणादिसाधारण्यम् । अथवात्र देहपदेन देहावयवत्वं तद्विशिष्टं वा विवक्षणी- यम् । तत्र प्रथमपक्षे स्वरूप संवन्धो व्याप्यतावच्छेदकः द्वितीय तादात्म्यम् । वस्तुतस्तु देहपदं यथाश्रुतपर- मेव । समवायो व्याप्यतावच्छदकत्वेन विक्षितः । नातो घाणादिसाधारण्यम् । तत्र शरीरव्यापकमिति स्थानकथनमात्र । लक्षणन्तु स्पर्शन हकत्वे सन्द्रियत्वमेवेति नीलकण्ठो मन्यते । शरीरध्यापकत्वस्य तु ल. क्षणत्वं न संभवति । तत्तच्छरीरव्यापकत्वस्य स्वगिन्द्रियान्तरव्यावृत्तत्वात् शरीरत्वविशिष्टव्यापकत्वस्य च कुत्राप्यभावात् व्यापकतावच्छेदकधर्भवत्वस्य चेन्द्रियान्तरसाधारणत्वादिति तदभिप्रायः । शरीरव्यापकत्वे सतीन्द्रियत्वमेकं लक्षणं स्पर्शग्राहकत्वे सतीन्द्रियत्वमपरमिव्यस्मद्गुरुचरणाः । नच शरीरव्यापकत्वस्य लक्षण वे उक्त दोष इति वाच्यं शरीनिछैकमात्रवृत्तिधमावच्छिन्नव्याप्यतानिरूपितव्यापकत्वस्य शरीरत्वविशिष्टव्या- पकतावच्छेद केन्द्रियविभाजकोपाधिमत्त्वस्य वा विवक्षितत्वेनोक्तदोषाभावात् ।अथात्र मतदयेऽपि स्पर्शमाहक- खे सतीन्द्रियत्वं कालविधया स्पर्श प्रत्यक्ष कारणीभूते घ्राणादावर्तिव्याप्तं तथा प्रत्यक्षत्वावच्छिन्न का- र्यतानिरूपितेन्द्रियत्वावच्छिन्न कारणतामादायाप्यतिव्याप्तिः । एवं जन्यज्ञानत्वावच्छिन्न कार्यतानिरूपित- मनस्त्वावच्छिन्नदारणतामादाय भनस्यतिव्याप्तिरिति चेदुच्यते । स्पार्शनत्वावच्छिन्नकार्यतैवास्मद्गरच- रणैर्निवशिता अतस्तन्मते न दोषप्रसक्तिः । इन्द्रियत्वदळप्रयोजनन्तु त्वक्सन्निकर्षोद्भूतस्पर्शाद्यति- ग्याप्तिवारणं नीलकण्टमते तु स्पार्शनत्वावच्छिन्न कार्यता न निवेशयितुं शक्या कालाद्यतिव्याप्तिवार . णस्येन्द्रियत्वनिवेशप्रयोजनतया तेन कथनात् । अत एवं कार्यतायां जन्यत्वानवच्छिन्नत्वमपि. न त- दभिमतं अपितु स्पन्दस्यैव कालोपाधित्वं जन्यप्रत्यक्षत्वावच्छिन्नं प्रति. नेन्द्रियत्वेन कारणत्वमिल्य. भिप्रायेण प्राणाद्यतिव्याप्तिवारणं इन्द्रियपदस्य वहिरिन्द्रियपरतया च मनस्यतिव्याप्तिवारणं कर्त- व्यम् । मुक्तावळ्यां शरीरव्यापक स्पर्शग्राहकमिन्द्रियं त्वगित्यनन्तरं आत्मन्यतिव्याप्तिवारणाय रीरमाव्यापकमिति चर्मण्यतिव्याप्तिवारणाय स्पर्शेतीति क्वचित् पाठस्तिष्ठति । अत्र पक्षे शरीरमात्रव्या. पकत्वे सति स्पर्शग्राहकत्वं लक्षणं । अधात्र कलो मात्रपदमधिकं निविष्टं तच्च व्यर्थं समवाय. संबन्धावच्छिन्नशरीरनिष्ठव्याप्यतानिरूपितसंयोगसंवन्धावच्छिन्नव्यापकत्वस्यात्मन्यसत्त्वात् । न हात्म प्रतियोगिकसंयोगोऽस्ति येन संयोगसंबन्धेन तस्! व्यापकत्वं स्थात् मात्रपदनिवेशे वा. कथं तबाव- तनमात्मनश्शरीरेतरं प्रत्यपि संयोगेनाव्यापकत्वात् । सर्शग्राहकत्वविशेषणस्य चर्मातिव्याप्तिवारकत्वाभिधा नमप्ययुक्तं चर्मणः शरीरसमवायिमेदःप्रभृत्यवयवसंयोगित्वेनातिव्याप्तिप्रसक्त्यभावात् उच्यते शरीरावय. चत्वचोत्संयोगः किं शरीरप्रतियोगिकः उत त्वक्प्रतियोगिक इति केनेदं निश्चतुं शक्यम् । अतः