पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 मुक्तावली-प्रभा-मन्जूषा-दिनकरीय-रामरुद्रीयसमन्विता प्राणादिस्तु महावायुपर्यन्तो विषयो मतः । विषवं दर्शयति ॥प्राणादिरिति । यद्यप्यनित्यो वायुश्चतुर्विधस्तस्य चतुर्थः प्राणादिरित्युक्तमा- करे तथापि संड्रूपादेव त्रैविध्यमुक्तम् । प्राणस्त्वेक एव हृदादिस्थानवशात् क्रियाभेदाञ्च नानासंज्ञां लभते ॥ प्रभा. आकर इति ॥ प्रशस्तपादभाष्य इत्यर्थः । ननु कथं तर्हि अपानादिव्यवहार इत्यत आह ॥ हृदादीति ॥ हृदि प्राणो गुदेऽपान इत्यादिकोशप्रतिपादितस्थानभेदादित्यर्थः । मुखनासिकाभ्यां निष्क्रमणप्रवेशनात् प्रा- णः मलादीनां अधोनयनात् अपान आहारे पाकाध वहेः प्रकाशनात्समानः ऊर्ध्वं नयनादुदानः नाडीमुखे. धु वितननाध्यानः इति क्रियाभेदाच्च संज्ञापञ्चकं लभते । नहि संज्ञाभेदमात्रेण संज्ञिभेदेः संभवति तथासति पाकक्रियापाटक्रियागानक्रियाकर्तरि एकस्मिन् पुरुषे पाचकपाठकगायकव्यवहारभेदात् व्यवहर्तव्यभेदापते. रिति भावः ॥ इति मुक्तावळीप्रभायां द्वितीयपरिच्छेदे वायुग्रन्थः समाप्तः । मजूपा. शरीरव्यापकत्वं सर्वावयवावच्छेदेन शरीरसंयोगित्वं शरीरीयसर्वावयबसंयोगित्वमेव वा । तत्संयो. गित्वं तद्वृत्तिसंयोगवत्त्वम् । तच्चात्मन्यपि गतमतो मात्रपदम् । तदर्थश्च न शरीरेतरासंयोगित्वं त्व, चोऽपि तादृशघटादिसंयोगित्वात् । किंतु शरीरातिरिक्तस्य महतः प्रकृष्टमहत्त्ववतो वा द्रव्यस्य या- वाद्भरवयवैयुगपदसंयोगित्वरूपं शरीरेतराव्यापकत्वम् । तथाच यथोपदर्शितशरीरेतराव्यापकत्वे सति शरीरव्यापकत्वे सति स्पर्शप्राहकत्वं लक्षणम् । आत्मवारणाय प्रथमदळ, मनोवारणाय द्वितीयं चर्मवारणाय तृतीयं । एतच्च चर्मणस्सर्वावयवसंयोगित्वमस्तीत्यभिप्रायेण । अन्यथा पुनस्सर्वशरीरा- व्यवसंयोगिनि ज्वराष्मण्यतिव्याप्तिवारणं तत्प्रयोजनमिति चोध्यम् । अथवा शरीरावयवभिन्नो यश्श- रीरासंयुक्तदेशः तदसंयोगित्वं शरीरमात्रव्यापकत्वम् । नहि चर्मणस्त्वचो वा तादृशदेशसंयोगित्वमस्ति । मनस्तु शरीरासंयुकैरान्तरपवनपरमाणुभिरेवान्तः कदाचित्संयुज्यत इति न तत्रातिव्याप्तिः । स्पर्शग्राहकत्वं च परकीयस्प साक्षात्कारजनकत्वम् । अतो न स्वीयस्पर्शग्राहकतामादाय चौद्यतिव्याप्तितादचस्थ्यं द्रव्यत्व- 'स्य संयोगित्वस्य वा विशेषणत्वस्वीकारात् त्वक्सन्निकर्षाचतिव्याप्तिनेत्यलमधिकेन । घ्राणरसननयनानां प्राग्ल. क्षणान्यनभिधाय त्वगिन्द्रियस्येदानी लक्षणाभिधाने इच्छंव नियामिका ॥ अङ्गसङ्गीति । यद्यपि सर्व- स्यैव वायोः प्रायशस्त्वक्संयुक्तसमवायरूपसन्निकर्षघटकतया स्वीयस्पर्शव्यञ्जकत्वेन दृष्टान्तत्वसंभवः एवमनु. भूयमानारोपजनकदोषविधया वस्त्वन्तरे स्वीयस्पर्शव्यञ्जको वायुरिति स्वेदस्पर्शव्यञ्जकवायुविशेषपर्यन्तानुधा- वन व्यर्थं तथापि शिष्यप्रतिपत्तिसौकर्याय तथोक्तमिति बोध्यं यद्वा स्वीयस्पर्शव्यञ्जके ऊष्माख्यतेजोविशेपे व्य. भिचारवारणाय परकीयस्पर्शाव्यचकत्वमेव हेतुर्वान्च्य इत्यभिप्रायेण वायुविशेषपर्यन्तानुधावनम् ॥ ४३ ॥ दिनकरीयम्. आकरे प्रशस्तपादभाष्यादौ ॥ प्राणस्त्वेक एयेति ॥ कथं तबपानादिव्यवहार इत्यत आह || स्थानवशादिति ॥ हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वश- रोगः इति स्थानगेदादित्यर्थः ॥ क्रियाभेदाच्चेति ॥ मुखनासिकाभ्यां निष्क्रमणप्रवेशनात्प्राणः मलादी- नामधोनयमादपानः आहारेघु पाकार्थ वढेः समुन्नयनात्समानः उदूर्व नयनादुदानः नाडीमुखेषु वितननाड्या. न इति क्रियाभेदाद्धि पञ्चसंज्ञा लभते न तु संज्ञाभेदेन संज्ञिभेद इति भावः ॥ ॥ इति वायुग्रन्थः ।। रामरुद्रीयम्. हृदि प्राण इत्यादेः हृन्मात्रावच्छिन्न इत्यादिरेथः । यथाश्रुते व्यानस्यापि प्राणत्वापत्तिः । सगुन्नयनमुद्दीपनं वायुसखत्वेन वायुसहकारेणैव तदभिवृद्धिरिति भावः । वितननादन्नरसस्य विस्तारणांदित्यर्थः ॥ ॥ इति वायुप्रन्थः॥ 46