पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली मञ्जूषा. संक्षेपादिति ॥ लाघवादित्यर्थः । अयमभिप्रायः । अनित्यवायुश्चतुर्विधः शरीन्द्रियविषयप्राणभेदादिति विभाग विभाजकतावच्छेदकं विषयत्वं न शरीरेन्द्रियभिन्नत्वे सति भोगसाधनत्वरूपं तस्य प्राणसाधारणत्वात् किन्तु प्राणभिन्नत्वविशेषितमेव तद्वाच्यामिति गौरवम् । अन्यथा विभाजकतावच्छेदकीभूतविषयत्वशरीरे व्यजनवायुभिन्नत्वमपि निवेश्य व्यजनवायोः पञ्चत्वेन विभागोपेक्षा निर्वाजा स्यात् । नचैवं तत्र शरीन्द्रि- यभिन्नत्वं निवेश्य तयोः पृथक्करणमध्ययुक्तमिति वाच्यं इदं शरीरं इदमिन्द्रियं अयं च ताभ्यामन्यो विषय इति परिज्ञानाय तथोक्तत्वात् । यद्यपि इदं शरारं इदं इन्द्रियं अयं प्राणोऽयं च तेभ्योऽन्यो विषय इति परिज्ञानाय प्राणभिन्नत्वमपि निवेशयितुं युक्तम् । नाहि व्यजनवायुवतुल्यं प्राणत्वं येन तदनावश्यकप- रिक्षानं स्यात् । प्राणत्वं हि श्रुतिस्मृतियूद्धष्टमवश्यविज्ञेयम् । तथापि यथा शरीरत्वमिन्द्रियत्वं तदन्यविषयत्वं च पृथिव्यप्तजोवायुसाधारण न तथा प्राणत्वं किन्तु सिन्धुन्वाग्नित्वादितुल्ययोगक्षेमं विषयेषु परि- गणनादव मुज्ञेयं न विभाजकतावच्छेदकतयावश्यवक्तव्यं अन्यथा जलादी सिन्धुत्वादरपि तधात्वस्य सक्तव्यतया तदुपेक्षाया निर्योजतापत्तरिति । अत्र वदन्ति । पृथिव्यादीनां वेधा विभागोऽनुपपन्न: इन्द्रियस्याळाकत्वात् । तथाहि मनोऽतिरिक्तेन्द्रिय सद्भावे मानाभावः । नासानायवस्थितेन मनसैच घ्राण- जादिप्रत्यक्षजननसंभवातू । प्राणजादिप्रत्यक्षे मनसस्तव मते घ्राणादिभिरिव मन्मते नासाग्रादिभिस्संयोग- स्य कारणतास्वीकारेणातिप्रसाभजात् । कारणक्येऽपि नासाग्रावस्थितत्वविशिष्टमनस्त्वाद्यात्मककारणताब च्छेदकीभुतघ्राणत्वादिभेदेनैव घ्राणजादिप्रत्यक्षाणां मिथो वैलक्षण्यनिर्वाहात् वस्तुतस्तु सर्वत्र मनस्त्वमेव कारणतावच्छेदकं कार्यतावच्छेदकं तु घ्राणजत्यादिकं जन्य प्रत्यक्षत्वमेव वा नासाग्रमनस्संयोगादीनां विशे. पसामग्रोवाङ्गीकारणोक्तदोषाभावात् अथैवमसनिकृष्टगन्धादिप्रत्यक्षापत्तिः । नच घ्राणजादी नासाग्रमनस्सं. योगादीनां न हेतुता किन्तु नासाग्रावच्छेदेन यन्मनस्संयुक्त तत्समवायादेरेव अती न दोष इति वाच्यम् । एवमप्यणोस्तस्य युगपन्नानावस्तुसंयोगासंभवेन समूहालम्बन प्रत्यक्षमाविलोपप्रसङ्गात् चाक्षुषस्थले मनसो गोलकामावच्छेदेन विषयसंयोगस्यासंभावितत्वाच । उच्यते । समूहालम्बनलौकिक प्रत्यक्षमसिद्धमेव कित्व. विलम्बोत्पादमात्रेण नानाविषयाणां शाखाशीतमयूखयोरिव युगपदुल्लेखाभिमानमात्रम् । तत्र च घ्राणजे रा. सनं त्वाचं च नासाप्राद्यवच्छेदेन मनसो विषयसंयोगे सत्येव भवति चाक्षुषं तु गोळकानिर्गतस्य मनसो विषयसंयोगे । आस्तां वा घ्राणजादावपि क्वचित् गोलकान्निर्गतस्यैवास्य विषयसंयोगेनापि कारणत्वम्। स्यादेतत् । एकदेशमानदृष्टस्पृष्टयोर्वस्तुनोः परिमाणविशेषग्रहणाभावात् भूयोऽवयवावच्छेदेन चक्षुस्त्वचो- विषयसंयोगस्तत्र कारणमिति वक्तव्यं तच्च न सङ्गच्छते मनसोऽणुत्वेन भूयोऽवयवावच्छेदेन विषयसंयोगा- संभवात् । नैष दोषः । यादृशयादशपरिमाणग्रहे यावद्यावद्वयवावच्छिन्नेन्द्रियसंयोगस्य हेतुतां त्वभिधत्से तावद्भिरेवावयवैः प्रत्येकमवच्छिन्नानां गोलकनिर्गमनोत्तरकालीनानामव्यवहितानां मनस्संयोगानां चरमस्य संयोगस्य च तत्र हेतुत्ताया अस्माभिरभिधानात् । एवमन्येऽपि दोषाः शक्यपरिहाराः । प्राणेन्द्रियं पार्थिवामित्यादीन्यनुमानानि याप्रयोजकानि मनष्षष्टानीन्द्रियाणीत्यादिस्मृतयश्च घ्राणजा- दिकार्यभेदाभिप्रायाः । वस्तुतस्तु नासाग्रमेव घ्राणं जिह्वानमेव रसनं कृष्णताराप्रमेव चक्षुः चर्मैव त्वक् शरीरमेव चा तत्तन्मनस्संयोग: तत्तजन्यप्रत्यक्षे कारणं तथा विषयेषु तत्तत्संयोगोऽपि चाक्षुषे तु चक्षुस्संयोगो न कारणं किन्तून्मीलनं सिद्धान्तिनोऽपि चक्षुर्विषयसंयोगहेतुतयो- न्मीलनस्याचझ्यकत्वात् । अधोन्मीलनस्य जन्यतावच्छेदकं यदि सामान्यतो द्रव्यचाक्षुषत्वं तदा सर्वेषामेव द्रव्याणामविशेषेण चाक्षुषापत्तिः । यदि तत्तन्मीलनव्यस्तद्विषयकचाक्षुषत्वं तदाननुगमः मम तु विषयत- या द्रव्यचाक्षुषं प्रति चक्षुस्संयोगस्य समवायेन हेतुतानीकारान्न दोषः । उच्यते यद्यपि चाक्षुषकारणता त. वानुगता तथापि चक्षुषस्तत्तत्संयोग तत्तदनुकूलतत्तरिक्रयाविशेष प्रति चोन्मीलनस्य तत्तयक्तित्वेनैव कारण- ता वाच्येति तदंशे साम्यमेव । नान्मीलनस्य सामान्यतः पुरोवर्तिदेशचक्षुस्मयोगत्वं जन्यतावच्छेदकंभ वति पुरोवृत्तित्वस्य दुर्वचत्वात् पार्श्ववर्तिनोऽपि वस्तुनश्चक्षुस्संयोगाच । ततश्चाक्षुषं प्रति चक्षुस्संयोगस्य का- -- 1