पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली मत्त्वात् स्पर्शवत् शब्दो द्रव्यसमवेतः गुणत्वात् रूपवदित्यनुमानेन शब्दस्य द्रव्यसमवेतत्वे प्रभा. साध्याभावाध्यभिचार इति वाच्यं जातौ द्रव्यावृत्तित्वेन विशेषणीयत्वात् नचैवं सति उक्तविशेषणेनैव मनस्वात्मत्वजातिमादाय मनसि आत्मनि च व्यभिचारवारणे जातो बहिन्द्रिय प्राधत्व विशेषर्ण व्यर्थमिति वा. च्यं इष्टत्वात् जातो द्रव्यावृत्तित्वलाभायैव तादृशविशेषणदानात् । एवं च सति कर्मत्वजातिमादाय कर्मण्यतिच्याप्तिवारणायैव चक्षुर्ग्रहणायोग्यत्वविशेषणं । एवंच चाक्षुषनिरूपितलौकिकविषयताशून्यद्रव्या- तिजातिमत्त्वादिति परिष्कृतो हेतुरिति बोध्यम् । एतावता परिशेषानुमानेन विशेष्यासिाद निराकृत्येदानी मञ्जूषा. हि चक्षुर्ग्रहणायोग्यत्वं बहिरिन्द्रियग्राह्यत्वं च नोपपयेत न तद्वृत्तिजातरिति कथं हेतूच्छित्तिारति वाच्यं आश्रययोग्यत्वाभाचे जातेरपि योग्यत्वासंभवात् । भव्यमते स्वनुकूलतर्को दुर्लभः । अथ नव्यमते द्रव्यचा- क्षु प्रत्युद्भूतरूपस्य द्रव्यस्पार्शनं प्रत्युद्भूतस्पर्शस्यात्ममानसं प्रति तादात्म्येनात्मनश्च कारणतथा महत्त्वा- दिघटितसामान्यसामग्या फले जननीय उद्भूतरूपोद्भूतस्पर्शयोस्तादात्म्येनात्मनश्च विशेषसामग्रीत्वस्याच- श्यकलेन चक्षुरादाविव शब्देऽपि द्रव्यप्रत्यक्षोत्पादो न संभवतीत्यस्त्येवानुकूलतकं इति चेन्न शब्दस्यापि ता- दात्म्येन विशेष सामग्रीत्वसंभवात् न्यायमतेऽपि गुणप्रत्यक्षसामान्य सामय्या फले जननीये तस्य विशेषसा- मग्रीत्वावश्यंभावेन द्रव्यप्रत्यक्षे तस्य विशेषसामग्रीत्वसंभवे गौरवाभावादिति । किन्तु नव्य मते गुणत्वजातेर- नङ्गीकारानेदमनुमानमावश्यकम् । नवं शब्दस्य द्रव्याश्रितवासिद्धिप्रसङ्गः जन्यभावत्वेनैव तसिद्धिसंभवा- त् । जन्यत्वं च गुणनिरूपणे अन्यकृदेव साधयिष्यति । नचैवं नव्यनये शब्दस्य द्रव्यत्वनिराकरणानुपपत्ति- रिति वाच्यं जन्यत्वे. सत्यनेकद्रव्यसमवेतत्वाभावेन व्यभिन्नत्वसाधनसंभवात् । शब्दस्यानेकद्रव्यसमवेत- दिनकरीयम्. आत्मनि व्यभिचारव्यावृत्तये बहिरिन्द्रियग्राह्येति । रसत्वादी व्यभिचारबारणाच जातिमदिति । एतच्चानुमा. नमग्रिमद्रव्यसमवेतत्वसाधकानुमाने स्वरूपासिद्धिनिरासायति वोध्यम् । गुणत्वादिति ॥ एतदनुमानेनो- रामरुद्रीयभू. दिति भावः ॥ चक्षुरित्यादि । चक्षुर्जन्यलौकिकप्रत्यक्षस्वरूपायोग्यत्वे सतीति सत्यन्तार्थः । घटः शब्दा- वच्छेदक इति शब्दांश अलौकिकविषयताशालिचाक्षुषं प्रति शब्दस्यापि स्वरूपयोग्यतया स्वरूपासिद्धिवारणाय लौकिकत्व निवेशः तादृशप्रत्यक्षाविषयत्वोकौ चक्षुस्संयोगाद्यभावेन तादृशप्रत्यक्षाविषयघटादौ व्यभिचारता. दवस्थ्यमतः स्वरूपयोग्यताप्रवेशः सा च उद्भूतरूपं नयनस्य गोचर इत्यादिना पारंगणितानामेवेति भावः । बहिरिन्द्रियग्राह्येति ॥ बहिरिन्द्रियग्राह्यत्वं वहिरिन्द्रियजन्यलौकिकप्रत्यक्षविषयत्वम् । आत्मनि व्यभि- चारवारणाय लौकिकत्वनिवेशः । अथात्सनीन्द्रियग्राह्यद्रव्यत्वादिजातिसत्त्वाद्वयभिचारो दुर्वार एव । न च स. सन्तं जातावेच विशेषणमस्तु तथा च द्रव्यत्वस्य चक्षुर्ग्रह्णयोग्यत्वान्न तदादायात्मनि व्यभिचार इति वा- च्यम् । तथासति चाक्षुषाविषयत्वोक्त्यैव सामजस्ये योग्यताविशेषनिवेशनवैयर्थ्यांपत्तेः चाक्षुषाविषयबहि- रिन्द्रियग्राह्यगुणावृत्तिजातौ मानाभावेन तादृशजातिमादाय व्यभिचाराप्रसकरिति चेन्मैवं । बहिरिन्द्रियग्रा. झजातिमत्त्वादित्यस्य वहिरिन्द्रियग्राह्यत्वे सति जातिमत्त्वादिस्यर्थकतया आत्मनि व्यभिचारानवकाशात् शब्दध्वंसादौ व्यभिचारवारणायैव जातिमत्त्वस्य सार्थकत्वाच । न चैवं भागासिद्धिरिति वाच्यम् बहिरि- न्द्रियाग्राह्यशब्दसंभवेऽपि शब्दत्वसामानाधिकरण्येन अष्टदव्यातिरिक्तद्रव्याश्रितत्वसिद्धयाप्याकाशासद्धिसम्भ- वेन शब्दत्वावच्छेदेन गुणत्वसाधने प्रयोजनाभावेन सामानाधिकरण्येन गुणत्वासद्धेरुद्देश्यत्वात् सामानाधि. करण्येन साध्यसिद्धरुद्देश्यतायां भागासिद्धेरदोषत्वात् ॥ रसत्वादिव्यावृत्तये ॥ रसत्वादौ हेतौरभावज्ञाना. येत्यर्थः । अन्यथा चक्षुर्ग्रहणायोग्यत्वे सति रसनेन्द्रियग्राह्ये रसत्वे गुणत्वाभावेन व्यभिचारापत्तेरिति भावः । शब्दे गुणत्वानुमानस्य प्रकृतोपयोगितां दर्शयति । पतञ्चेति ॥ द्रव्यसमवेतत्वानुमानस्य फलमाह ॥ एत. दनुमानेनेति ॥ विशेषाभावसहकृतसामान्यहेतुकानुमान परिशेषानुमानं स्पर्शवन्यविशेषस्य गुणो नेति -