पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रभा. मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । सिद्धे शब्दो न स्पर्शवाद्विशेषगुण: अग्निसंयोगासमवायिकारणकत्वाभावे सति अकारणगुण- पूर्वकप्रत्यक्षत्वात् सुखवत् । पाकजरूपादौ व्यभिचारवारणाय सत्यन्तम् । पटरूपादौ व्यभिचार- वारणायाकारणगुणपूर्वफेति । जलपरमाणुरूपादौ व्यभिचारवारणाय प्रत्यक्षेति । शब्दो न विशेषणासिद्धिं निराकरोति । शब्दो न स्पर्शवद्विशेषगुण इति ॥ पृथिव्यादिचतुष्टयान्यतमसमवेत- विशेषगुणत्वाभाववानित्यर्थः ॥ अकारणगुणपूर्वकेतीति ॥ नचैवमपि यत्किंचित्पटगतरूपस्य पटान्तर- समवेतरूपं प्रति यदसमवायिकारणं तत्पूर्वकत्वाभावेन तत्र विशिष्टहतोस्सत्त्वायभिचारो दुार इति वाच्यं अकारणगुणपूर्वकत्यस्य स्वाश्रयसमवायिकारणसमवेतगुणासमवायि कारणकं यद्यत्स्वं तत्तयक्तित्वावच्छि. नप्रतियोगिताकभेदकूटवदर्थकतया पूर्वोक्तदोषाभावात् । वस्तुतस्तु अकारणगुणपूर्वकेल्यस्य स्वाश्रयसमवायि- कारणसमवेत गुणासमवायिकवृत्तिगुणविभाजकधर्मशून्यार्थकत्वमेव पूर्वोक्तरीत्या भेदकूटनिवेशे दुयित्वापतेः गौरवाच । एवंच सति पादेः परमाणुरूपादेश्च तादृशगुणविभाजकधर्मशुन्यत्वाभावेनैव व्यभिचारवा. रणे अग्निसंयोगासमवायिकारणकत्वाभाचे सतीति विशेषण प्रत्यक्षत्वरूपविशेष्यदलं चाव्यावर्तकत्वेन व्यर्थमि- मजूषा. स्वाभावश्च तदाश्रयानेकद्रव्य कल्पने गौरवप्रसङ्गादेव सिध्यतीत्यन्यदेतत् । अत्र वदन्ति मास्तु शब्दो द्रव्यं तथापि तस्य न गुणत्वमभ्युपगच्छामः किंत्वतिरिक्तत्वं नचैवं पदार्थान्तरकल्पने गौरवमिति वाच्यं विचारासहत्वात् । तथाहि शब्दस्यातिरिकत्वे कुतोऽस्माकं गौरवं नहि शब्दस्त्वदनभिमतः येन ततोऽस्माकं गौरवं स्यातू प्रत्युत तास्मन् गुणत्वजातिकल्पने तवैव गौरवं नच तस्मिन् गुणत्वजातिसंवन्धाभावस्त्वया कल्प- नीय इति साम्यामिति वाच्य प्रतियोगिग्राहकप्रमाणाभावनिवन्धनस्यात्यन्ताभावस्य प्रतियोग्यसिद्धथैव सिद्ध- स्वात् अन्यथा अतिप्रसङ्गात् । कर्णशष्कुल्यां च तस्य स्वरूपं समवायो वा सन्निकर्षः तस्य समवाय्यन्तरं क रूपयाद्भः यस्मिन् यस्मिन् देशे अवच्छेदकत्वं कल्प्यते तस्मिन् तस्मिन् अम्माभिः स्वरूपसंबन्धात्य समवा. यस्य वा कल्पनेन गौरवाभावात् । प्रत्युत समवाय्यन्तरं फेल्पयतां परेषामेव गौरवामिति । एतच्च भगवत्सूत्र- कारानभिप्रेतत्वादुपेक्षणीयं एतेन संयोगिद्रव्यं शब्दः दूरतो भेयाँ प्रहतायां आगच्छति शब्द इति प्रतीतेः । अत एव आकस्मिकोत्पन्नशब्दप्रतिहतं शिथिलकुड्यादिकं डोलायते दीर्यते शीर्यति च हठात् स्फुटन्ति च श्रव- णपुटेषु घटमानाः रिजूषपिण्डा विशिष्य तथा नयनगोलकाण्डा विघटिते भ्रमन्ति पतन्ति व स्पृश्यते चानुभव- रसिकैः सूक्ष्मदर्शिभिः अदूरदेशपरिप्लुटायसशतानीनिष्पतनजन्मा निष्ठुरतरो निर्हादः कर्षन्निव देंहमाभिधावन्न. तस्पर्शवानपि शब्द: सच स्पर्शः काचिदुद्भुतः क्वचिदनुभृतः ततश्च स्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभा- गपरत्वापरत्ववेगाख्यगुणनवकवान् सावयवद्रव्यं शब्द इति वदन्तोऽपि भगवत्सूत्रकारोक्तिविरोधादेवोपे- क्षणीयाः । शब्दस्य सावयवत्वेऽनन्तावयवतन्नाशादिकल्पनागौरवाच्चेत्यलमधिकेन ॥ शब्दो न स्पर्शव- द्विशेषगुण इति ॥ ॥ इतः परं मम्जूषायां मातृकानुपलम्भात न मुद्यते ॥ दिनकरीयम्, तपरिशेषानुमाने हेतौ विशेष्यासिद्धिनिरस्ता । विशेषणासिद्धयुद्धारायाह ॥ शब्दो न स्पर्शवद्विशेष- गुण इति ॥ न स्पर्शवतो द्रव्यस्य पृथिव्यादिचतुष्टयस्थ विशेषगुण इत्यर्थः । अकारणगुणपूर्वकमत्य. क्षत्वादिति ॥ अकारणगुणपूर्वकत्वे सति प्रत्यक्षत्वादित्यर्थः । हेतुसत्त्वं प्रतिपादायतुं पाकजेति ॥ जलप- रामरुद्रीयम्. साधने पृथिव्यादियत्किञ्चि व्यविशेषगुणत्वाभावासद्धी उद्देश्यभूतस्पर्शवव्य सामान्यविशेषगुणत्वाभावासि. द्धिरतो व्याचष्टे ॥ न स्पर्शवत इत्यादि । अपाकजत्वे सत्यकारणगुणपूर्वकप्रत्यक्षस्य विषयत्वादित्यस्य हेतुत्वे कारणगुणपूर्वकरूपादौ व्यभिचारः आत्मनः कारणाभावेन प्रत्यक्षमात्रस्यैवाकारणगुणपूर्वकत्वादतस्तदर्थमाह ॥ अकारणेति ॥ पाकजेतीति ॥ पाकजत्वोक्लैव कारणगुणजत्वाभावलाभेनाकारणगुणपूर्वकत्वे सति प्र-