पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली दिकालमनसा गुणः विशेषगुणत्वात् रूपवत् । नात्मविशेषगुणः बहिरिन्द्रिययोग्यत्वात् रूप- वत् । इत्थंच शब्दाधिकरणं नवमं द्रव्यं गगनात्मकं सिध्यति । न च वाय्ववयवेषु सू- प्रभा. ति चेत् इष्टमेवैतत् । एतादृशगुणविभाजकधर्मशून्यत्वलाभायैव दलद्वयोपादानमिति प्रतिभाति ॥ न दि- कालेति ॥ शब्द इत्यनुवर्तते । दिक्कालमनोऽन्यतमसमवेतगुणत्वाभावधानित्यर्थः ॥ विशेषगुणत्वादि. ति ॥ रूपादिचतुष्टयशब्दान्यतमत्वादित्यर्थः । यथाश्रुते दृष्टान्तपक्षसाधारणविशेषगुणत्वस्याभावेऽपि न क्ष- तिः ॥ पहिरिन्द्रिययोग्यत्वादिति ।। मनोभिनेन्द्रियजन्यज्ञाननिरूपेतलौकिकविषयताववादित्यर्थः । मानसानिरूपितलौकिकविषयताश्रयगुगविभाजकधर्मवत्वादिति फालतोऽधः । तेनाऽऽयशब्दस्य लौकिकविष- यताशून्यत्वेऽपि न भागासिद्धिः नवा गौरवमिति ॥ इत्थं चेति ॥ पूर्वोक्त प्रकारण पृथिव्याधष्टद्रव्यासमवतत्व सिद्धी चेत्यर्थः ।। सिध्यतीति । पूर्वोक्तपरिशेषानुमानन लाघवज्ञानसहकृतेन सिध्यतीत्यर्थः । ननु शब्दस्य वि-- शेषगुणत्व एव प्रमाणाभावात् तेन दिवाल गुणत्वाभाव साधनासंभवेन कथमतिरिक्ताकाशासाद्धारात चेन्न शब्दो विशेषगुणः चाक्षुषनिरूपितलौकिकविषयत्वचाक्षुषाम्यनिरूपितलौकिकविषयत्वोभयाभावविशिष्टलौकिक- विषयताविशिष्टगुणविभाजकधर्मवत्त्वादित्यनुमानस्यैव प्रमाणत्वात् । अत्र हेतुतावच्छेदकसंवन्धस्समवायः । संख्यात्वमादाय व्यभिचार वारणायोभयाभावविशिष्टत्वं धर्मविशेषणं । गुरुत्वत्वमादाय व्यभिचारवारणाय. लौकिकविषयताविशिष्टःवमपि धर्माविशेषणम् । प्रभावमादाय व्यभिचारवारणाय गुणविभाजकत्वमपि धर्म. विशेषणम् । तथाच विशेषणत्रयांवशिष्टधर्मवत्त्वं समवायेन हेतुरिति फालतम् । नच सांसिद्धिकद्रवत्वस्नेहा. दिषु निरुक्तहेत्वभावात् कथं विशेषगुणत्वासद्धिरिति वाच्यं हेत्वन्तरेणैव साधनोयत्यात् । तथाहि स्नेहसां- सिद्धिकदवत्वधर्माधर्मभावनाः विशेषगुणा द्रव्यविभाजकोपाध्यकैकाधिकरणसमवेतमात्रवृत्तिगुणत्वन्यूनवृत्तिजा- तिमत्त्वात् ज्ञानवदित्यनुमानात् तेषामपि विशेषगुणत्वासाद्धः । अत्र संख्यात्वादिकमादाय व्यभिचारवारणा. य तादृशसमवेतमात्रवृत्तित्वं जातिविशेषणं । तादृश समवेतेतरासमवेतत्वं तदर्थः । घटत्वादिकमादाय व्यभि- चारवारणाय गुणत्वन्यूनवृत्तीति । स्थितस्थापकत्वस्य जातिवाभावात् न तत्र व्याभिचारः । तदपि समवायसंब- न्धेन हेतुत्वलाभायैतादृशानुमानस्य शुक्लरूपमधुररसस्पर्शानां विशेषगुणत्वासाधकत्वेऽपि न क्षतिः पूर्वोकानु मानेनवासिद्धेः । विशेषगुणलक्षणं च गुणनिरूपणांवसरे वक्ष्यते । शब्दस्य स्पर्शवद्विशेषगुणत्वाभावसाधकहे- दिनकरीयम्. रमाण्विति ॥ अनित्यानां थवरूपादीनां केपाश्चिदग्निसंयोगासमवायिकारणकत्वात् केषाञ्चित्कारणगुण. पूर्यकत्वादत्रोपेक्षा ॥ न दिक्कालेति ॥ शब्द इत्यनुवर्तते ॥ बहिरिन्द्रियेति॥ मनसोऽन्यदिन्द्रियम् ॥ योग्य त्वात् प्रत्यक्षत्वादित्यर्थः । एतेनानात्मगुणग्राहकेन्द्रियत्वं बालेन्द्रियत्वं तच्च मनस्यतिप्रसक्तं तेनापि रूपादि- प्रहणादिति निरस्तम् ॥ इत्थं च अनेन प्रकारेण पृथिव्याद्यष्टद्रव्यानाश्रितत्त्वसिद्धौ च ॥ सिध्यतीति ॥ पूर्वोक्तपरिशेषानुभानेन सिध्यतीत्यर्थः । नन्वेतत्सर्वं तदोपपद्येत यदि शब्दस्य विशेषगुणत्वे किश्चित्प्रमाणं स्यात्तत्रैव मानं न पश्याम इति चेन्न । शब्दो विशेषगुणः लौकिकप्रत्यासत्येन्द्रियग्राह्यत्वे सति लौकिकप्रत्या. सत्त्या द्वीन्द्रियग्रहणयोग्यताराहिये व सति गुणत्वव्याप्यजातिमत्त्वादित्यनुमानस्यैव तत्र प्रमाणत्वात् । रामरुद्रीयम्. त्यक्षस्वरूपहेतुप्रतिपत्तिसंभवादिति भावः ॥ अत्रोपेक्षति ॥ अत्र प्रत्यक्षत्वदलव्यावृत्तिप्रदर्शन उपेक्षा तेषा. मप्रणम् ॥ तत्प्रत्यक्षत्वात् ॥ तज्जन्यप्रत्यक्षविषयत्वादित्यर्थः ॥ प्रमाणं स्यादिति ॥ शब्दस्य सा. मान्यगुणरवे अष्टद्रव्यानाश्रितत्वरूपविशेषणासिद्धिप्रसङ्गात्कर्मजसंयोगादौ व्यभिचारेण उक्तहेतुना स्पर्शधद्- णभेदसाधनासम्भवेन स्पर्शवद्विशेषगुणभेदसाधने च स्पर्शवतो सामान्य गुणत्वसम्भवादिति भावः ॥ लो- किकप्रत्यासत्त्येति ॥ इदं च गुरुत्वत्वादेरप्युपनय सन्निकर्षेणेन्द्रिय प्राह्यत्वमादाय व्यभिचारवारणाय द्विती- यमपि एतादृशपदं शब्दस्पर्शयोरप्युपनयसन्निकर्षेण चक्षुह्यतया असिद्धिवारणायैव ॥ द्वीन्द्रियोति ॥ जाती तत्तदिन्द्रियग्रहणयोग्यत्वं तत्तदिन्द्रिययोग्यवृत्तित्वमेव द्वीन्द्रियपदं तु विजातीयेन्द्रियद्वयपरं बोध्यम् । अन्यथा क-