पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमान्विता । - क्ष्मशब्दक्रमेण वायौ कारणगुणपूर्वकः शब्द उत्पद्यतामिति वाच्यं अयावहव्यभावित्वेन बायोर्विशेषगुणत्वाभावात् ॥ ४४ ॥ इन्द्रियं तु भवेच्छ्रोत्रमेक: सन्नप्युपाधितः । तत्र च शरीरस्य विषयस्य चाभावादिन्द्रियं दर्शयति ।। इन्द्रियमिति ।। नन्वाका- शं लाघवादेकं सिद्धं श्रोत्रं पुरुषभेदाद्भिनं कथमाकाशं स्यादिति चेत्तत्राह ॥ एकासन्नपी- ति ॥ उपाधेः कर्णशक्कलीभेदाद्भिनं श्रोनं भवतीत्यर्थः ॥ प्रभा. तोः स्वरूपासिद्धत्वं बाधितत्वं चाशते । नचेति ॥ कारणगुणपूर्वक इति ॥ कारणगुणपूर्वकत्वति. तहेतोः स्वरूपासिद्धत्वं स्पर्शवद्वायुविशेषगुणत्वसाधकत्वात् तदभावसाधने बाधितत्वं चेति भावः । अया- वव्यभावित्वेनेति ॥ आश्रयनाशाजन्य नाशप्रतियोगित्वेनेत्यर्थः । त्रिक्षणवृत्तिध्वंसप्रतियोगित्वेनेति फलि. तोऽर्थः ॥ वायुविशेषगुणत्वाभावादिति ॥ तथाच तादृशप्रतियोगिवस्य- वायुविशेषगुणत्याभावव्या- प्यत्वादिति भावः ।। ४४ ॥ ननु आकाशीयशरीरनिरूपणमुपेक्ष्य इन्द्रियं तु भवेच्छोलामत्यनेन कथमादौ इन्द्रियनिरूपणमत आह ॥ तत्र वेति॥ विषयस्य चेति ॥ इन्द्रियभिश्नविषयस्य चेत्यर्थः । कर्णशकुलीभेदादिति । तथाच तत्तत्पुरु. दिनकरीयम्. प्रभावमादाय व्यभिचारवारणाय गुणत्वच्याप्यति । गुरुत्त्रत्वमादाय व्यभिचारवारणाय प्रथम सत्यन्तं सङ्ख्यात्वमादाय व्यभिचारवारणाय द्वितीयं सत्यन्तम् । सोसिद्धिकद्रवत्वस्नेहधर्माधर्मभावनामु प्रकृतहे तोर- भावेऽपि तत्र हेवन्तरेणैव विशेषगुणत्वं साधनीयमिति । पूर्वोक्तानुमाने बाधं स्वरूपासिद्धिं चाशते ॥न चेति ॥ वायाविति ॥ तथा च स्पर्शवद्वायुगुणत्वस्य तत्र सत्त्वात्तदभावसाधने बाध इति भावः। णगुगपूर्वक वकथनं स्वकारणपूर्वकत्वघटितहेतोरसिद्धिप्रदर्शनार्थम् ॥ अयावद्दव्यभावित्वेनेति ॥ स्वाध- यनाशजन्यनाशप्रतियोगि यद्यत्तद्भिवत्येनेत्यर्थः । ननु तथाप्याकाशे प्रत्यक्षमेव प्रमाणं किमिति नोपन्यस्त- मिति चेन्न चाक्षुषत्वप्रयोजकस्य महत्त्वे सत्युद्भूतरूपवत्त्वस्याकाशेऽसम्भवेन चक्षुषः प्रसाजनकत्वासम्भवात् । ननु यद्याकाशो न चाक्षुषस्तदेह पक्षीति चाक्षुषाधिकरणत्वेन किं भासते इति चेदालोक एवेति परिकलय ॥ ४४ ॥ नन्वाकाीयशरीरविषययोः प्रदर्शनमुज्नित्वा कथमिन्द्रियप्रदर्शनमिन्द्रियं तु भवेच्छोवमित्यनेन ग्रन्थेन क्रियत इत्याशङ्कशाह ॥ तत्र चेति ॥ आकाशे चेत्यर्थः ॥ कर्णशकुलीभेदादिति ॥ चैत्रादिकर्णशकु. रामरुद्रीय. पादीनामपि चक्षुद्रयग्रहणयोग्यतया द्वीन्द्रियग्रहणायोग्याप्रसिद्धः । यद्यपि संख्यात्वादीनां सर्वासामेव जातीनां कालभेदेन पुरुषभेदेन च द्वीन्द्रियग्राह्यतया द्वन्द्रियाग्राह्यत्वे सतीत्येव वक्तुमुचितं योग्यतानिवेशे प्रयोजनाभा- वात्तथापीन्द्रियद्वयजन्यत्वस्य काप्यसम्भवेनामांसद्धया पत्त्या तथा नोकम् । नच स्वात्मकेन्द्रियजन्यग्रहविष यत्वस्वभित्रविजातीयेन्द्रियजन्यग्रहविषयत्वासयसम्बन्धेनेन्द्रियविशिष्टत्वरूपं द्वीन्द्रियग्राह्यत्वमनुगतं निर्वस्तुं शक्यमिति वाच्यम् । जन्यत्वादिप्रवेशेनैतस्य अतिगुरुस्वादित्यभिप्रायात्। नचेन्द्रिययोग्यत्वमपि तजन्यलौकि- कप्रत्यक्षविषयवृत्तित्वमेवेति आधेयत्वमधिकमेव योग्यतानिवेशपक्ष इति वाच्यम् । चक्षुनोग्यत्वमुद्भूतरूपाद्य- न्यतमत्वं स्वग्योग्यत्वमुद्भूतस्पर्शायन्यतमत्वं एवंरूपत्वादिन्द्रिययोग्यतायाः अन्यतमत्वं च भेदकूटावच्छिन्न- भेदस्तस्यच तत्तद्यक्तित्वेनैव योग्यताघटकत्वोपगमेन लाघवानपायादिति ध्येयम् ॥ सांसिद्धिकेति ॥ तथावि- धद्रवत्वत्वस्नेह्त्वयोस्त्वक्चक्षुम्भयग्राह्यत्वाद्धर्माधर्मभावनानामतीन्द्रियत्वान्न तेषु हेतुसत्त्वमिति भावः॥हेत्व न्तरेणैवेति ॥ एते पञ्च विशेषगुणाः स्थितिस्थापकान्यत्वे सति विभिन्नद्रव्यविभाजकोपाधिमभ्याक्तिद्वयवृत्ति- तानवच्छेदकगुणत्वव्याप्यजातिमत्त्वात्सुखवदित्येवमनुमानं बोध्यम् ॥ पूर्वोक्तानुमाने स्पर्शवद्विशेषगुण. 47 कार- ---